वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्)

'वितर्कविचारानन्दाऽस्मितारूपानुगमात्' इति पाठान्तरम् अपि अस्ति। अथोपायद्वयेन - इतः उभयोः उपाययोः (अभ्यासस्य, (अपर)वैराग्यस्य च) माध्यमेन । निरुद्धचित्तवृत्तेः - निरुद्धचित्तवृत्तियुक्तस्य साधकस्य। कथम् - कस्य रूपस्य? सम्प्रज्ञातः समाधिरिति - सम्प्रज्ञातसमाधिः । (शास्त्रेषु) उच्यते - उपस्थाप्यते । एतस्मिन् विषये सूत्रमिदं वर्तते।

अग्रिमसूत्रेण सह सम्बन्धः - अथासम्प्रज्ञातः समाधिः किमुपायः किं स्वभावो वेति' ? एतस्य अग्रिमे सूत्रे उत्तरं प्राप्यते।

शब्दार्थः

सम्पादयतु

• वितर्कः = gross thought or reasoning

• विचारः = subtle thought

• आनन्दः = bliss, ecstasy

• अस्मिता = I-ness, individuality

• रूप = appearances, nature, form

• अनुगमात् = accompanied by, associated with, साक्षात्कारात्

• सम्प्रज्ञातः = cognitive absorption, lower samadhi

सूत्रसारः

सम्पादयतु

वितर्कः, विचारः, आनन्दः, अस्मिता इत्येतेषाम् अनुगमः ( अर्थात् साक्षात्कारोदयः ) भवति, ततः सम्प्रज्ञातसमाधिः भवति। आलम्बने चित्तस्य स्थूल(रूपस्य) परिपूर्णता वितर्कः उच्यते, सूक्ष्म(रूपस्य परिपूर्णता) विचारः उच्यते, आह्लाद(रूपस्य परिपूर्णता) आनन्दः उच्यते, (पुरुषस्य, बुद्धेश्च) एकाकारभूता बद्धि(रूपस्य परिपूर्णता) अस्मिता उच्यते। तेषु (चतुर्षु) सर्वप्रथमः अर्थात् वितर्कानुगतसम्प्रज्ञातसमाधिः ( एतेभ्यः ) चतुर्भ्यः अनुगतः भवति। वितर्करहितः (तथा शेषत्रयेभ्यः अनुगतः) विचारानुगतसम्प्रज्ञातसमाधिः द्वितीयः अस्ति। तृतीयः आनन्दानुगतसम्प्रज्ञातसमाधिः ( वितर्कः एवञ्च ) विचाररहितः (तथा च शेषद्वयोः अनुगतः ) भवति। ( एवञ्च ) चतुर्थः ( सम्प्रज्ञातसमाधिः ) एतेभ्यः ( त्रिभ्यः ) रहितः केवलम् अस्मितानुगतः भवति। एते सर्वे समाधयः सालम्बनाः भवन्ति॥१७॥

कस्मिँश्चित् विषये अमुक-रूपस्य परिपूर्णता (deep absorption) सम्प्रज्ञातः उच्यते। सा परिपूर्णता चतुर्धा भवति - स्थूलरूप-परिपूर्णतया वितर्कः (वितर्कानुगतसम्प्रज्ञातसमाधिः), सूक्ष्मरूप-परिपूर्णतया विचारः (विचारानुगतसम्प्रज्ञातसमाधिः), आह्लादरूप-परिपूर्णतया आनन्दः (आनन्दानुगतसम्प्रज्ञातसमाधिः), बुद्धि-एकाकार-रूप-परिपूर्णतया अस्मिता (अस्मितानुगत-सम्प्रज्ञातसमाधिः) च। एते सर्वे समाधयः सालम्बनाः भवन्ति॥

The deep absorption of attention on an object is of four kinds,

1) gross (वितर्कः),

2) subtle (विचारः),

3) bliss accompanied (आनन्दः), and

4) with I-ness (अस्मिता),

and is called Samprajnata samadhi.

