तदा द्रष्टुः स्वरूपेऽवस्थानम् (योगसूत्रम्)
तदा द्रष्टुः स्वरूपेऽवस्थानम् समाधिपादस्य तृतीयं सूत्रम् | |
---|---|
सूत्रसङ्ख्या | १/३ |
सूत्रप्रकारः | स्वरूपवर्णनम् |
पूर्वसूत्रम् | योगश्चित्तवृत्तिनिरोधः |
अग्रिमं सूत्रम् | वृत्तिसारूप्यमितरत्र |
सूत्रसारः
सम्पादयतुव्यासभाष्यम्
सम्पादयतुतदवस्थे चेतसि विषयाभावाद्बुद्धिबोधात्मा पुरुषः किंस्वभावः ? इति— स्वरूपप्रतिष्ठा तदानीं चितिशक्तिर्यथा कैवल्ये । व्युत्थानचित्ते तु सति तथापि भवन्ती न तथा ॥३॥ कथं तर्हि ? दर्शितविषयत्वात्—
भावार्थः
सम्पादयतुद्रष्टुः (पुरुषस्य) चित्तवृत्तिः निरुद्धकाले तथैव चेतनमात्रे (शुद्धपरमात्मि) स्वस्य स्वरूपे स्थिता भवति, यथा कैवल्ये भवति। चित्तस्य व्युत्थानम् (निरुद्धावस्थायाः इतरावस्थासु) अवस्थासु अपि पुरुषः स्वस्य स्वाभाविके असङ्गे चेतनरूपे एव स्थितः भवति। परन्तु चित्तस्य उपाधित्वात् चित्तवत्तेः अनुसारम्, अर्थात् शान्ति-क्रोध-मूढादि-चित्तवृत्ति-अनुसारं प्रतीतः भवति। वृत्ति-निरुद्धावस्थायां वृत्तीनां निरोधत्वात् पुरुषस्य निरोधः न भवति, परन्तु चित्तरूपस्य उपाधेः (sobriquet -सोब्रके(ट्) - giving a title, like- I am Man, woman, good, bad etc.) अभावत् अर्थात् वृत्तेः अभावात् यदा औपाधिक-शान्ति-स्थिरता-क्रोध-आदिरूपस्य अभावो जायते, तदा पुरुषः स्वस्य उपाधिरहिते (without title) रूपे अवस्थितः भवति। अभिप्रायोऽस्ति यत्, विवेक-ख्यातेः प्राप्तौ सत्यां वस्तूनि, आकारे च परिणामरहिते चित्ते कर्तृत्वस्य अभिमानं निवृत्तं भवति। अर्थात्, अहं कर्ता अस्मि, अहं सुखी अस्मि, अहं दुःखी अस्मि इत्यादीनाम् अभिमानभावाना निवृत्तिः भवति, चित्ते (अन्तःकरणे) वृत्तिरूपाः परिणामाः (वृत्तीनाम् आगमनम्) अपि निरुद्धाः भवन्ति; तस्यां स्थित्याम् एव आत्मनः (consciousness) स्वरूपे अवस्थितिः भवति।
चितिशक्तिः[१] वास्तविकतया नित्या अस्ति, अतः स्वरूपात् कदाऽपि प्रच्युता न भवति। यथा निरोधकाले पुरुषस्य स्वभावः भवति, तथैव व्युत्थानकाले अपि भवति, किन्तु अविवेकत्वात् सा प्रतीतिः भवति। उदाहरणत्वेन, यदा भ्रमत्वात् (because of illusion) शुक्तौ (सीप में/oyster(ओईस्टर)/shell) रजतस्य (चाँदी/silver) ज्ञानं भवति, तदा तस्मिन् भ्रमकाले तस्य भ्रमस्य कारणेन शुक्तेः अभावः न भवति, प्रत्युत रजतस्य उत्पत्तिः अपि न भवति। अर्थात्, शुक्तिं यदि कोऽपि रजतं स्वीकरोति, तर्हि शुक्तिः रजतरूपेण परिणतः न भवति। तत्र रजतस्य उत्पत्तिः न भवति। ततः भ्रमे दूरे सति यदा वास्तविकतायाः ज्ञानं भवति यत्, एषा शुक्तिः अस्ति, न तु रजतः इति, तस्मिन् समये ज्ञानप्रकाशत्वात् शुक्तेः उत्पत्तिः भवति, रजत्य अभावः च न भवति। अर्थात्, पश्चात् शुक्तित्वेन तस्य परिचये प्राप्ते रजतस्य अभावः न भवति, न तु शुक्तिः उत्पन्ना भवति। परन्तु केवलं अस्ति उत नास्ति ("it is" or "It is not") (भावस्य उत अभावस्य) इत्येतयोः बोधः एव भवति। एवं ज्ञाने सति वास्तविक-वस्तोः नाम्ना नवीनतया व्यवहारः आरभते। तावदेव भवति। तत्र किमपि विशेषं परिवर्तनं न भवति। तथैव चिति-शक्तिः सर्वदा निर्विकारा भवति, किन्तु व्युत्थानकाले अविवेककत्वात् अन्यरूपेण (अन्यरूपेण इत्युक्ते किम्?) अनुभूयते, सा एव चितिः निरोधकाले कैवल्यसदृशा शान्ता च अनुभूयते। एतावान् एव निरोधे, व्युत्थानकाले च भेदः अस्ति।
विवेक-ख्यातिः अन्तिमतमा सात्त्विकी वृत्तिः अस्ति, यस्यां चित्तद्वारा आत्मनः साक्षात्कारः भवति। एतावान् एव पुरुषार्थस्य विषयः भवति। अर्थात्, पुरुषार्थं कृत्वा जीव/पुरुषः अत्र पर्यन्तम् आन्तुं शक्नोति। अत्र यः आत्मसाक्षात्कारः भवति, तस्मात् चित्तस्य सात्त्विकता अत्यधिकतया वर्धते, फलतः वृत्तिभ्यः अपि आसक्तिः अपाभवति। वृत्तिभ्यः आसक्तेः निवृत्तिः एव परवैराग्यम् उच्यते। एवं चित्ते काऽपि वृत्तिः न अवशिष्यते, दृष्टुः च शुद्धे परमात्मनि अवस्थितिः भवति।
दृष्टा, पुरुषः, चितिशक्तिः, दृक्शक्तिः, चेतनः, आत्मा इत्येते शब्दाः एकार्थकवाचकाः सन्ति।
अभ्यासः, उपाधिः, आरोपः, भ्रमः इत्येते शब्दाः एकार्थकवाचकाः सन्ति।
प्रश्नः - निरोधात् भिन्नायां व्युत्थान-अवस्थायां पुरुषस्य किं स्वरूपं भवति? (व्युत्थानकाले चितिशक्तिः अविवेकत्वात् अन्यरूपेण अनुभूयते, तर्हि अन्येन केन रूपेण अनुभूयते?)
विशेषव्याख्या
सम्पादयतु1) व्यात्थानकालः -
2) निरोधावस्थायाः, व्युत्थानकालस्य च मध्ये भेदः - चिति-शक्तिः सर्वदा निर्विकारा भवति, किन्तु व्युत्थानकाले अविवेककत्वात् अन्यरूपेण () अनुभूयते, सा एव चितिः निरोधकाले कैवल्यसदृशा, वास्तविकस्वरूपा, शान्ता च अनुभूयते। एतावान् एव निरोधे, व्युत्थानकाले भेदः अस्ति।
3) परवैराग्यम् - यः आत्मसाक्षात्कारः भवति, तस्मात् चित्तस्य सात्त्विकता अत्यधिकतया वर्धते, फलतः वृत्तिभ्यः अपि आसक्तिः अपाभवति। वृत्तिभ्यः आसक्तेः निवृत्तिः एव परवैराग्यम् उच्यते।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि तदा द्रष्टुः स्वरूपेऽवस्थानम् (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine