प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)
सूत्रसारः
सम्पादयतुव्यासभाष्यम्
सम्पादयतुइन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात्तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षं प्रमाणम् । फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः । बुद्धेः प्रतिसंवेदी पुरुष इत्युपरिष्टादुपपादयिष्यामः । अनुमेयस्य तुल्यजातीयेष्वनुवृत्तो भिन्नजातीयेभ्यो व्यावृत्तः सम्बन्धो यस्तद्विषया सामान्यावधारणप्रधाना वृत्तिरनुमानम् । यथा देशान्तरप्राप्तेर्गतिमच्चन्द्रतारकं चैत्रवत्, विन्ध्यश्चाप्राप्तिरगतिः । आप्तेन दृष्टोऽनिम्तो वार्थः परत्र स्वबोधसङ्क्रान्तये शब्देनोपदिश्यते । शब्दात्तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो वक्ता न दृष्टानुमितार्थः स आगमः प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात॥७॥
विशेषम्
सम्पादयतु1) प्रमाणम् - real or right knowledge, valid proof, seeing clearly
प्रमीयते विश्वमनेनेति । प्र + मा + ल्युट् ।
(प्र + मा + भावे ल्युट् ।) प्रमायाः करणम् । हेतुः, करणम्, प्रमा = यथार्थज्ञानम्
2) विपर्ययः - unreal cognition, indiscrimination (इन्डिस्क्रिमिनेशन), perverse (पवर्झ) cognition, wrong knowledge, misconception, incorrect knowing, not seeing clearly
वि+पर्यय -
3) विकल्पः - imagination, misconception or delusion, fantasy, hallucination (हेलुसनेशन्स्)
विरुद्धं कल्पनमिति । वि + कृप + घञ् । भ्रान्तिः।
4) निद्रा - deep sleep
नि + द्रा--भावे अ।
5) स्मृतिः - memory, remembering
(स्मृ + क्तिन् ।) अनुभूतविषय- ज्ञानम् ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिस्रोतसि प्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)-सम्बन्द्धाः बहवः मूलग्रन्थाः विद्यन्ते । |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतुआङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine
स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine