विविधानां धर्माणाम् आश्रयभूमिः भारतम् । अतः एव अत्रत्या संस्कृतिः अपि वैविध्यमयी एव । तस्मात् कारणात् एव भारते विभिन्नाः उत्सवाः आचर्यन्ते । उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः "उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु 'पर्व' इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । तादृशाः उत्सवाः चतुर्धा विभज्यन्ते ।

१ धार्मिकपर्वाणि
प्रादेशिकपर्वाणि
राष्ट्रियपर्वाणि
जयन्त्युत्सवाः च इति ।

अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । जयन्तुत्सवान् राष्ट्रियपर्वाणि च धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – स्वातन्त्र्यदिनं, गणतन्त्रदिनम् इत्यादीनि राष्ट्रियपर्वाणि । दीपावली, नवरात्रं, गणेशचतुर्थी, क्रिस्मस्, गुड्-फ्रैडे, रम्जान्, ईद्-उल-फितर् इत्यादीनि धार्मिकपर्वाणि । बुद्धजयन्ती, महावीरजयन्ती, बसवजयन्ती, गुरुनानकजयन्ती, दत्तजयन्ती इत्यादयः जयन्त्युत्सवाः । ओणं (केरले आचर्यते), द्रीपर्व (अरुणाचलप्रदेशस्य जैरोखातप्रदेशे निवसन्तः अपाटानिस्-जनाः आचरन्ति), बोणं (तेलङ्गाणप्रदेशे आचर्यते),राजप्रभा (ओरिस्साराज्ये आचर्यते) इत्यादीनि प्रादेशिकपर्वाणि ।

हिन्दुधर्मानुसारं वर्षपूर्णम् उत्सवाः आचर्यन्ते प्रायः । कस्याश्चित् गणनायाः अनुसारं भारते एकस्मिन् वर्षे ३६५० पर्वाणि आचर्यन्ते इति । तन्नाम दिने १० पर्वाणि आचर्यन्ते एव । तादृशानां केषाञ्चन उत्सवाणाम् आवली एवं रचयितुं शक्यते ।

१. चान्द्रमानयुगादिः – चैत्रशुक्लप्रतिपत् ।
२. सौरमानयुगादिः – मेषसङ्क्रमणम् ।
३. श्रीरामनवमी – चैत्रशुक्लनवमी ।
४. महावीरजयन्ती – चैत्रशुक्लत्रयोदशी ।
५. हनुमज्जयन्ती- चैत्रपूर्णिमा ।
६. अक्षयतृतीया – वैशाखशुक्लतृतीया ।
७. नृसिंहजयन्ती – वैशाखशुक्लचतुर्दशी ।
८. बुद्धजयन्ती – वैशाखपूर्णिमा ।
९. गङ्गादशमी – ज्येष्ठशुक्लदशमी ।
१०. वटसावित्रीव्रतम् – ज्येष्ठपूर्णिमा ।
११. प्रथमैकादशी – आषाढशुक्ल-एकादशी ।
१२. गुरुपूर्णिमा – आषाढपूर्णिमा ।
१३. ज्योतिर्भीमेष्वरपूजा – आषाढ-अमावास्या ।
१४. नागपञ्चमी – श्रावणशुक्लपञ्चमी ।
१५. रक्षाबन्धनम् – श्रावणपूर्णिमा ।
१६. गोकुलाष्टमी – श्रावणबहुल-अष्टमी ।
१७. गौरीतृतीया – भाद्रपदशुक्लतृतीया ।
१८. गणेशचतुर्थी – भाद्रपदशुक्लचतुर्थी ।
१९. महालय-अमवास्या (सर्वपितृ–अमवास्या) – भाद्रपद-अमावास्या ।
२०. नवरात्रम् – आश्वयुजशुक्लप्रतिपत् तः नवमीपर्यन्तम् (९ दिनानि) ।
२१. विजयदशमी – आश्वयुजशुक्लदशमी ।
२२. नरकचतुर्दशी – आश्वयुजकृष्णचतुर्दशी ।
२३. धनलक्ष्मीपूजा – आश्वयुज-अमावास्या ।
२४. दीपावलि:, बलिप्रतिपत् – कार्त्तीकशुक्लप्रतिपत् ।
२५. यमद्वितीया – कार्त्तीकशुक्लद्वितीया ।
२६. उत्थानद्वादशी – कार्त्तीकशुक्लद्वादशी ।
२७. कार्त्तीकपूर्णिमा, गुरुनानाकजयन्ती – कार्त्तीकपूर्णिमा ।
२८. सुब्रह्मण्यषष्ठी – मार्गशीर्षशुक्लषष्ठी ।
२९. मार्गशीर्षपूर्णिमा, दत्तजयन्ती – मार्गशीर्षपूर्णिमा ।
३०. तिल-अमावास्या – मार्गशीर्ष-अमावास्या ।
३१. मकरसङ्क्रमणम् – सूर्यस्य धनुराशितः मकरराशिप्रवेशदिनम् ।
३२. श्रीपञ्चमी (वसन्तपञ्चमी) – माघशुक्लपञ्चमी ।
३३. रथसप्तमी – माघशुक्लसप्तमी ।
३४. महाशिवारात्रिः – माघकृष्णचतुर्दशी ।
३५. होलीपर्व – फाल्गुणपूर्णिमा ।
३६. चातुर्मास्यव्रतम् - आषाढ-एकादशीतः उत्थानद्वादशीपर्यन्तम् ।
३७. वरमहालक्ष्मीव्रतम् - श्रावणपूर्णिमायाः समीपे विद्यमानः शुक्रवासरः ।

सिक्खधर्मानुसारं, बौद्धधर्मानुसारं, जैनधर्मानुसारं च बहवः उत्सवाः आचर्यन्ते भारते । तानि सर्वाणि अपि पर्वाणि धार्मिकपर्वाणि एव । तेषाम् अपि काचित् आवली सज्जीकर्तुं शक्यते ।

क्रिश्चियन्-धर्मानुसारम् अपि बहूनि पर्वाणि आचर्यन्ते भारते । तानि च पर्वाणि -

क्रिस्मस्
२ गुड्-फ्रैडे|गुड्-फ्रैडे]]

इस्लां-धर्मानुसारम् अपि बहवः उत्सवाः आचर्यन्ते । ते च उत्सवाः -

रम्जान्
ईद्-उल्-फितर्

एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । अञ्जलौ प्रासाददर्शनम् इव एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।

"https://sa.wikipedia.org/w/index.php?title=धार्मिकपर्वाणि&oldid=431830" इत्यस्माद् प्रतिप्राप्तम्