सूत्रार्थः

सम्पादयतु

समस्तानां राजसानां, तामसानां च वृत्तीनाम् एतस्मिन् समाधौ निरोधः भवति, अतः केवलं सात्त्विकवृत्तीनां प्रकाशः अवशिष्यते। अत एव एतस्मिन् समाधौ सात्त्विकवृत्तीनां माध्यमेन ध्येयविषयस्य पूर्णतया साक्षात्कारः उदेति। एतस्य साक्षात्कारस्य कारणेन एव एतस्य समाधेः 'सम्प्रज्ञातः' इति नाम प्रदत्तम् अस्ति। (सम् +प्र+ज्ञा+क्तः कर्मणि = सम्प्रज्ञातः) । सम्यक् ( संशयादिरहितत्वेन ) प्रकर्षेण ( पूर्णतया ) ज्ञातः अधिगतः साक्षात्कृतः ( ध्येयाभेदोपचारेण) समाधिः सम्प्रज्ञातः । एषः सम्प्रज्ञातः समाधिः चतुःप्रकारकाणां ध्येयानाम् अनुगमं ( अनुगततत्त्वम्, उपस्थितिम् उत साक्षात्कारं) करोति, अतः चतुर्धा मन्यते।

1) वितर्करूपस्य ध्येयस्य अर्थात् स्थूलस्य पाञ्चभौतिकध्येयस्य अनुगमनकर्त्र्याः अर्थात् स्थूलध्येये पूर्णतया तदाकाराकारित-जायमानायाः सात्त्विकवृत्तेः उदये सति 'वितर्कानुगतसम्प्रज्ञातसमाधिः' भवति।

वितर्कः = ऊहः, ज्ञानसूचकः, संशयः।

2) विचारः अर्थात् सूक्ष्म-पञ्चतन्मात्रादिविषयाणाम् अनुगमे सति 'विचारानुगतसम्प्रज्ञातसमाधिः' भवति।

3) आनन्दः अर्थात् आनन्दात्मक-इन्द्रियाणाम् अनुगमे सति 'आनन्दानुगतसम्प्रज्ञातसमाधिः' भवति।

4) अस्मितातत्त्वस्य अनुगमे सति 'अस्मितानुगतसम्प्रज्ञातसमाधिः' भवति।

'अनुगम' शब्दस्य अर्थः अस्ति 'साक्षाद् उपस्थितिः उत साक्षात्कारः' । यदा समाधिकालिके चित्ते तत्तद्विषयस्य पूर्णरूपेण उपस्थितिः भवति, अर्थात् तेषां पूर्णतया साक्षात्कारः भवति, तस्मिन् समये तद्विषयस्य अनुगमः उच्यते। सश्च समाधिः तत्तदानुगतः उच्यते॥

व्यासभाष्यम्

सम्पादयतु

वितर्कश्चित्तस्यालम्बने स्थूल आभोगः, सूक्ष्मो विचारः, आनन्दो ह्लादः, एकात्मिका संविदस्मिता । तत्र प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः । द्वितीयो वितर्कविकलः सविचारः । तृतीयो विचारविकलः सानन्दः । चतुर्थस्तद्विकलोऽस्मितामात्र इति । सर्व एते सालम्बनाः समाधयः ॥१७॥

भाष्यार्थः

सम्पादयतु

भाष्यकारः एतेषां वितर्कादिशब्दानाम् अर्थं स्पष्टयति।

1) वितर्कः - वितर्कः भवति। चित्तस्य - चित्तस्य। आलम्बने - ध्येयविषये । स्थूल-आभोगः - पूर्णतः स्थूलाकाराकारितत्वम् । आभोगः -'परिपूर्णता'।' साक्षात्कारः पूर्णतः आलम्बनाकाराकारिता प्राप्तिः। 'स्वरूपसाक्षात्कारवती प्रज्ञा आभोगः' । एवं प्रकारेण 'वितर्कः' शब्दस्य अर्थः चित्तस्य पूर्णरूपेण स्थूलाकाराकारितत्वम् इति भवति।

2) सूक्ष्मः ( आभोगः ) विचारः - आलम्बने चित्तस्य पूर्णरूपेण सूक्ष्माकाराकारितता 'विचारः' भवति।

3) आनन्दो ह्लादः - आह्लादः, सुखम् । एकादशेन्द्रियः एव आनन्दः मन्यन्ते, यतः तानि सत्त्वप्रधान-अहङ्कारात् उत्पन्नत्वात् सत्त्वप्रधानानि उत सत्त्वरूपाणि भवन्ति। एत एव सत्त्वगुणः सुखात्मकः भवति। एवं चित्तस्य पूर्णतः सुखाकाराकारितता 'आनन्दः' उच्यते।

4) एकात्मिका संविदस्मिता - बुद्धिस्थचितिच्छाया अर्थात् बुद्धिस्थः पुरुषप्रतिबिम्बः एव 'अस्मिता' अस्ति। बुद्धिः समस्तज्ञानम् एतस्मै पुरुषप्रतिबिम्बाय एव अर्पयति। एतस्यामेव अवस्थायां स्थितपुरुषः सर्वान् अनुभवान् आत्मसात् करोति। स्वस्य सत्तायाः अपि अनुभवं ( 'अस्मि'-इति रूपेण) सः एतस्याम् अवस्थायां करोति। एषा एव 'अस्मिता' Individuating principle उच्यते। ग्रहीतापुरुषेण सह बुद्धेः एकरूपतासदृशी स्थितिः एव पुरुषतत्त्वम् 'अस्मितातत्त्वस्य रूपेण प्रकटयति।

'दृग्दर्शनशक्त्योरेकात्मतेवास्मिता।' तत्त्ववैशारदीकारः एतस्याः 'अस्मिता'याः व्याख्यां कुर्वन् कथयति — 'सा चात्मना ग्रहीत्रा सह बुद्धिरेकात्मिका संविद् इति।' एतादृशी बुद्धिः 'अस्मिता' अस्ति, यस्यां एकात्मा (प्रतिबिम्बरूपेण) उपस्थितः भवति। (एकः आत्मा अस्यामस्ति इति एकात्मिका संविद् बुद्धिः सैवास्मिता।)

एतत् 'अस्मिता'-तत्त्वम् अन्तःकरणे अन्तर्भूतात् 'अहङ्कारात्' भिन्नम् अस्ति — इति भोजदेवस्य मतम् अस्ति। न चाहङ्कारास्मितयोरभेदः शकुनीयः, यतो यत्रान्तःकरणमहमिति उल्लेखेन विषयवान् वेदयते सोऽहङ्कारः । यत्रान्तर्मुखतया प्रतिलोमपरिणामे प्रकृतिलीने चेतसि सत्तामात्रमवभाति साऽस्मिता।'

वस्तुतः एतयोः मध्ये अन्तर-निर्धारणम् अपि उचितं न भवति, यतः यदि 'अस्मिता', 'अहङ्कारः' इत्येतौ द्वे तत्त्वे अभविष्येतां, तर्हि 'सांख्ययोगे' एकस्य अधिकस्य तत्त्वस्य स्वीकारः जातः स्यात्। किन्तु आचार्याः केवलं २५ तत्त्वानि एव अङ्गीकुर्वन्ति। वास्तव्येन 'अस्मिता', 'अहङ्कारः' उभौ एकस्य तत्त्वस्य एव द्वे नामनी स्तः। सूत्रे, भाष्ये च एतस्य अनेकानि प्रमाणानि प्राप्यन्ते। चित्ते प्रतिबिम्बित-जायमा पुरुषसत्ता एव 'अस्मिता' उच्यते। एतस्यां स्थित्यां चित्तस्य, पुरुषस्य च एकाकारतावत् प्रतीयते (आभासः भवति)। एतत् एकत्वेनावभासमानतत्त्वम् अर्थात् पुरुषप्रतिबिम्बोपेताबुद्धिः एव 'अस्मिता' अस्ति, साश्च 'अहङ्कारः' अपि अस्ति।

तत्र - एतेषु चत्वारिषु - १. वितर्कानुगतः, २. विचारानुगतः, ३. आनन्दानुगतः ४. अस्मितानुगतः इत्येतेभ्यः सम्प्रज्ञातसमाधिभ्यः । प्रथमश्चतुष्टयानुगतः समाधिः सवितर्कः - प्रथमः अर्थात् 'वितर्कानुगतः' सम्प्रज्ञातसमाधिः वितर्कादिभिः चतुर्भिः आभोगैः अनुगतः उत युक्तः भवति। एतस्य अभिप्रायः अस्ति यत्, एतस्मिन् समाधौ यद्यपि स्थूल-आभोगस्य प्राधान्यं भवति, तथाऽपि विचारः, आनन्दः, अस्मिता इत्येतेषाम् आभोगः अपि गौणरूपेण स्थिरीभवति। यतः 'स्थूलध्येयविषय'-कार्यम् अस्ति, अग्रिमाणां त्रयाणां समाधीनां ध्येयविषयाः, एतस्य स्थूलध्येविषयस्य (उपादान) कारणाः सन्ति। कार्यम् ( उपादानं ) सर्वदा कारणात् अनुप्रविष्टं भवति, अपि तु ( उपादानं ) कारणं कार्यात् कदाऽपि अनुप्रविष्टं न भवति। 'कार्यं कारणानुप्रविष्टं न कारणं कार्येण ।'

