कृष्णगिरिमण्डलम्
कृष्णगिरिमण्डलमं (तमिऴ्: கிருட்டிணகிரி மாவட்டம் आङ्ग्लम्: Krishnagiri District) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं कृष्णगिरिपत्तनम् । तमिऴ्नाडुराज्ये राष्ट्रिय-आन्तर्जालिक-प्रशासन-प्रकल्पे (National E-Governance Project – NEGP) आन्तर्जालिकप्रशासनं कृष्णगिरिमण्डले एव आयकरविभागे समाजाभिवृद्धिविभागे च प्रथमतः आरब्धम् । न केवलं तमिऴ्नाडुराज्ये, अपि तु समग्रे भारतदेशे आम्रफलस्य उत्पादने कृष्णगिरिमण्डलम् अग्रेसरम् ।
कृष्णगिरिमण्डलम् கிருட்டிணகிரி மாவட்டம் | |||||||
— मण्डलम् — | |||||||
निर्देशाङ्काः
१२°३१′४.८″ उत्तरदिक् ७८°१२′४६.८″ पूर्वदिक् / 12.518000°उत्तरदिक् 78.213000°पूर्वदिक् | |||||||
देशः | भारतम् | ||||||
राज्यम् | तमिऴ्नाडु | ||||||
उपमण्डलम् | कृष्णगिरिः, होसूरु, देङ्कनिकोट्टै, पोचम्पळ्ळि, ऊत्तङ्गरै | ||||||
केन्द्रप्रदेशः | कृष्णगिरिनगरम् | ||||||
बृहत्तमं नगरम् | कृष्णगिरिनगरम् | ||||||
बृहत्तमं महानगरम् | कृष्णगिरिनगरम् | ||||||
Collector | डा। सि। एन्। महेश्वरन्,IAS | ||||||
Municipal Corporations | कृष्णगिरि | ||||||
Municipalities | |||||||
Town Panchayats | |||||||
व्यावहारिकभाषा(ः) | तमिऴ् | ||||||
---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||
Central location: | १२°३१′ उत्तरदिक् ७८°१२′ पूर्वदिक् / 12.517°उत्तरदिक् 78.200°पूर्वदिक् | ||||||
सङ्केताः
| |||||||
जालस्थानम् | Official website of Krishnagiri District |
इतिहासः
सम्पादयतुअस्मिन् मण्डले बहवः कृष्णवर्णीयाः ग्रानैट्गिरयः सन्ति । अतः अस्य नाम कृष्णगिरिः इति । कृष्णदेवरायस्य प्रशासने इदं मण्डलम् आसीत्, अतः इदं नाम इत्यपि पक्षः अस्ति । २००४तमवर्षपर्यन्तं कृष्णगिरिः धर्मपुरीमण्डलस्य भागः आसीत् । वर्धमानां जनसंख्यां, प्रदेशस्य विशिष्टांशान् च परिगणय्य २००४तमवर्षस्य फ़ेब्रवरी नवमदिनाङ्के तमिऴ्नाडुराज्यस्य त्रिंशमण्डलत्वेन कृष्णगिरिमण्डलं निर्मितम् । श्रीमङ्गतरामशर्मा (भा.प्र.से) अस्य मण्डलस्य प्रथमः समाहर्ता आसीत् ।
भौगोलिकम्
सम्पादयतुकृष्णगिरिमण्डलस्य विस्तारः ५१४३ चतुरश्रकिलोमीटर् । अस्य पूर्वभागे वेलूरु-तिरुवण्णामलैमण्डले स्तः । पश्चिमसीमायां कर्णाटकराज्यम् अस्ति । उत्तरभागे आन्ध्रप्रदेशः । दक्षिणे धर्मपुरीमण्डलम् अस्ति । समुद्रस्तरात् ३०० मीटर्तः १४०० मीटर् औन्नत्यम् अस्य मण्डलस्य । मण्डलस्य बहुभागः गिरिभिः आवृतः । समप्रदेशेषु दक्षिणपेन्नार् नद्याः जलेन कृषिकार्यं प्रचलति । मण्डलस्य पूर्वभागे वायुगुणः प्रायेण उष्णः । पश्चिमभागे तु कवोष्णः । वार्षिकवृष्टिः प्रायेण ८३० मिलिमीटर् भवति । मार्च् मासतः जून् मासाभ्यान्तरं ग्रीष्मकालः । जुलैतः नवेम्बर्पर्यन्तं वर्षाकालः । डिसेम्बर्मासतः फ़ेब्रवरी-मासाभ्यान्तरं शैत्यकालः इति परिगण्यते ।
जनसंख्या
सम्पादयतु२०११तमवर्षस्य जनगणनानुगुणं कृष्णगिरिमण्डले १,८८३,७३१ जनाः वसन्ति । भारतस्य ६४० मण्डलेश्उ जनसंख्यादृष्ट्या अस्य मण्डलस्य २५१तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३७० अस्ति (९६० प्रतिचतुरश्रमैल्) । २००१-२०११दशके जनसंख्यावृद्धिः २०.६७% आसीत् । मण्डले पुं-स्त्री अनुपातः १०००:९५६, साक्षरताप्रमाणं च ७२.४१% अस्ति । मण्डले विविधभाषाणां धर्माणां च समन्वयः दृश्यते । तमिऴ्, तेलुगु, कन्नडम् इति तिस्रः भाषाः प्रामुख्येन भाष्यन्ते । हिन्दूधर्मीयाः, क्रैस्तधर्मीयाः, इस्लाम्धर्मीयाः च अधिकसंख्यायां सन्ति ।
उपमण्डलानि
सम्पादयतुकृष्णगिरिमण्डले पञ्च उपमण्डलानि सन्ति –
- कृष्णगिरिः
- होसूरु
- देङ्कनिकोट्टै
- पोचम्पळ्ळि
- ऊत्तङ्गरै
कृषिः वाणिज्यं च
सम्पादयतुकृष्णगिरिमण्डलस्य आम्रफलानि बहु प्रसिद्धानि । तमिऴ्नाडुराज्ये रागीधान्यस्य अत्यधिकप्रमाणस्य कृषिः कृष्णगिरौ एव भवति (४०%) । तण्डुलः, कदली, इक्षुखण्डः, कार्पासः,तिन्त्रिणी, नारिकेलः, कलायः, शाकाः, पुष्पाणि च अपराणि प्रमुखसस्यानि ।
तमिऴ्नाडु कृश्इविश्वविद्यालयस्य प्रादेशिक-कृषि-संशोधना-केन्द्रम् अस्य मण्डलस्य कावेरीपट्टिने पैयूरौ १९७३तः कार्यं निर्वहति । कृषिकार्ये आधुनिकतन्त्रज्ञानम् उपकरणानि च उपयोक्तुम् इदं केन्द्रं कृषिकाणां साहाय्यं विदधाति । उत्पादनाधिक्यं गुणवत्ततां च साधयितुं नूतनबीजसन्ततेः अपि संशोधनम् अपि अनेन केन्द्रेण क्रियमाणम् अस्ति । ग्रानैट् उद्यमः अपि मण्डले अभिवृद्धः अस्ति । बहुषु स्थलेषु ग्रानैट् खनयः संस्करणकार्यागाराः च दृश्यन्ते । प्रायः ७००० कर्मचारिणः खनिषु कार्यरताः सन्ति । अस्य मण्डलस्य होसूरुप्रदेशः अस्य राज्यस्य अत्यन्तम् उद्यमीकृतेषु प्रदेशेषु अन्यतमः ।
कृष्णगिरिमण्डलस्य ३९% प्रदेशः अरण्यावृतः । अरण्यप्रदेशेभ्यः अपि उत्पन्नानि लभ्यन्ते । वंशवृक्षाणाम् उत्पन्नानि, मधुसङ्ग्रहणम्, तिन्त्रिणीकृषिः इत्यादिषु कार्येषु अञ्चेट्टि, देङ्कनिकोट्टै, तळ्ळि, बेरिगैप्रदेशानां ग्रामस्थाः रताः ।
वीक्षणीयस्थलानि
सम्पादयतुकृष्णगिरिः
सम्पादयतुकृष्णगिरिपत्तनस्य समीपे तदानीन्तनेन मुख्यमन्त्रिणा कामराजेन निर्मितः कृष्णगिरिजलाशयः अस्ति । समीपे एव सय्यद् बाषागिरिषु टिप्पू सुल्तानस्य दुर्गः अस्ति । पत्तनस्य बस्स्थानकतः ८ किलोमीटर् दूरे नौकागृहम् उद्यानं च अस्ति । कृष्णगिरेः समीपे बहवः पुरातनदेवालयाः अपि सन्ति । समीपस्थे रामपुरे ५०० वर्षेभ्यः प्राक् निर्मितं राममन्दिरम् अस्ति । अत्र प्रतिवर्षं सहस्रशः भक्ताः आगच्छन्ति ।
होसूरु
सम्पादयतुहोसूरुपत्तने प्रसिद्धः गिरिदेवालयः अस्ति । अत्रत्यः आराध्यदेवः अरुळमिगु मरकताम्बासमेतः श्री चन्द्रचूडेश्वरः । होसूरुतः २ किलोमीटर् दूरे दक्षिणतिरुपतिः इति ख्यातः श्रीवेङ्कटेश्वरदेवालयः अपि अस्ति ।
देङ्कनिकोट्टै
सम्पादयतुअस्मिन् पत्तने पुरातनः बेट्टरायस्वामिदेवालयः (श्रीदेवी-भूदेवी-समेत-वेट्टैयडिय-पिरन् इति तमिऴ्भाषायां ख्यातः) अस्ति । एकदा कण्वमहर्षिः देङ्कनिनामकं दैत्यं मारयितंि प्रार्थितवान् । तस्य दैत्य मारणानन्तरं विष्णुः अत्रैव वासं कृतवान् इति स्थलपुराणम् । अयं देवालयः ५०० वर्षेभ्यः प्राक् निर्मितः इति श्रूयते । अस्मिन् देवालये प्रचाल्यमानः वार्षिकरथोत्सवः बहुप्रसिद्धः । अस्मिन् पत्तने लक्ष्मीनरसिंहस्वामिनः गविनरसिंहदेवालयः अपि अस्ति । देङ्कनिकोट्टैसमीपे अलसेट्टिग्रामे शिवनञ्जुण्डेश्वस्वामिदेवालयः अस्ति । देङ्कनिकोट्टैपत्तने मुस्लिमेषु ख्याता याराबस्य दर्गा वर्तते । यदा अस्मिन् पत्तने प्लेग्-साङ्क्रामिकः प्रसृतः, तदा बहवः जनाः भीत्या पत्तनं त्यक्तवन्तः । याराब हज़रतस्य आगमनेन प्लेग्-रोगः निवारितः इति जनाः कथयन्ति । अस्यां दर्गायां याराब हज़रतस्य, तस्य पुत्रस्य खलीफ़्-ए-हज़रतस्य च स्मारकम् अस्ति ।
हनुमान्तीर्थः
सम्पादयतुऊत्तङ्गरैपत्तनात् दशकिलोमीटर् दूरे पेण्णैयार् नद्याः तीरे इदं क्षेत्रम् अस्ति । तीर्थमलैक्षेत्रे श्रीरामः तपः कर्तुं गङ्गाजलम् आनेतुं हनूमन्तम् अवदत् । हनूमान् गङ्गाम् आनेतुं गतः, किन्तु समये प्रत्यागन्तुं न शक्तः । तदा रामः अस्त्रप्रयोगं कृत्वा गङ्गाजलं स्वीकृतवान् । प्रत्यागतः हनूमान् निराशः स्वेन आनेतं गङ्गाजलम् अस्मिन् क्षेत्रे क्षिप्तवान् इति कथा विद्यते । अतः अत्रत्यं जलं पवित्रम् इति जनाः मन्यन्ते । तमिऴ्संवत्सरस्य आडिमासे (कटकमासः, आङ्ग्लगणनायां जुलै-आगस्ट्) बहवः जनाः अत्र आगच्छन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- Government's Krishnagiri District website Archived २००६-०८-११ at the Wayback Machine