नरकचतुर्दशी
कार्त्तिकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति नरकचतुर्दशी । चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति ।
परम्पराः
|
प्रवेशद्वारम्:सनातनधर्मः |
- तैले लक्ष्मीर्जले गङ्गा दीपावल्याचतुर्दशीम् ।
- प्रात: काले तु य: कुर्यात् यमलोकं न पश्यति ॥ (पद्मपुराणम् - ४-१२४)
- अलक्ष्मीपरिहारार्थम् अभ्यङ्गस्नानमाचरेत् । (नारदसंहिता)
तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति ।
- अत्र आचारात् चतुर्दशशाकभक्षणं च कर्तव्यम् ॥ इति उक्तिरपि श्रूयते ।
रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति ।
- यमाय धर्मराजाय मृत्यवे चान्तकाय च ।
- वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
- औदुम्बराय दध्नाय नीलाय परमेष्ठिने ।
- वृकोदराय चित्राय चित्रगुप्ताय वै नम: ॥
इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।