श्रावणमासस्य प्रसिद्धपर्वसु एकम् अस्ति वरमहालक्ष्मीव्रतम् । श्रावणमासस्य शुक्लपक्षे पूर्णिमासमीपे विद्यमाने शुक्रवासरे आचर्यते एतत् पर्व ।

वरमहालक्ष्मीपूजा
शुक्ले श्रावणिके मासे पूर्णिमोपान्त्यभार्गवे ।
वरलक्ष्म्या व्रतं कार्यं सर्वसिद्धिपदायकम् ॥
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

नभोमासे पूर्णिमायाम् अन्तिकस्थे भृगोर्दिने ।
मत्पूजा तत्र कर्तव्या सर्वसिद्धिप्रदायिनी । (व्रतरत्नम् – ११०-११६)

“श्रावणमासस्य शुक्लपूर्णिमादिने पूर्वदिशि शुक्रग्रहस्य प्रकाशसमये वरलक्ष्म्याः आराधनं करणीयम्” इति वदति शास्त्रम् । कुत्रचित् श्रावाणमासस्य द्वितीये शुक्रवासरे व्रताचरणम् इत्यपि अस्ति । अस्मिन् पर्वणि आराध्यमाना देवता “महालक्ष्मीः” । वरं ददाति इत्यस्मात् वरमहालक्ष्मीः इति वदन्ति । वरदा महालक्ष्मीः वरा च लक्ष्मीश्च इत्यत्र अपि वरमहालक्ष्म्याः उल्लेखः अस्ति । देव्याः अष्टोत्तरशतनामस्तोत्रे अपि “वरलक्ष्मीं वसुरदां” इति उक्तम् अस्ति । लोकमाता मङ्गलदेवता इत्यादिभिः नामभिः पूज्यमाना सा सर्वेषां जीविनां माता, सर्वमङ्गलदायिनी अस्ति ।

प्रसिद्धाः अष्टलक्ष्म्यः सन्ति । ताः धनलक्ष्मीः, धान्यलक्ष्मीः, सन्तानलक्ष्मीः, विद्यालक्ष्मीः, शौर्यलक्ष्मीः, कीर्तिलक्ष्मीः, सौम्यलक्ष्मीः, विजयलक्ष्मीः च । वेदमन्त्रेषु सिद्धलक्ष्मीः, मोक्षलक्ष्मीः इत्यपि उल्लेखः दृश्यते । श्रुति-स्मृति-पुराण-इतिहास-आगमादीनाम् उक्त्यनुसारं ब्रह्मादिदेवताः सर्वपुरुषार्थसाधकाः सिद्धाः च महालक्ष्मीम् अपूजयन् । शङ्कर-रामानुज-आनन्दतीर्थादयः आचार्यवर्याः अपि तस्याः स्तोत्राणि अगायन् । “लक्षयति सर्वं सदा इति लक्ष्मीः” “भगवतः लक्ष्मं धृतवती इति लक्ष्मीः” इति व्याख्यानम् अपि श्रूयते ल्क्ष्म्याः विषये । परादेवता, परमपुरुषस्य श्रीमन्नारायणस्य पत्नी, अखिलजगन्माता, अनादिसिद्धा, आनन्दमयी, अनन्तकल्याणगुणपरिपूर्णा, सर्वशक्तिस्वरूपिणी, सर्वेश्वरी, सर्वकारणीभूता महालक्ष्मीः अमृतप्राप्यर्थं देवासुरैः क्षीरसागरमथनं यदा कृतं तदा आविर्भूता नारायणस्य वक्षस्तले वासम् अकरोत् इति पुराणानि वदन्ति । कुत्रचित् सा चन्द्रस्य अनुजा इति उल्लेखः अस्ति । कुत्रचित् सा यज्ञकुण्डे जन्म प्राप्नोत् इत्यपि श्रूयते । सा एव गायत्री, सावित्री, सरस्वती, दुर्गा वा । सा एव श्र्द्धा, मेधा, यशः, प्रज्ञा, कीर्तिः वा । सर्वयन्त्रमन्त्रतन्त्रादिकमपि सा एव ।

एतत् व्रतम् आचरन्ति सामन्यतया महिलाः एव । व्रताचरणावसरे उपवासनियमम् अत्रापि पालयन्ति । प्रातः स्नानादिना शुचिर्भूत्वा सङ्कल्पं कृत्वा देवीं कलशादिषु आवाहनं कृत्वा पूजां कुर्वन्ति । धान्यसहिततया षोडशोपचरपूजां कुर्वन्ति । कलशपूजायाः पीठपूजायाः च अनन्तरं हिरण्यवर्णस्य द्वादशग्रन्थियुक्तानि द्वादशसूत्राणि संस्थाप्य तत्र देव्याः आवाहनं कृत्वा पूजां कुर्वन्ति । पूजानन्तरं तत् सूत्रं स्वस्य दक्षिणहस्ते बध्नन्ति । कलशः अपि गन्धपुष्पपल्लवादिभिः अलङ्कृतः जलपूरितः वा अखण्डतण्डुलगोधूमपूरितः वा भवति । मधुरापूपं वा मोदकं वा नैवेद्यरूपेण समर्पयन्ति । नैवेद्यार्थाम् अपि “द्वादश”संख्याकाणि एव भवन्ति अपूपमोदकानि । पूजावसरे देव्यष्टोत्तरस्य वा श्रीसूक्तस्य वा पारायणम् अपि कुर्वन्ति ।

"https://sa.wikipedia.org/w/index.php?title=वरमहालक्ष्मीव्रतम्&oldid=434382" इत्यस्माद् प्रतिप्राप्तम्