जयन्त्युत्सवाः
उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः “उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु ’पर्व’ इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
- धार्मिकपर्वाणि
- राष्ट्रियपर्वाणि
- जयन्त्युत्सवाः
- प्रादेशिकपर्वाणि इति ।
अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । राष्ट्रियपर्वाणि धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – स्वातन्त्र्यदिनाचरणं, गणतन्त्रदिवसः इत्यादीनि । कतिपयान् जयन्त्युत्सवान् अपि धर्म-प्रदेशादिभेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं - गान्धिजयन्ती । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । जयन्त्युत्सवाः नाम जयन्त्यः । जयन्ती इत्युक्ते जन्मदिनम् इति अर्थः । अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् । तदर्थं तेषां तन्नाम पूर्वजानां देवानां वा जन्मदिनम् अस्माभिः आचरणीयम् । तादृशानि कानिचित् जन्मदिनानि (जयन्त्यः) -
- १ श्रीरामनवमी – चैत्रशुक्लनवमी ।
- २ महावीरजयन्ती – चैत्रशुक्लत्रयोदशी ।
- ३ हनुमज्जयन्ती- चैत्रपूर्णिमा ।
- ४ अक्षयतृतीया – वैशाखशुक्लतृतीया ।
- ५ नृसिंहजयन्ती – वैशाखशुक्लचतुर्दशी ।
- ६ बुद्धजयन्ती – वैशाखपूर्णिमा ।
- ७ गुरुपूर्णिमा – आषाढपूर्णिमा ।
- ८ गोकुलाष्टमी – श्रावणकृष्ण-अष्टमी ।
- ९ गुरुनानाकजयन्ती – कार्त्तीकपूर्णिमा ।
- १० दत्तात्रेयजयन्ती – मार्गशीर्षपूर्णिमा ।
- ११ विवेकानन्दजयन्ती - जनवरी १२
- १२ बसवजयन्ती - वैशाखशुक्लतृतीया
- १३ कनकदासजयन्ती
- १४ येसुक्रिस्तजयन्ती (क्रिस्मस्) - डिसेम्बर् २५ तमे दिनाङ्के ।
- १५ पैगम्बरजयन्ती
एताः विहाय अपि राष्ट्रियपर्वत्वेन घोषिताः जयन्त्यः सन्ति । ताः जयन्त्यः राष्ट्रियपर्वरूपेण आचर्यन्ते -
- १ गान्धिजयन्ती ।
- २ नेहरुजयन्ती - बालदिनम् ।
- ३ राधाकृष्णन् जयन्ती -शिक्षकदिनम् ।
- ४ सुभाषचन्द्रबोसजयन्ती - नेताजीजयन्ती
- ५ अम्बेड्करजयन्ती
- ६ सद्भावनादिनम्
- ७ हुतात्मदिनम् - सर्वोदयदिनम्
- ८ लालबहादुरशास्त्रिजयन्ती
एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । अञ्जलौ प्रासाददर्शनम् इव एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे ।