गुल्बर्गामण्डलम्
गुल्बर्गामण्डलं (Gulbarga district) कर्णाटकस्य उत्तरभागस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रं गुल्बर्गा नगरम्। गुल्बर्गामण्डलस्य पूर्वतनं नाम कल्बुर्गि इति ।
गुल्बर्गामण्डलम् ಗುಲಬರ್ಗಾ ಜಿಲ್ಲೆ | |
---|---|
मण्डलम् | |
गुल्बर्गनगरस्य दुर्गम् | |
राष्ट्रम् | India |
राज्यम् | कर्णाटकराज्यम् |
विभागम् | गुल्बर्गविभागम् |
केन्द्रम् | गुल्बर्गामण्डलम् |
Government | |
• Deputy Commissioner | विशालः R , IAS |
Area | |
• Total | १०,९५१ km२ |
Elevation | ४५४ m |
Population (2001) | |
• Total | २१,७४,७४२ |
• Density | २००/km२ |
भाषा | |
• अधिकृतभाषा | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीयसमान्य कालमानम्) |
PIN |
585101 |
दूरनवाणिसंज्ञा | 91 8472 |
Vehicle registration | KA32 |
ग्रीष्मकालस्य सामान्यतापमानम् | 42 °से (108 °फ़ै) |
शैत्यकालस्य सामान्यतापमानम् | 26 °से (79 °फ़ै) |
Website | gulbarga.nic.in |
†Gulbarga district website |
विस्तीर्णता
सम्पादयतु१६२२४ च.कि.मी. मिता।
जनसंख्या
सम्पादयतुअस्य मण्डलस्य जनसङ्ख्या २५ लक्षमिता अस्ति ।
उपमण्डलानि
सम्पादयतुअत्र आळन्द, अफजलपुरं, गुल्बर्गा, चिञ्चोळी, सेडं, चितापुर, जेवर्गी इति ७ उपमण्डलानि भवन्ति ।
नद्यः
सम्पादयतुवातावरणम्
सम्पादयतुग्रीष्मकाले उष्णता ४६ डिग्रिपर्यन्तं वर्धते। शरत्काले शैत्यं १५ डिग्रिपर्यन्तं क्षीयते ।
इतिहासः
सम्पादयतुराष्ट्रकूटैः पालितम् एतत् मण्डलं चालुक्यानां हस्ते द्विशतं वर्षाणि यावत् आसीत् । चालुक्यानाम् अनन्तरं द्वादशशतकशतकपर्यन्तं कलचूर्यानां प्रशासने आसीत् । द्वादशशतकस्यान्ते देवगिरियादवाः अपालयन् । तेषाम् अनन्तरं काकतीयाः पालितवन्तः । ते युद्धे देहलिसुल्तानैः पराजिताः। क्रि.श.१३२१ तमे वर्षे देहलीसामन्तराजान् आक्रम्य बहमनिसाम्राज्यस्य स्थापनम् अभवत् । सप्तदशे शतके औरङ्गजेबः एतं प्रदेशं जित्वा पुनः मुघल् आधिपत्यं स्थापितवान् । स्वातन्त्र्योत्तरमपि एतत् हैद्राबाद्संस्थाने आसीत् । बहूनां परिश्रमफलेन क्रि.श.१९४८ तमे वर्षे भारतस्य गणराज्ये अन्तर्गतम् ।
भैगोलिकता
सम्पादयतुगुल्बर्गामण्डलं बेङ्गळूरुतः ६१३कि.मी.दूरे अस्ति । बिजापुर-हैदराबाद्-बीदर्- प्रदेशेभ्यः मार्गसम्पर्कः अस्ति । दक्षिणभारतात् उत्तरदिशि सञ्चरन्ति रैल् यानानि गुल्बर्गाद्वारा एव गच्छन्ति । वर्षे ७५ से.मी. वर्षा पतति । समुद्रतटात् २००मी. औन्नत्ये स्थितम् एतन्मण्डलम् ।
कृष्णाजलबन्धेन अत्र कृषिसमृद्धिः अस्ति । मण्डलस्य श्यामला मृत्तिका कृषिकर्मार्थं योग्या अस्ति । प्रधानानि सस्यानि, गोधूमः, द्विदलधान्यानि, कलायाः, व्रीहिः, च भवन्ति । कृषिप्रधाने अस्मिन् मण्डले यन्त्रोद्यमस्य गणनीया प्रगतिः नास्ति ।
उद्यमाः
सम्पादयतुशहाबाद्, वाडी, मळखेड, प्रदेशेषु वज्रचूर्णानि(सिमेण्ट्)उत्पाद्यन्ते । मण्डले बहुत्र ’दाल् मिल् ’ सन्ति । शहाबाद् इत्यत्र शिलाफलकानाम् उद्यमः अपि अस्ति ।
क्षेत्राणि
सम्पादयतुगुलबर्गा, नागवि, काळगि, मळखेड, मण्णूरु, गाणगापुरम् ,
दर्शानीयानि स्थानानि
सम्पादयतुगुलबर्गाप्रदेशस्य कलबुर्गी, कलम्बुरगी कल्लुभूमी इति नामानि आसन् । कर्णाटकस्योत्तरे भागे अस्ति । अत्र रन्नः कुमारवाल्मीकिः मडिवाळमाचय्यः च आसन् । अत्र बन्देनवाजदर्गा, शरणबसवेश्वमन्दिरं दर्शनीयानि स्थानानि । आनन्ददासः भीमदासः मण्णूरुदासः विठलदासः इत्येतेषां जन्मभूमिः एषः प्रदेशः । शरणबसवेश्वरमन्दिरस्य सभामण्डपे स्तम्भेषु मयूर-गरुड-शुक-सिंह-गजादीनां प्रतिकृतयः सन्ति । चैत्रशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति। गुल्बर्गानगरे शरणबसवेश्वरमन्दिरम्, बन्देनवाज्दर्गा, बहमनिकोटे, श्रीराममन्दिरं, श्रीदत्तात्रेयमन्दिरम्, श्रीसायिमन्दिरम्, लक्ष्मीमन्दिरम्, श्री भाग्यवन्ति देवस्थानम्, टैलर्मञ्जिल्, श्री वेणुगोपालदेवालयः च। सुरपुरस्य नायकानां राजगृहं, माणिक्यनगरस्य माणिकेश्वरीदेवालयः, केसरटगिपार्क्, इत्यादीनि प्रेक्षणीयानि स्थानानि सन्ति ।
मार्गः
सम्पादयतु- बेङ्गळूरुतः ६२३ कि.मी ।
- धारवाडतः ३४८ कि.मी ।
- बिजापुरतः १४५ कि.मी
२) गाणगापुरम् (अफझलपुरम्)
सम्पादयतुत्रिमूर्तिरुपदत्तात्रेयस्य पादुकापूजा उत्सवादयः अस्मिन् क्षेत्रे प्रसिद्धाः सन्ति । अस्य गणगभवनं गन्धर्वभवनं चेति नामानि श्रीगुरुचरित्रग्रन्थे सन्ति । भीमा-अमरजानद्योः सङ्गमस्थानम् एतत् । दत्तत्रेयस्यावताराः इति प्रसिद्धः श्रीनरसिंहभारतीस्वामी अत्र निवासं कृत्वा अन्ते समाधिस्थः अभवत् । फेब्रवरीमासे अत्र यात्रामहोत्सवः भवति । "दत्तजयन्तिविशेषोत्सवः" ।
मार्गः
सम्पादयतु- गाणगापुररेलनिस्थानतः १६ कि.मी गुलबर्गा -चवडापुरतः ३८ कि.मी
वीथिका
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतु- Official Website of Gulbarga district
- Official Website of Gulbarga City Corporation Archived २००७-०९-३० at the Wayback Machine
- Map of Gulbarga district