प्रमुखा विकल्पसूचिः उद्घाट्यताम्

द्वैतदर्शनम्

(द्वैतम् इत्यस्मात् पुनर्निर्दिष्टम्)
मध्वसिद्धान्तस्य प्रवर्तकः मध्वाचार्यः

त्रिषु वेदान्तेषु मध्वसिद्धान्तः अन्यतमः अस्ति । द्वैतपदस्य भेदः इत्यर्थः । अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारोऽस्ति । अस्य सिद्धान्तस्य प्रतिपादकः मध्वाचार्यःमध्वाचार्यस्य अपरं नाम "पूर्णप्रज्ञः" इति । एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य । यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति । अस्मिन् दर्शने परमात्मा, जीवात्मा, जडस्य च परस्परं भेदः निरूपितः अस्ति । स्वतन्त्रास्वतन्त्रेति द्वे तत्त्वे वर्तेते । तयोः तत्त्वयोः निरूपणे एव रतम् इदं शास्त्रम् । अतः अस्यैव दर्शनस्य द्वैतदर्शनम् इति विचक्षणाः अभिप्रयन्ति । तत्त्वप्रतिपादकः श्लोकः,

स्वतन्त्रमस्वतन्त्रं च द्विविधं तत्त्वमिष्यते ।
स्वतन्त्रो भगवान् विष्णुः भावाभावौ द्विधेतरत् ॥ [१]

दर्शनविकासःसम्पाद्यताम्

वेदाः चत्वाराः । ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वश्च । एतेषु चतुर्षु संहितासु तत्र तत्र विद्यमानान् विष्णोः सम्बन्धितान् उल्लेखान्, जगतः सत्यत्त्व-उल्लेखान् च उद्धृत्य प्रधानतया विचारितम् अस्मिन् दर्शने । उपनिषद्ब्राह्मणारण्यकेषु अपि उल्लेखाः उपलभ्यन्ते । एतेषु सर्वेषु पञ्चभेदानां विषये स्पष्टोल्लेखाः लभ्यन्ते पञ्चभेदाः प्रतिपाद्यन्ते च इति द्वैतीनां दार्शनिकानाम् अभिप्रायः। वेद-पञ्चरात्राणाम् आधारेण परब्रह्म नारायणः, वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः इत्यादीनि रूपाणि सृष्टिस्थितिलयादिकं कुर्वन्ति इति प्रतिपादितम् अस्मिन् दर्शने । भागवतपुराणे निरूपितो धर्मः एव द्वैतदर्शनस्य सारभूतः । पञ्चरात्रागमे उक्ताः उल्लेखाः प्रमाणीभूताः । अस्य कर्ता नारायणस्य अवतारभूतः इति । अत्र प्रमाणानि अपि दत्तानि,

महिदासाभिदो जज्ञ इतरायास्तपोबलात् ।
साक्षात् स भगवान् विष्णुः यस्तन्त्रं वैष्णवं व्यधात् ॥
तृतीयमृषिसर्गं नै देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्त्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥[२]

एवं पुराणानि इतिहासाश्च वेदार्थान् एव प्रतिपादयन्ति । श्रुतेरिवार्थं स्मृतिरन्वगच्छत् [३] इत्यादीनि वाक्यानि अपि अनुमोदयन्ति । अतः पुराणादीनि दर्शनविकासकानि भवन्ति । तानि निश्चितसिद्धान्तान् निरूपयन्ति । प्रमाणश्लोकः विद्यते । तद्यथा,

यथार्थवचनानां च मोहार्थानां च संशयम् ।
अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः ।

अस्मिन् दर्शने जीवैः प्राप्यमाणायां मोक्षस्थितौ साम्यता नास्ति । जीवेश्वरयोः स्वामिभृत्यभावः अस्ति । "दासोऽहं" इति कृतभावोपासनेन मोक्षेऽपि दासस्वामिभावः एव भवति । जीवब्रह्मणोः शरीरशरीरिभावः, नियम्य नियामकभावः च अस्ति । सात्विकः, राजसः, तामसादिभेदेन त्रिविधाः जीवाः । एतेषु सात्विकैः जीवैः एव मोक्षः प्राप्यते । राजसजीवानां नित्यनरकः। तामसानाम् अन्धन्तमरूपनित्यनरकस्य प्राप्तिः भवति ।

इतिहासःसम्पाद्यताम्

अस्य द्वैतदर्शनस्य प्रवर्तकः श्रीमध्वाचार्यःश्रुति-स्मृति-इतिहास-पुराण-उपनिषत्-गीतासु विद्यमानान् द्वैतमतस्थापनार्थम् अनुकूलान् अंशान् परिगृह्य युक्त्या एतेषां याथार्थ्यं च निर्धार्य मध्वाचार्यः द्वैतदर्शनस्थापनं कृतवान् । अस्यानन्तरं टीकाचार्यः इत्येव प्रसिद्धः श्रीजयतीर्थः मध्वाचार्येण रचितानां ग्रन्थानां व्याख्यानम् अकरोत् । टीकाचार्यः स्वतन्त्रतया अपि ग्रन्थान् रचितवान् अस्ति । श्रीव्यासतीर्थः स्वद्वैतदर्शनस्य महतीं प्रपञ्चितवान् अस्ति । वादिराजः स्वप्रौढभाषया, उत्तमदृष्टान्तैः च द्वैतदर्शनस्य माहात्म्यं निरूपितवान् अस्ति । विजयेन्द्रः नैकान् वादग्रन्थान् रचितवान् अस्ति । राघवेन्द्रतीर्थः, रघूत्तमतीर्थः, विजयध्वजतीर्थः, सुधीन्द्रतीर्थः, सत्यधर्मतीर्थः, रघुनाथतीर्थः, जगन्नाथतीर्थः, सुमतीन्द्रतीर्थः, यादवार्यतीर्थः, बिदरहळ्ळि श्रीनिवासाचार्यः च नैके यतयः गृहस्थाः च द्वैतदर्शनस्य विफुलसेवां कृतवन्तः । श्रीमध्वाचार्यः (क्रि.श. १२३८ - १३१७) द्वैतदर्शनस्य प्रवर्तकः । अस्य कालात् पूर्वमपि द्वैतदर्शनम् आसीत् । नैके यतयः पालिताः इति । मध्वाचार्याय अच्युतप्रेक्षतीर्थः सान्यासदीक्षां दत्तवान् । अस्य पुरुषोत्तमतीर्थः इत्यपि नाम अस्ति । एषः अद्वैतदर्शनस्य निष्ठः आसीत् । दीक्षायाः अनन्तरं गुरुः प्रप्रथमतया विमुक्तात्मेन रचितं इष्टसिद्धिनामकं ग्रन्थं प्रवचनाय मध्वाचार्यं सूचितवान् आसीत् । अनेन ज्ञायते यत् द्वैतदर्शनस्य साम्प्रदायिकग्रन्थः नासीत् इति । अस्य दर्शनस्य स्थापने वेदव्यासस्यैव प्रेरणा, सः एव मम गुरुः च इत्यपि मध्वाचार्यः स्वयमेव उक्तवान् अस्ति ।

मध्वसिद्धान्तस्य वैशिष्ट्यम्सम्पाद्यताम्

अन्यसिद्धान्तेषु तुलनात्मकतया मध्वसिद्धान्तस्य अध्ययने कृते मध्वसिद्धान्तेन अङ्गीकृताः प्रमेयविषयाः एव मध्वसिद्धान्तस्य वैसिष्ट्यं बोधयन्ति । ते च प्रमेयविशेषाः तावत् भेदः,तारतम्यज्ञानं, हरिसर्वोत्तमत्वं, स्वतप्रामाण्यं, जगत्सत्यत्वं, नैजसुखानुबूतिरेव मुक्तिः, भक्त्या एव मुक्तिः, प्रत्यक्षादित्रित्रयं प्रमाणं ।
भेदः -मध्वसिद्धान्ते तावत् पञ्चविधः भेदः अङ्गीकृतः। ते च ईश्वर-जीवभेदः,ईश्वर-जडभेदः,जीव-जीवभेदः,जड-जडभेदः,जीव-जडभेदः। एतादृशभेदश्च धर्मिस्वरूपः, न अतिरिक्तपदार्थः इति तु मध्वसिद्धान्तः। स्वतप्रामाण्यम् - यस्य ज्ञानं येन इन्द्रियेण जायते तद्गतप्रामाण्यमपि तेनैव इन्द्रियेण ज्ञायते । इति वचयनानुसारेण प्रामाण्यस्य परतस्त्वं नाङ्गीक्रीयते ।
मुक्तिः -मुक्तिस्तावत् चतुर्विधं सारुप्यं,सायुज्यं,सामिप्यं इति। एतद् चतुर्विधम् च स्वरूपानन्दानुर्भाव रूप एव। किन्तु मोक्षे अपि तारतम्यम् भगवन्नियामकत्वम् अस्त्येव।

मध्वाचार्यस्य ग्रन्थाःसम्पाद्यताम्

मध्वाचार्यस्य प्रणीताः सप्तत्रिंशत् (३७) ग्रन्थाः अधो निर्दिष्टाः

उपनिषद् भाष्यग्रन्थाःसम्पाद्यताम्

  • ईशावास्योपनिषद्भाष्यम्
  • केनोपनिषद्भाष्यम्
  • कठोपनिषद्भाष्यम्
  • मुण्डकोपनिषद्भाष्यम्
  • षट्प्रश्नोपनिषद्भाष्यम्
  • माण्डूक्योपनिषद्भाष्यम्
  • ऐतरेयोपनिषद्भाष्यम्
  • तैत्तिरीयोपनिषद्भाष्यम्
  • बृहदारण्यकोपनिषद्भाष्यम्
  • छान्दोग्योपनिषद्भाष्यम्

वेदभाष्यम्सम्पाद्यताम्

  • ऋग्भाष्यम्

प्रकरणग्रन्थाःसम्पाद्यताम्

स्तोत्रसम्बद्धम्सम्पाद्यताम्

सारःसम्पाद्यताम्

अस्य सिद्धान्तस्य सारः (प्रमेयसारः) एकस्मिन् श्लोके निरूपितम् अस्ति । तद्यथा,

श्रीमन्मध्वमते हरिः परतरः सत्यं जगत् तत्त्वतो
भिन्ना जीवगणा हरेरनुचरा नीचोच्चभावङ्गताः ।
मुक्तिः नैजसुखानुभूतिरमला भक्तिश्च तत्साधनम्,
ह्यक्षादि त्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥
  • श्रीमन्नारयणः सर्वोत्तमः ।
  • जगतः पारमार्थिकसत्यत्वम् अङ्गीक्रियते।
  • जीवब्रह्मणोः भेदः ।
  • जीवाः नारायणस्य दासाः।
  • जीवषु परस्परतारतम्यता ।
  • जीवात्मनः स्वरूपानन्दप्राप्तिः एव मुक्तिः ।
  • निर्मलभक्तिः एव मुक्तेः मुख्यः उपायः ।
  • प्रत्यक्षम्, अनुमानम्, अगमं प्रमाणानि ।
  • नारायणः केवलवेदगम्यः ।

प्रमाणम्सम्पाद्यताम्

अस्मिन् दर्शने द्वे प्रमाणे वर्तेते। प्रथमं केवलप्रमाणम्, अपरं अनुप्रमाणम् इति। मध्वदर्शनानुसारं यथार्थमेव प्रमाणं भवति। यथार्थो नाम तद्वति तत्प्रकारकोऽनुभवः यथार्थः। रजते इदं रजतम् इति ज्ञानम्।

केवलप्रमाणम्सम्पाद्यताम्

यथार्थानुभवः एव केवलप्रमाणं भवति । केवलप्रमाणम् "ईश्वरज्ञानम्", "लक्ष्मीज्ञानम्", "योगिज्ञानम्", "अयोगिज्ञानम्" इति केवलप्रमाणं चतुर्विधम् । सर्वविषयक ईश्वरस्वरूपमेव ईश्वरज्ञानमिति व्यवहारः। ईश्वरोनाम लक्ष्मीपतिः श्रीमन्नारायणः। ईश्वरस्य क्रियागुणौ पूर्णतया नभवतः चेदपि तयोः विद्यमानयोः विशेषांशैः मिलितः चित् प्रकृतेः ज्ञानमेव लक्ष्मीज्ञानमिति । ब्रह्मदेवस्य, ब्रह्मपदव्याय समर्थः यः(ऋजुयोगिः) योगिः तस्य, तत्विकातात्विक योगीणाञ्च ज्ञानम् एव यिगिज्ञानं भवति । मुक्तियोग्यानाम्, नित्यसांसारिकाणाम्, तमोयोग्यानाञ्च जीविनां ज्ञानमेव अयोगिज्ञानं भवति ।

अनुप्रमाणम्सम्पाद्यताम्

अनुप्रमाणानि प्रत्यक्षम्, अनुमानम्, आगमादीनि भवन्ति।

  • प्रत्यक्षम्- दोषरहितेन्द्रियसन्निकर्षज्ञानम् प्रत्यक्षम्। अस्मिन् आत्मस्वरूपेन्द्रियम् तथा प्राकृतेन्द्रियमिति प्रकारद्वयम् । अज्ञानिजीवस्य इन्द्रियाणि प्राकृतेन्द्रियाणि। ते च प्रकृतेः परिणामरूपम् महत्-अहंकारतत्वानां पंचभूतानाम् संलग्नेन नेत्रादिप्राकृतेन्द्रियाणि भवन्ति । तदतिरिक्ता आत्मस्वरूपा साक्षी स्वरूपेन्द्रियः इति कथ्यते । सुखादि जीवधर्माः,अविद्या मनः, कालः, दिक्, ज्ञानस्य प्रामाण्यादीन् साक्षी एव गृह्यते । स्वरूपेन्द्रियमपि घ्राणादिभेदेनषड्विधं सत् लिंगदेहस्थसूक्ष्मषडिन्द्रियैः स्थूलशरीरस्थस्थूलेन्द्रियैः मिश्रं तिष्टति । इदम् अबादितम् ज्ञानं भवति। एदमेव आत्मस्वरूपसाक्षिज्ञानं भवति।
  • अनुमानम्- दोषरहितः युक्तिरेव अनुमानं भवति । अनुमानं त्रिविधं भवति । कार्यानुमानम्, कारणानुमानम्, अकार्यकारणानुमानमिति।
  • आगमम्- निर्दोषः शब्दः आगमं प्रमाणं भवति। तच्च द्विविधं पौरुषेयागमं,अपौरुषेयागमं चेति ।अपौरुषेयागमम् तावत् वेदाः। पौरुषेयागमास्तावत् इतिहासपुराणादीनि।

पदार्थःसम्पाद्यताम्

अस्मिन् दर्शने दशपदार्थाः सन्ति।

द्रव्यम् गुणः कर्मः सामान्यम् वेशेषः
विशिष्टः अंशि शक्तिः सादृश्यम् अभावः

द्रव्यम्सम्पाद्यताम्

अस्मिन् दर्शने २० द्रव्याणि सन्ति।

परमात्म लक्ष्मी जीवः अव्याकृताकाशः
प्रकृतिः गुणत्रय महत्तत्व अहङ्कारतत्व
बुद्धिः मनः इन्द्रियम् तन्मात्राणि
भूतानि ब्रह्माण्डः अविद्या वर्णः
अन्धकारः वासना कालः प्रतिबिम्बः

गुणःसम्पाद्यताम्

अस्मिन् दर्शने ४० गुणाः सन्ति।

रूपम् रसः गन्धः स्पर्षः संख्या परिमाणम् संयोगः विभागः परत्व अपरत्व
गुरुत्व लघुत्व मृदुत्व द्रवत्व कठिणत्व स्नेहः शब्दः बुद्धिः सुखम् दुःखम्
इच्छा द्वेषः प्रयत्नः धर्मः अधर्मः संस्कारः आलोकः शम दम दया
तितिक्षा भयम् लज्जा गाम्भीर्यम् सौन्दर्यम् औदार्य स्थैर्यम् शौर्यम् सौभाग्यम् बलम्

कर्मसम्पाद्यताम्

अस्मिन् दर्शने त्रीणि कर्माणि भवन्ति। विहित, निषिद्ध, उदासीनेति त्रीणि कर्माणि। विहितकर्म पुनः द्विविधम्, काम्यं तथा अकाम्यमिति। फलापेक्षेण कर्म क्रियते तत् काम्यकर्म इति । देवम् उद्दिष्य कर्म क्रियते तत् अकाम्यकर्म भवति । ब्रह्मादि देवानां सर्वेषां काम्याकाम्यकर्मणि भवतः। जीवेषु निषिद्धकर्म अधिकतया भवति । चलनादीनि उदासीनकर्म इति व्यवहारः।

सामान्यम्सम्पाद्यताम्

सामान्यं द्विविधम्। एकं जातिः अपरम् उपाधिः इति। गोत्वम्, मनुष्यत्वम् इत्याद्याः जातयः भवन्ति। सर्वज्ञत्वम्, वाच्यत्वम्, प्रमेयत्वादिकम् उपाधयः भवन्ति। सामन्यं नित्यमनित्यम् इति द्विधा। जीवत्वादीनि नित्यम् भवति। मनुष्यत्वम्, गोत्वमादीनि अनित्यसामान्याम् भवति।

विशेषःसम्पाद्यताम्

वास्तविकतया भेदः न भवति चेदपि कश्चन पदार्थः भेदं जनयति सैव विशेषः भवति। सकलवस्तुषु व्यापृतं भवति। अतः विशेषाः अनन्ताः भवन्ति। देवः केवलं विज्ञानानन्दमयः भवति। अयं विशेषः नान्यत्र भवितुम् अर्हति। अनेनैव जीवेश्वरयोः भेदः स्पष्टं भवति।

विशिष्टःसम्पाद्यताम्

विशेष्ये वेशेषणस्य सम्भन्धात् यः आकारः उत्पद्यते सैव विशिष्टपदार्थः भवति। विशेष्टः नित्यानित्यभेदेन द्विविधः भवति। सर्वज्ञादिविशिष्टाः ब्रह्मादयः नित्याः भवन्ति। दण्डिमानादयः अनित्याः भवन्ति।

अंशिसम्पाद्यताम्

हस्तपादादिभिः विभक्तेषु समग्रावयवेषु व्याप्तम् विशिष्टपदार्थम् अंशिपदार्थः इति व्यवहारः।

शक्तिःसम्पाद्यताम्

सहजशक्तिः, पदशक्तिः, आधेयशक्तिः, अचिन्त्यशक्तिः इति चतुर्धा विभक्ता अस्ति।

  • कार्यमात्रं प्रति अनुकूलास्वाभाविका या शक्तिः सा "सहजा" भवति। सर्वेषु व्यापृतं भवति। पदार्थभेदेन एषा नित्यानित्या इति विभाक्ता अस्ति।
  • पदपदार्थयोः विद्यमाना(वाच्य-वाचक) शक्तिः "पदशक्तिः" भवति। पदशक्तिः द्विवधा भवति। मुख्य, परममुख्येति द्विधा। उदहरणार्थं “इन्द्रः” इति पदस्य देवेन्द्रः इति अर्थः मुख्यवृत्या लभ्यते। परमेश्वरः इति अर्थः परमुख्यवृत्या लभ्यते इति। परममुख्यवृत्या पदानि सर्वाणि परमेश्वरमेव बोधयन्ति इति।
  • अन्यस्मात् स्थापितां शक्तिम् "आधेयशक्तिः" इति व्यवहारः। विधिवत्तया प्रतिष्ठापितमूर्तौ देवातासानिध्यं यत् भवति सा आधेयशक्तिः इति।
  • परमात्मनि अलौकिकां शक्तिम् "अचिन्त्यशक्तिः" इति भावयन्ति। एषा केवलं विष्णौ एव भवति।

सादृश्यम्सम्पाद्यताम्

साम्यता यत्र भवति तत्र सादृश्यम् भवति इति व्यवहारः। अयं घटः इति ज्ञानं भवति, कालान्तरे घटान्तरं दृष्ट्वा सादृश्यात् अयं घटः इति ज्ञानमायाति।

अभावःसम्पाद्यताम्

अभावः चतुर्धा विभक्तः अस्ति। प्रागभावः, प्रध्वंसाभावः, अन्योन्याभावः, अत्यन्ताभावश्चेति। "प्रागभावोनाम" घटोत्पत्तेः पूर्वस्थितिः(घटप्रागभावः)। घटस्य नाशानन्तरस्थितिः "प्रध्वंसाभावः"। घटः पटो न इति तु "अन्योन्याभावः" भवति। शशविषाणः "अत्यन्ताभावः" भवति।

मुख्यविषयाःसम्पाद्यताम्

  • भेदः
  • विष्णोः सर्वोत्तमत्वम्
  • अन्यथाख्यातिः
  • भक्तिः

सम्बद्धलेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

आधाराःसम्पाद्यताम्

  1. तत्त्वसंख्यानम्, श्लोकसंख्या-१
  2. भागवतमहापुराणम्
  3. रघुवंशमहाकाव्यम्
  4. Mahabharata Tatparya Nirnaya
  5. Krishnamruta Maharnava
"https://sa.wikipedia.org/w/index.php?title=द्वैतदर्शनम्&oldid=444916" इत्यस्माद् पुनः प्राप्तिः