द्वितीयो वितर्कविकलः सविचारः - (तथैव) द्वितीयः अर्थात् 'विचारानुगतसम्प्रज्ञातसमाधि' वितर्कस्य आभोग-रहितः, शेषानां त्रिभिः आभोगैः युक्तः च भवति। अत्र 'विचारस्य आभोगः' प्रधानरूपेण भवति। एञ्च आनन्दस्य, अस्मितायाश्च आभोगः गौणरूपेण वर्तमानः भवति।

तृतीयो विचारविकलः - सानन्दः तृतीयः 'आनन्दानुगत-सम्प्रज्ञातसमाधिः' विचारस्य आभोगात् अपि रहितः भवति। एतस्मात् वितर्काभोगात् रहितता तु स्पष्टा एव अस्ति। अत्र 'आनन्दस्य आभोगः' प्रधानः भवति। एवञ्च अस्मिताभोगः गौणरूपेण भवति।

चतुर्थस्तद्विकलोऽस्मितामात्रः - चतुर्थः अर्थात् 'अस्मितानुगत-सम्प्रज्ञातसमाधिः' एतस्मात् आनन्दाभोगात् अपि रहितः भवति। अत्र केवलम् 'अस्मिताभोगः' अवशिष्यते। शेषाः त्रयः आभोगाः गौणरूपेण अपि न तिष्ठन्ति।

सर्व एते सालम्बनाः समाधयः - एते सर्वे आलम्बनयुक्ताः सम्प्रज्ञातसमाधयः।

(१) वितर्कानुगतः,

(२) विचारानुगतः,

( ३ ) आनन्दानुगतः

(४) अस्मितानुगतः ।

आलम्बनेन सह वर्तमानाः - ध्येयविषययुक्ताः एव भवन्ति॥

सम्प्रज्ञातसमाधेः प्रकाराः
वितर्कानुगतः विचारानुगतः आनन्दानुगतः अस्मितानुगतः
वितर्कसम्बद्धत्वात् विचारसम्बद्धत्वात् आनन्दसम्बद्धत्वात् अस्मितासम्बद्धत्वात्
पञ्च-स्थूलभूत-विषयकस्य, स्थूलेन्द्रिय-विषयकस्य च ग्राह्यरूप-विषयात् चित्तस्य वृत्तीनां निरोधः पञ्च-सूक्ष्मभूत-विषयकस्य, सूक्ष्मेन्द्रिय-विषयकस्य च ग्राह्यरूप-विषयात् चित्तस्य वृत्तीनां निरोधः तन्मात्राणाम्, इन्द्रियाणां च कारणसत्त्वप्रधान-अहङ्कार-विषयकस्य ग्रहणरूप-विषये चित्तस्य एकाग्रतया वृत्तीनां निरोधः। (चित्तस्य सत्त्वपूर्णतायाः अन्तरं ग्राह्यविषयः न अवशिष्यते, आनन्द-ग्रहणरूपः एव विषयः भवति। अत्र किमपि ग्राह्यं नास्ति, केवलं ग्रहणं भवति।) अस्मितायाः अर्थात् चेतनायाः प्रतिबिम्बित-चित्तसत्त्वस्य बीजरूप-अङ्कारसहित-विषयकस्य सम्बन्धेन चित्तस्य वृत्तीनां निरोधः
सवितर्कः – शब्द-अर्थ-ज्ञानानां ग्राह्यरूपः सवितर्कः

निर्वितर्कः – शब्द-अर्थ-ज्ञानानां रहितस्य केलवं अर्थमात्र-ग्राह्यरूपः (एषः निर्वकल्पः इत्यपि उच्यते)

उदा. – शब्दः – कर्णेन्द्रियेण ग्राह्यः – गौः

अर्थः – जातिः, आकारः, रङ्गः, अङ्गः इत्येतेषाम् अर्थग्रहणम्

ज्ञानम् – शब्दस्य, अर्थस्य च प्रकाशक-सत्त्वप्रधाना बुद्धिवृत्तिः एव अर्थः। (सूत्रम् - ४२)

विशेषव्याख्या

सम्पादयतु
  • (सत्त्ववृत्तीनां प्रकाशे) ध्येयविषयस्य पूर्णतया साक्षात्कारस्य कारणेन एव एतस्य समाधेः 'सम्प्रज्ञातः' इति नाम प्रदत्तम् अस्ति। (सम् +प्र+ज्ञा+क्तः कर्मणि = सम्प्रज्ञातः) । सम्यक् ( संशयादिरहितत्वेन ) प्रकर्षेण ( पूर्णतया ) ज्ञातः अधिगतः साक्षात्कृतः ( ध्येयाभेदोपचारेण) समाधिः सम्प्रज्ञातः।
  • 'अनुगम' शब्दस्य अर्थः अस्ति 'साक्षाद् उपस्थितिः उत साक्षात्कारः' ।
  • बुद्धिस्थचितिच्छाया अर्थात् बुद्धिस्थः पुरुषप्रतिबिम्बः एव 'अस्मिता' अस्ति।
  • आभोगः - 'परिपूर्णता'।' साक्षात्कारः पूर्णतः आलम्बनाकाराकारिता प्राप्तिः। 'स्वरूपसाक्षात्कारवती प्रज्ञा आभोगः'


पातञ्जलयोगसूत्राणि
  पूर्वतनः
----
वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः (योगसूत्रम्) अग्रिमः
योगश्चित्तवृत्तिनिरोधः
 
समाधिपादः

१. अथ योगानुशासनम् २. योगश्चित्तवृत्तिनिरोधः ३. तदा द्रष्टुः स्वरूपेऽवस्थानम् ४. वृत्तिसारूप्यमितरत्र ५. वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः ६. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ७. प्रत्यक्षानुमानागमाः प्रमाणानि ८. विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् ९. शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः १०. अभावप्रत्ययालम्बना वृत्तिर्निद्रा ११. अनुभूतविषयासंप्रमोषः स्मृतिः १२. अभ्यासवैराग्याभ्यां तन्निरोधः १३. तत्र स्थितौ यत्नोऽभ्यासः १४. स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः १५. दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् १६. तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम् १७. वितर्कविचारानन्दास्मितारूपानुगमात् संप्रज्ञातः १८. विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः १९. भवप्रत्ययो विदेहप्रकृतिलयानाम् २०. श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषां २१. तीव्रसंवेगानामासन्नः २२. मृदुमध्याधिमात्रत्वात् ततोऽपि विशेषः २३. ईश्वरप्रणिधानाद्वा २४. क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः २५. तत्र निरतिशयं सार्वज्ञबीजं २६. स पूर्वेषामपि गुरुः कालेनानवच्छेदात् २७. तस्य वाचकः प्रणवः २८. तज्जपस्तदर्थभावनम् २९. ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ३०. व्याधिस्त्यानसंशयप्मादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानिचित्तविक्षेपास्तेऽन्तरायाः (योगसूत्रम्)| ३१. दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्षेपसहभुवः ३२. तत्प्रतिषेधार्थमेकतत्त्वाभ्यासः ३३. मैत्रीकरुणामुदितोपेक्षणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनम् ३४. प्रच्छर्दनविधारणाभ्यां वा प्राणस्य ३५. विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धनी ३६. विशोका वा ज्योतिष्मती ३७. वीतरागविषयं वा चित्तं ३८. स्वप्ननिद्राज्ञानालम्बनं वा ३९. यथाभिमतध्यानाद्वा ४०. परमाणु परममहत्त्वान्तोऽस्य वशीकारः ४१. क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु तत्स्थतदञ्जनता समापत्तिः ४२. तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ४३. स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ४४. एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता ४५. सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ४६. ता एव सबीजः समाधिः ४७. निर्विचारवैशारद्येऽध्यात्मप्रसादः ४८. ऋतम्भरा तत्र प्रज्ञा ४९. श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् ५०. तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी ५१. तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः


सम्बद्धाः लेखाः

सम्पादयतु

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine