सीमन्तोन्नयनसंस्कारः


गर्भधारणानन्तरं चतुर्थे मासे सीमन्तोन्नयनसंस्कारः भवति । अत्रावसरे पतिपत्न्योः केशानां प्रसाधनं वा संवर्धनं च करणीयम् । तयोः कृते उत्सवरूपोयं संस्कारः । अत्र संस्कारः, नृत्यं, गानं, वादनम् इत्यादि भवति । पत्न्याः मनोरञ्जनार्थं सोमस्य स्तुतिः भवति । यदा चन्द्रः पुरुषवाचकनक्षत्रेण युक्तः भवति तदा एव एषः संस्कारः भवति ।सीमन्त उन्नियते यस्मिन् कर्मणि तत् सीमन्तोन्नयनम् । गृह्यसूत्रानुसारेण गर्भाधानस्य चतुर्थे पञ्चमे मासि सीमन्तोन्नयनसंस्कारः क्रियते । स्मृतिग्रन्थानुसारेण षष्ठे अष्टमे वा मासि संस्कारोऽयमनुष्ठीयते । त्रिभिः दर्भपिञ्जुलैः गर्भिण्याः सीमन्तं (केशम्) उर्ध्व विनयति स्वामी । गर्भरक्षणमस्य प्रयोजनम् । केशस्य विभजनद्वारा जातशिशोः यशः त्रिलोकं व्याप्नुयात् ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सीमन्तोन्नयनम्’ इत्यस्य अर्थोऽस्ति स्त्रियाः केशानाम् उपरिविभाजनम् । ‘सीमन्त उन्नीयते यस्मिन् कर्मणि तत् सीमन्तोन्नयनमिति कर्मनामधेयम् ।’ याज्ञवल्क्येन व्यासेन च संस्कारोऽयं केवलं ‘सीमन्त’ सञ्ज्ञयाऽभिहितः । गोभिल –मानव –काठकगृह्य्सूत्रेषु एष ‘सीमन्तक्रणम्’ इत्यभिधीयते । संस्कारोऽयं चतुर्थे मासे सम्पादनीयः । कृष्णपक्षस्य चतुर्दश्यां चन्द्रो यदा पुरुषनक्षत्रसहितः स्यात् तर्हि कृत्यमेतत् अनुष्ठेयम् ।

अस्य संस्कारस्य अभिप्राय आंशिकरुपेणा आस्थामूलको व्यावहारिकश्छापि वर्तते । जनसाधारणस्य मान्यतेयमासीत् यत् काश्चन अमङ्गलदाः शक्तयो गर्भिणीं क्षतिं प्रापयन्ति । अतस्ता वारयितुं संस्कारोऽपेक्षितः । आश्वलायनस्मृतौ उक्तम् –


पत्न्याः प्रथमजं गर्भमत्तुकामाः सुदुर्भगाः ।
             आयान्ति काश्चिद्राक्षस्यो रुधिराशनतत्पराः ॥
तासां निरसनार्थाय शियमावाहयेत् पतिः ।
             सीमन्तकरणी लक्ष्मीस्तामावहति मन्त्रतः ॥

अस्मिन् मातुः ऎश्वर्यम्, अजन्मनः शिशो दीर्घायुश्च काम्यते । एतदप्यभिप्रेतं यत् गर्भिणी प्रसादयुक्ता भवेत् । अतः अस्य प्रमुखं सामाजिकम् औत्सविकं च महत्त्वमस्ति ।

संस्कारदिवसे स्त्री उपवासं करोति । नान्दीश्राध्दं पूजादिकं च भवति । सर्वप्रथमं शुभे मुहूर्त्ते अग्निस्थापनं कृत्वा आज्यभागानाम् आहुतिः यावत् होमो विधीयते । अग्नेः पश्चिमदिशि मृद्वासने, आश्वलायनमते तु वृषचर्मणि, गर्भवती स्त्री उपविशति । आहुतिविषये मतैक्यं नास्ति, परम् आश्वलायनमते आज्यस्य अष्टाहुतयो दीयन्ते । गर्भिणी स्त्री पतिहस्तं गृह्णाति । वेदमन्त्राणामुच्चारणं भवति । संस्कारकर्ता स्त्रियाः शिरसः केशान् समसङ्ख्याकैः अपक्वफलैः, शल्लक्याः त्रिवर्णात्मककण्टकेन, कुशत्रयेण च ऊर्ध्वं करोति, अपि च वारचतुष्कं ‘भूर्भुवः स्वः ओम्’ इत्युच्चारयति । केषाञ्चित् आचार्याणां मते पक्वौदने घृतं तिलान् वा निधातुं व्यवस्था प्रदत्ता । गर्भिणी तत्र द्रष्टुमादिश्यते । सा किं पश्यतीति पृष्टे सति गर्भिणी वदति – ‘अहं सन्ततिं पश्यामि । कालान्तरे संस्कारोऽयं समात्पप्राय एव जातः । मनुस्मृतौ अस्योल्लेख एव नोपलभ्यते । याज्ञवल्क्येन नाम तु गीहीतमस्ति ।

सीमन्तोन्नयनकालः

सम्पादयतु

अस्य संस्कारस्य अनुष्ठानकालमाश्रित्य बहूनि मतान्युपलभ्यन्ते । गर्भाधानात् तृतीयमासादारभ्य शीशोः जन्मावधि भिन्नभिन्नेषु कालेषु अस्यानुष्ठानं निर्दिशन्ति आचार्याः । गृह्यसूत्राणि प्रायेण गर्भस्य चतुर्थे पञ्चमे वा मासे इदं कर्म विधातुं प्रवदन्ति । स्मृतयस्तु षष्ठम् अष्टमं वा मासं यावत् सीमन्तोन्नयनं विधातुं निर्दिशन्ति । प्रमुखाचार्याणां मतानि अधोलिखितानि वर्तन्ते –

लौगाक्षिः - तृतीये मासे
आश्वलायनः - चतुर्थे मासे
आपस्तम्बः - प्रथमे गर्भे चतुर्थे मासे
वैजवापः - चतुर्थे, पञ्चमे, षष्ठे वा मासे
बौधायनः - प्रथमगर्भायाः चतुर्थे मासे
शौनकः - चतुर्थे मासे
ज्योतिर्वसिष्ठः - चतुर्थे, षष्ठे, सप्तमे, अष्टमे वा मासे
पारस्करः - षष्ठे अष्टमे वा मासे
शाङ्ख्यायनः - सप्तमे मासे
याज्ञवल्क्यः - षष्ठे, अष्टमे वा मासे
अत्रिः - अष्टमे, नवमे वा मासे
कार्ष्णाजिनिः - प्रसवात् पूर्वं यदा कदापि

कार्ष्णाजिनेः मते कोऽपि विशिष्टः कालो न निर्दिष्टः ।

गर्भालम्भनमारभ्य यावन्न प्रसवस्तदा ।
सीमन्तोन्नयनं कुर्याच्छङ्खस्य वचनं यथा ॥

कार्ष्णाजिनिः प्रसवात् पूर्वं कस्मिन्नपि शुभे मुहूर्त्ते सीमन्तोन्नयनमनुष्ठातुं निर्दिशति । परमत्रेदं त्वधेयं यत् संस्कारोऽयं पुंसवनात् परमेवानुष्ठेयम् ।

संस्कारतत्त्वसमीक्षायां सिध्दान्तपक्षोऽयमेव स्वीकृतो वर्तते यत् सामान्यतो गर्भाच्चतुर्थे मासे सीमन्तोन्नयनं कार्यम् । तदभावे एव पञ्चमादावपि मासेऽनुष्ठातुं शक्यमिति । तर व्यवस्थेयं शौनकस्य मतमुल्लिख्य उपस्थिपिता वर्तते –

अभावे पूर्वपूर्वस्य विदधीतोत्तरोत्तरे इति शौनकः

मासोऽयं सौर एव गृह्यते । प्रायः धर्मशास्त्रकारा अत्र सहमता वर्तन्ते – सौरेणैव चतुर्थे स्यात् मासे षष्ठेऽष्टमेऽपिवा । इति बृहस्पतिः” । सीमन्तोन्नयनस्य अनुष्ठानं शुक्लपक्षे विधेयम् । तदभावे कृष्णपक्षे विधेयम् । परम् अन्त्यास्तिस्रः त्रयोदशी –चतुर्दशी- अमावस्येतितिथयो वर्ज्याः । संस्काररत्नमालायां पक्षनिश्चयः सुष्ठु प्रतिपादितो वर्तते – “ अत्र शुक्लपक्ष एव मुख्यः, आपूर्यमाणपक्ष इति गृह्योक्तत्वात् । असम्भवेऽन्त्यांशं विना कृष्णपक्षो ग्राह्यः । तथा च बृहस्पतिः

शुक्लपक्षः शुभः प्रोक्तः, कृष्णश्चान्त्यत्रिकं विना

प्रतिपत्, द्वितीया, तृतीया, पञ्चमी, सप्तमी, द्शमी, एकादशी ति तिथयः सीमन्तोन्नयने प्रशस्ताः । कालविधाने उक्तम्-

पक्षच्छिद्राश्च रिक्ताः पितृतुथिमपहायापराः स्युः प्रशस्ताः

पक्षच्छिद्राः तिथयः – चतुर्थी, षष्ठी, अष्टमी, नवमी, द्वादशी, चतुर्दशी ।
रिक्ताः तिथयः – चतुर्थी, नवमी, चतुर्दशी ।
पितृतिथिः – अमावस्या ।
इमाः तिथयः सीमन्तकर्मणि वर्ज्या भवन्ति ।

प्रशस्तदिनानि

सम्पादयतु

सीमन्तोन्नयनकर्मणि रवि –भौम-गुरुवासराः प्रशस्ता उक्ताः । सोम –शुक्रवासरौ मध्यमौ, शनिबुधवासरौ अधमौ परिहार्यौ चोक्तौ । आचार्यैः पुरुषग्रहाणां वारेष्वेव सीमन्तकर्म प्रशस्तं प्रतिज्ञातम् । रविभौमगुरवः पुरुषग्रहा उच्यन्ते । चन्द्रशुक्रौ स्त्रीग्रहौ, बुधशनैश्चरौ च नपुंसकग्रहौ स्तः ।

पुरुषा रविगुरुभौमा नपुंसकाख्यौ बुधोऽर्कपुत्रश्च ।
                 नार्यौ भृगुचन्द्रमसौ ग्रहस्वभावस्थितिः कथिता” ॥
पुरुषग्रहवाराःस्युः शुभाः सीमन्तकर्मणि ।
                 मध्यौ स्त्रीग्रहवारौ तु वर्जयेत्तु नपुंसकौ ॥

इदं कर्म सविशेषं दिने एवानुष्ठातुम् आचार्याः प्रवदन्ति ।

नक्षत्राणि

सम्पादयतु

यथा पुंसवनं पुन्नक्षत्रयुक्ते चन्द्रे अनुष्ठीयते, तद्वत् सीमन्तोन्नयनमपि पुंसा नक्षत्रेण चन्द्रमसा युक्ते सति विधेयम् । पुन्नक्षत्राणि पुंसवनकालविवेचने बृहस्पतिस्तु रोहिणी, मृगशिरः, पुनर्वसुः, पुष्यः, हस्तः, उत्तराफाल्गुनी, उत्तराषाढा, उत्तराभाद्रपदा, रेवती, श्रवणश्चेति दशनक्षत्रेषु सीमन्तकर्म विधातुं निर्दिशति । अतः आहत्य अश्विनी, रोहिणी, मृगशिरः, पुनर्वसुः, पुष्यः, हस्तः उत्तरात्रयम्, अनुराधा, श्रवणः, पूर्वाभाद्रपदा, रेवती- इत्येतेषु नक्षत्रेषु सीमन्तकर्म विधेयम् ।

सीमन्ते मिथुन-कर्कटक –सिंह –कन्यावृश्चिकराशयो वर्ज्याः । सीमन्तोन्नयनात् पूर्वमेव प्रसवे विशेषः – कार्ष्णाजिनेः मतानुसारं सीमन्तकर्म प्रसवावधि यदा कदापि अनुष्ठातुं शक्यते । ज्योतिषग्रन्थेषु चापि इत्थमेव प्रतिपादितं वर्तते । एतादृश्यां परिस्थित्यां यदि सीमन्तोन्नयस्य अनुष्ठानात् पूर्वमेव प्रसवो जायेत् चेत्तदा स्त्री जातशिशुं पेटके मातुरङ्के वा स्थापयित्वा सीमन्तसंस्कारमाचरेत् ।

यदि सीमन्ततः पूर्वं प्रसूता चेत्सुभामिनी ।
तदानीं पेटके गर्भं स्थाप्य संस्कारमाचरेत् ॥

संस्कारमयूखे स्पष्टोल्लेखो मभ्यते यत् यः संस्कारोऽतिक्रान्तः स कर्तव्यः । प्रतिगर्भं संस्कारः उत प्रथमगर्भे एव – पुंसवनकर्मवत् अत्रापि प्रत्इगर्भं कर्मेदं विधेयं सकृदेव वेति मतद्वयं समुपलभ्यते । निर्णयस्तु सीमन्तकर्मणः प्रकृत्यैव विधीयेत् यदयं स्त्रीसंस्कारो गर्भसंस्कारो वा । यदि तु स्त्रीसंस्कारः स्यात्तर्हि सकृदेव विद्येयम । गर्भसंस्कारश्चेत्तर्हि प्रतिगर्भं विधेयम् । तत्र विष्णुः हारीतश्च इदं कर्म स्त्रीसंस्कारत्वेन मन्वाते । आश्वलायनमते एष संस्कारः प्रथमगर्भे एव करणीयः, अन्यगर्भेषु आवश्यकता नास्ति । “ एकवारं करणीयं न पुनः पुनः” । हारीतदेवलयोरपि एतदेव अभिमतमस्ति । सीमन्तोन्नयनसंस्कारेण स्त्रियाः सकृत् पवित्रत्वात् तस्याः प्रत्येकशिशुः स्वतोऽभैशिक्तो भवति । किन्तु, अपरे केचन आचार्याः प्रत्येकगर्भे संस्कारमिमम् अनुष्ठातुमादिशन्ति । यतोहि ते एनं संस्कारं भ्रूणसंस्कारं स्वीकुर्वन्ति । परं विष्णुधर्मसूत्रे स्पष्टमुल्लिखितं यदयं संस्कारः स्त्रिया वर्तते ।

मतद्वये उपस्थिते सति पारस्करगृह्यसूत्रस्य भाष्यकारः कर्कोपाध्यायः “ सति गर्भे सीमन्तोन्नयनसम्भवात् असति च तदभावात् गर्भस्यैवायं संस्कार इति मन्यते । विज्ञानेश्वरः, पारस्करगृह्यसूत्रस्य अन्ये भाष्यकाराः हरिहर –गदाधर- विश्वनाथोपाध्यायाः, केशवभट्टः- एते सीमन्तं गर्भिणीसंस्कारमेव उक्तवन्तः । अधिकांशवचनानि सीमन्तं स्त्रीसंसारत्वेनैव मन्यन्ते । उक्तं हारीतेन-

सकृत्संस्कृतसंस्काराः सीमन्तेन द्विजस्त्रियः ।
यं यं गर्भं प्रसूयन्ते स सर्वः संस्कृतो भवेत्” ॥

यदि वयं गृह्यकाराणां वचनमवलोकयेम तर्हि सिध्येत् यत् प्रायेण तैः प्रथमगर्भे एवास्य संस्कारस्य अनुष्ठानं प्रतिपादितम् –


प्रथमगर्भे मासे षष्ठेऽष्टमे वा” इति पारस्करः ।
प्रथमगर्भायाश्चतुर्थे मासि सीमन्तोन्नयनम्” इति बौधायनः ।
सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि” इति आपस्तम्बः ।
सप्तमे मासि प्रथमे गर्भे सीमन्तोन्नयनम्” इति साङ्ख्यायनः ।

उपर्युक्तेन विवेचनेन इदं सीमन्तकर्म गर्भिणीसंस्कारकमेव सिध्यति न तु गर्भसंस्कारकम् । सीमन्तोन्नयनस्य प्रयोजनमुपवर्णयत्आ आश्वलायनेन तु एतत्कर्म सकृदेव विधातुं निर्दिष्टम्, यद्यपि स एतत् गर्भसंस्कारमेव मनुते –

पत्न्याः प्रथमजं गर्भमत्तुकामाः सुदर्भगाः ।
आयान्ति काश्चिद्राक्षस्यो रुधिराशनतत्पराः ॥
तासां निरसनार्थाय श्रियमावाहयेत् पतिः ।
तस्मात् प्रहमगर्भस्य सीमन्ताख्यो विधीयते” ॥

वस्तुतोऽत्र ‘प्रथमगर्भस्य सीमन्ताख्येति वचनं स्त्रीसंस्कारत्वस्य अभावं न प्रतिपादयति । यतोहि यद्येष गर्भमात्रसंस्कारः स्यात् तदा आश्वलायनवचने गर्भान्तराणाम् असंस्कारत्वमापतेत् । तस्मात् प्रथमगर्भे विधेयम् । संस्कारोऽयं शूद्राणामपि अमन्त्रको विधेयः ।