परिवहनम्
परिवहनम् ( ( शृणु) /ˈpərɪvəhənəm/) (हिन्दी: परिवहन, आङ्ग्ल: Transportation) अर्थात् वस्तूनां, व्यक्तीनां च एकस्थानात् अन्यत्र वहनम् इति । प्राकृतिकसंसाधनानाम् आर्थिकक्रियाकलापानाम् आपणानाम् एकस्मिन् स्थाने एव प्राप्तिः दुर्लभा । उत्पादनकेन्द्राणाम् उपभोगकेन्द्रैः सह संयोगः परिवहनेन, सञ्चारेण, व्यापारेण च भवति । प्रत्येकेषु प्रदेशेषु तत्रत्यानाम् आवश्यकानां वस्तूनाम् उत्पादनम् अत्यधिकं भवति । तादृशानां वस्तूनां व्यापारः विनिमयश्च परिवहनसञ्चारयोः आधारितः भवति । तथैव जीवनस्य स्तरः, गुणवत्ता च दक्षपरिवहनसञ्चारव्यापारेषु आधारिता भवति । प्रारम्भिकावस्थायां परिवहनसञ्चारयोः एकमेव साधनमासीत् । किन्तु साम्प्रते काले द्वयोः स्वरूपं स्पष्टं, विशिष्टं च वर्तते । परिवहनेन उत्पादनकेन्द-उपभओगकेन्द्रयोः कृते योजकः, वाहकश्च प्राप्यते । तेन माध्यमेन व्यापारः क्रियते ।
व्यक्तीनां, वस्तूनां च एकस्थलात् अन्यस्थलप्राप्तिः परिवहनेन भवति । परिवहने मनुष्याणां, पशूनां, विभिन्नयानानां च उपयोगः भवति । गमनागमनस्य प्रक्रिया स्थले, जले, वायौ च भवति ।
मार्गाः, रेलमार्गाः च स्थलीयपरिवहनं वर्तते । जलमार्गाः, वायुमार्गाः च परिवहनस्य अन्यतमौ द्वौ प्रकारौ स्तः । नलिकारेखाः (pipeline) पेट्रोलियम्, प्राकृतिकवायून्, तरलावस्थान्, अयस्कान् च परिवहति ।[१]
परिवहनं समाजस्य आधारभूतानाम् आवश्यकतानां सन्तुष्ट्यर्थं निर्मितः कश्चित् सेवायाः उद्योगः वर्तते । अस्मिन् प्रकल्पे परिवहनाय मार्गाणां, मनुष्याणां, वस्तूनां वहनार्थं यानानां च समावेशः क्रियते । प्रतिदेशे विभिन्नप्रकारकाणां परिवहनानां विकासः भवति । अनेकमार्गाणाम् एकस्यां श्रेण्यां संयोजनेन निर्मितं प्रारुपं परिवहनजालम् उच्यते ।[२]
परिवहनस्य प्रकाराः
सम्पादयतुविश्वपरिवहनस्य प्रमुखप्रकाराः चत्वारि सन्ति । यथा – स्थलपरिवहनं, जलपरिवहनं, वायुपरिवहनं, नलिकारेखा (Pipeline) परिवहनं च । एतेषामुपयोगः अन्तःप्रादेशिकाय, अन्ताराष्ट्रियाय च भवति । स्थलपरिवहनेन, वायुपरिवहनेन, जलपरिवहनेन च यात्रीणां, वस्तूनां च वहनं क्रियते ।[३]
परिवहितानां वस्तूनां, सेवानां प्रकाराणां, परिवहनस्य व्ययानां च आधारेण परिवहनस्य प्रकाराणां सार्थकता गण्यते । वस्तूनां, मनुष्याणां एकस्थानात् अन्यत्र वहनं मार्गपरिवहनेन (Road) वेगेन भवति । कस्माच्चित् स्थलात् स्थूलपदार्थानां विशालपरिमाणस्य दीर्घान्तरं यावत् वहनाय रेलमार्गः अनुकूलः वर्तते । उच्चमूल्यवतां, नाशवतां च वस्तूनां वायुमार्गेण परिवहनं सर्वश्रेष्ठं भवति । परिवहनाय वायुयातायातं सर्वश्रेष्ठं वर्तते ।[४]
मार्गः (Road)
सम्पादयतुबहूनां वस्तूनां सेवानां सञ्चालनं स्थले एव भवति । पुरातनकाले मानवः स्वयं वाहकः आसीत् । तदनन्तरं भारवाहनाय पशूनाम् उपयोगः आरभत । चक्राणाम् (Wheel) आविष्कारानन्तरं यानानां प्रयोगः महत्वपूर्णः अभवत् । अष्टादशशताब्द्यां बाष्पयन्त्रस्य आविष्कारानन्तरं परिवहने क्रान्तिः अभवत् । प्रायः प्रथमः सार्वजनिकः रेलमार्गः १८२५ तमे वर्षे उत्तरीय इङ्गलेण्ड देशस्य स्टॉकटन् डर्लिङ्ग्टन् इत्येतयोः मध्ये आरब्धः । तत्पश्चात् १९ तमायां शताब्द्यां परिवहने रेलमार्गः लोकप्रियः, तीव्रतमः च अभवत् । ततः परम् अन्तर्दहनयन्त्रस्य आविष्कारेण मार्गाणां गुणवत्तायां वाहनानां परिवहने क्रान्तिरागता । स्थलपरिवहने नवीनतमस्य विकासस्य स्वरूपे नलिकारेखाणां (Pipeline), राजमार्गाणां तारमार्गाणां व्यवस्था आरभत । खानिजतैलस्य, अवमलस्य, नलिकामलस्य इत्यादीनां द्रवपदार्थानां परिवहनं नलिकारेखाभिः क्रियते ।
प्रायः मानववाहकः, पशुवाहनं यानम् इतीदं परिवहनस्य बहुमूल्यसाधनानि सन्ति । किन्तु बृहद्वाहकाः अल्पमूल्याः भवन्ति । साम्प्रतम् अपि भारतदेशे, चीनदेशे च मानववाहकाः, पशुवाहनानि प्रचलितानि सन्ति ।
अल्पान्तरे रेलपरिवहनस्य अपेक्षया मार्गपरिवहनम् आर्थिकदृष्ट्या लाभकरं भवति । मार्गैः वस्तूनां परिवहनं महत्वपूर्णं भवति । मार्गपरिवहनेन गृहं प्रति वस्तूनि प्राप्यन्ते । अपक्वमार्गाः निर्माणदृष्ट्या सरलाः भवन्ति । किन्तु वर्षर्तौ एतेषु मार्गेषु परिवहनम् असम्भवम् । पक्वमार्गाः अपि अधिकवर्षायां प्रभाविताः भवन्ति । तादृश्यां परिस्थितौ रेलमार्गैः परिवहनं क्रियते । किन्तु रेलमार्गाः लघवः भवन्ति । तेन कारणेन अल्पव्ययेन आवश्यकतायाः पूर्तिः अशक्या । अतः मार्गैः सर्वेषां देशानां व्यापारः, वाणिज्यं च विकसितं भवति । पर्यटनाय मार्गाः एव महत्वपूर्णाः सन्ति ।
विकासिदेशेषु, विकासशीलदेशेषु च मार्गाणां गुणवत्तायां पर्याप्तम् अन्तरं प्राप्यते । यतः मार्गाणां निर्माणाय संरक्षणाय च बहुधनव्ययः भवति । विकसितदेशेषु श्रेष्ठगुणवत्तायाः मार्गाः सर्वत्र प्राप्यन्ते । किन्तु अनेकैः कारणैः विश्वस्य मार्गतन्त्रं सम्पूर्णतया विकसितं न जातम् ।
विश्वस्य मोटर-वाहनस्य मार्गाः १५० लक्षं लम्बमानाः सन्ति । तस्य ३३% भागः उत्तर अमेरिका महाद्वीपे प्राप्यते । पश्चिमयूरोप महाद्वीपस्य तुलनया उत्तर अमेरिका महाद्वीपे वाहनानां सङ्ख्या अधिका वर्तते । अस्याशयः अस्ति यत् विश्वस्मिन् मार्गाणां विकासे प्रादेशिकेषु, राष्ट्रियेषु, अन्ताराष्ट्रियेषु, महाद्वीपीयेषु च स्तरेषु असमानता प्राप्यते ।[५]
यातायातस्य प्रवाहः
सम्पादयतुगतवर्षेषु मार्गाणां यातायाते अतिवृद्धिः जाता । मार्गतन्त्रं यदा यातायातस्य आवश्यकतानुरूपं विकसितं न भवति, तदा मार्गे सम्मर्दः (traffic) वर्धते । प्रातःकाले, सायङ्काले च मार्गेषु अधिकः सम्मर्दः दृष्टुं शक्यते । अर्थात् कार्यस्य पूर्वं कार्यस्य परं वा इति । विश्वस्य बहूनि नगराणि सम्मर्दस्य समस्यया प्रभावितानि सन्ति ।[६]
- भारत - १०५ प्रतिवर्ग कि. मी.
- जापान् - ३२७ प्रतिवर्ग कि. मी.
- फ्रान्स् - १६४ प्रतिवर्ग कि. मी.
- यूनाइटेड् किङ्गडम् - १६२ प्रतिवर्ग कि. मी.
- संयुक्त राज्य अमेरिका - ६७ प्रतिवर्ग कि. मी.
- स्पेन् - ६८ प्रतिवर्ग कि. मी.
- श्रीलङ्का - १५१ प्रतिवर्ग कि. मी.
महामार्गः
सम्पादयतुदूरस्थानां नगराणां सन्धिः महामार्गैः क्रियते । अबाधितरूपेण यातायातं भवेत्, अतः एतावत् निर्माणं क्रियते । यातायातस्य अबाधितप्रवाहस्य सौकर्याय विभिन्न-यातायातरेखा (Lane), सेतुः, ८० मी. विस्तृताः, मार्गाः च भवन्ति । विकसितदेशेषु प्रत्येकानि नगराणि, पत्तनानि च महामार्गैः परस्परं सम्बद्धानि सन्ति ।[८]
अमेरिका-देशे महामार्गाणां विकासः अधिकः वर्तते । तत्र प्रायः ०.६५ कि. मी. प्रतिवर्गं कि. मी. अस्ति । तत्र प्रत्येकं स्थानं महामार्गात् २० कि. मी. दूरे स्थितम् अस्ति । पश्चिमप्रशान्तमहासागरीयतटेषु स्थितानि नगराणि पूर्वदिशि अटलाण्टिकमहासागरीयतटेषु स्थितैः नगरैः सह सम्बद्धानि सन्ति । तथैव उत्तरदिशि केनडा देशस्य नगराणि दक्षिणदिशि मैक्सिको इत्यस्य नगरैः सह सम्बद्धानि सन्ति ।
पान-अमेरिकन् महामार्गः इदानीं निर्माणाधीनः वर्तते । तस्य अधिकांशः भागः निर्मितः जातः । दक्षिण-अमेरिका महाद्वीपस्य देशाः, मध्य अमेरिका महाद्वीपस्य देशाः, संयुक्त राज्य अमेरिका, केनडा च तेन महामार्गेण परस्परं सम्बद्धाः सन्ति ।
वाहनानां विशालसङ्ख्या, महामार्गाणां सुविकसितं जालं च यूरोप-महाद्वीपे प्राप्यते । किन्तु महामार्गाणां रेलमार्गैः जलमार्गैः सह प्रतिद्वन्द्विता वर्तते ।[९]
रूस-देशे यूराल-पर्वतस्य पश्चिमदिशि स्थितेषु औद्योगिकेषु प्रदेशेषु महामार्गाणाम् अत्यधिकः विकासः जातः । मास्को-ब्लाडीवोस्टक् महामार्गः पूर्वदिशि स्थितेषु प्रदेशेषु वर्तते । रूस-देशस्य भौगोलिकक्षेत्रफलम् अत्यधिकविस्तृतं वर्तते । तेन कारणेन तत्रत्याः महामार्गाः रेलमार्गाणाम् अपेक्षया महत्वपूर्णाः न सन्ति ।
चीन-देशे महामार्गाः प्रमुखानि नगराणि सञ्योजयन्ति । एकः नूतनमहामार्गः तिब्बतक्षेत्रे चेगडू इत्यनेन ल्हासा इतीदं सञ्योजयति ।
भारत-देशे बहवः महामार्गाः प्राप्यन्ते । ते महामार्गाः नगराणि, पत्तनानि च परस्परं सञ्योजयन्ति । राष्ट्रियमहामार्गः ७ वाराणसीनगरं कन्याकुमारी नगरेण सह सञ्योजयति । अयं देशस्य दीर्घतमः महामार्गः वर्तते । साम्प्रतं स्वर्णिमचतुर्भुजद्रुतमार्गाणां निर्माणं प्रचलति । सर्वकारस्य योजना अस्ति यत् अनेन मार्गेण प्रमुखमहानगराणि, मुम्बई, बैङ्गळुरु, चैन्नई, कोलकाता, हैदराबाद इत्येतानि परस्परं सम्बद्धानि भवेयुः ।
आफ्रिका-महाद्वीपे उत्तरदिशि स्थितः एकः महामार्गः अल्जियर्स् इतीदं गुयाना इत्यस्य कोनाफ्रि इत्यनेन सह सञ्योजयति । तथैव कैरा अपि केपटाऊन् इत्यनेन सह सम्बद्धम् अस्ति ।[१०]
सीमावर्तीमार्गाः
सम्पादयतुअन्ताराष्ट्रियसीमासु निर्मिताः मार्गाः सीमावर्तिमार्गाः कथ्यन्ते । इमे मार्गाः दूरस्थेषु क्षेत्रेषु निवसितां जनानां प्रतिरक्षणाय, प्रमुखनगरैः सह सम्बद्धाय च महत्वपूर्णाः भवन्ति । प्रायः प्रत्येकेषु देशेषु ग्रामेभ्यः सैन्यशिबिरेभ्यः वस्तूनि प्रेषणाय सीमावर्तिमार्गाः प्राप्यन्ते ।[११]
रेलमार्गः
सम्पादयतुरेलमार्गैः स्थूलवस्तूनां, यात्रिणाम् अधिकदूरस्थले यातायातः क्रियते । अयम् अपि परिवहनस्य एकः प्रकारः वर्तते । रेलमार्गस्य विस्तारः प्रत्येकेषु देशेषु भिन्नः प्राप्यते । सामान्यतः बृहत् (१.५ मी. वा तस्मादधिकं), मानकः (१.४४ मी.), मीटर् लाइन् (१ मी.), लघु च इति प्रकारकेषु रेलमार्गाः विभक्ताः सन्ति । ब्रिटेन-देशे मानकरेखा (Line) उप्युज्यते ।
दैनिकावागमनस्य रेलयानानि ब्रिटेन-देशे, संयुक्त राज्य अमेरिका, जापान्-देशे, भारत-देशे च अत्यधिकानि लोकप्रियानि सन्ति । दैनिकरेलयानैः जनाः प्रतिदिनम् एकस्मात् स्थानात् अन्यत्र आवागमनं कुर्वन्ति । विश्वस्मिन् १३ लक्षं कि. मी. यावत् दैर्घ्याः रेलयातायातमार्गाः वर्तन्ते ।[१२]
- संयुक्त राज्य अमेरिका – २७८.३ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- रूस – १६०.८ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- भारत – १४४.७ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- केनडा – ९३.५ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- जर्मनी – ९०.८ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- चीन – ७०.१ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- ऑस्ट्रेलिया – ४०.० प्रति १०० वर्ग कि. मी. क्षेत्रम्
- संयुक्त राष्ट्र – ३७.९ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- फ्रान्स् – ३४.५ प्रति १०० वर्ग कि. मी. क्षेत्रम्
- ब्राजील् – ३०.१ प्रति १०० वर्ग कि. मी. क्षेत्रम्
यूरोप्-महाद्वीपे विश्वस्य सघनतमं रेलतन्त्रं वर्तते । तत्र रेलमार्गाः प्रायः ४ लक्षं ४० सहस्रं कि. मी. दीर्घाः वर्तन्ते । लन्दन्, पेरिस्, ब्रुसेल्स्, मिलान्, बलिन्, वारसा च इत्येतेषु नगरेषु महत्वपूर्णानि रेलकेन्द्राणि वर्तन्ते । इङ्ग्लेण्ड् देशे यूरो टनल् ग्रुप् इत्यनेन प्रचालितः सुरङ्गामार्गः लन्दन् इतीदं पेरिस इत्यनेन सह सञ्योजयति ।
यूराल् इत्यस्य पर्वतस्य पश्चिमे भागे अत्यन्तं सघनं जालं वर्तते । तेन जालेन युक्ते रूस्-देशे रेलमार्गैः देशस्य परिवहनस्य ९० प्रतिशतं भागः प्रबन्धितः भवति । मास्को इति महानगरं रेलवे इत्यस्य महत्वपूर्णः मुख्यालयः वर्तते । तत्र देशस्य विस्तृतानां भौगोलिकानां क्षेत्राणां विभिन्नेषु भागेषु प्रमुखाः रेलरेखाः (railline) विकिसिताः सन्ति ।[१४]
उत्तर-अमेरिका महाद्वीपे सर्वाधिकं विस्तृतं रेलमार्गतन्त्रं वर्तते । तत् तन्त्रं विश्वस्य रेलमार्गाणां ४० प्रतिशतं वर्तते । अस्य विपरीतं यूरोप्-महाद्वीपस्य अनेकेषु देशेषु रेलमार्गाणां प्रयोगः यात्रिणां परिवहनस्य अपेक्षया स्थूलपदार्थानां (अयस्क, धान्यं, काष्ठं, यन्त्रम् च) परिवहने अधिकः भवति । संयुक्त राज्य अमेरिका, केनडा इत्येतयोः उच्चौद्योगिकेषु, नगरीयप्रदेशेषु च सघनरेलतन्त्रं प्राप्यते ।
केनडा देशे रेलमार्गः सार्वजनिकविभागेषु वर्तते । अधिकजनसङ्ख्यायुतेषु क्षेत्रेषु अपि रेलमार्गाः सन्ति । महाद्वीपपारीयरेलमार्गैः गोधूमस्य, अङ्गारस्य च परिवहनं क्रियते ।
ऑस्ट्रेलिया-महाद्वीपे प्रायः ४०,००० कि. मी. दीर्घाः रेलमार्गाः वर्तन्ते । तस्य रेलमार्गस्य २५ प्रतिशतं न्यु साउथ वेल्स् इत्यस्मिन् प्राप्यते । न्यूजीलैण्ड् देशे मुख्यतः उत्तरद्वीपे रेलमार्गाः प्राप्यन्ते । ते मार्गाः कृषिक्षेत्रेषु उपयुज्यन्ते ।[१५]
दक्षिण अमेरिका महाद्वीपे द्वयोः प्रदेशयोः रेलमार्गाः सघनाः सन्ति । अर्जेण्टिना इत्यस्य पम्पास्, ब्राजील् इत्यस्य कॉफी उत्पादकः प्रदेशः च । एतयोः द्वयोः प्रदेशयोः दक्षिण अमेरिका महाद्वीपस्य रेलमार्गाणां ४० प्रतिशतं भागः प्राप्यते । दक्षिण अमेरिका महाद्वीपस्य शेषदेशेषु केवलं चिली देशे महत्वपूर्णदैर्घ्यस्य रेलमार्गाः सन्ति । ते तटीयकेन्द्राणि आन्तरिकक्षेत्रैः सह सञ्योजयन्ति । पेरू, बोलीविया, इक्वाडोर्, कोलम्बिया, वेनेजुएला इत्यादिषु एकरेखायाः रेलमार्गाः प्राप्यन्ते ।
तत्र केवलं महाद्वीपपारीयरेलमार्गः वर्तते । सः मार्गः एण्डिज् पर्वतानाम् अपरे भागे ३९०० मी. औन्नत्ये स्थितः अस्ति । सः ब्यूनसआयर्स (अर्जेण्टिना) इतीदं वाल्पैराइजो इत्यनेन सह मेलयति
एशिया महाद्वीपे जापान्-देशस्य, चीन-देशस्य, भारत-देशस्य च सघनेषु आवासिक्षेत्रेषु रेलमार्गाणां सघनतमं घनत्वं प्राप्यते । अत्र अन्येषां देशानाम् अपेक्षया अल्परेलमार्गाः निर्मिताः सन्ति । विस्तृतमरुस्थलानां कारणेन, अधिकजनसङ्ख्यायाः कारणेन च रेलमार्गाणां न्यूनतमः विकासः जातः ।
यद्यपि आफ्रिका-महाद्वीपः विश्वस्य द्वितीयः बृहत्तमः महाद्वीपः वर्तते, तथापि तत्र ४०,००० कि. मी. दीर्घाः रेलमार्गाः सन्ति । तेषु मार्गेषु स्वर्णस्य, हीरकमणेः च सान्द्रणेन, ताम्रखननस्य क्रियाकलापैः च दक्षिण आफ्रिका महाद्वीपे १८,००० कि. मी. दीर्घाः रेलमार्गाः सन्ति ।[१६]
आफ्रिका-महाद्वीपस्य प्रमुखाः रेलमार्गाः सन्ति यत्[१७] -
- बेङ्गुएला रेलमार्गः - अङ्गोला तः कटङ्गा-जाम्बिया ताम्रस्य पेटिका पर्यन्तम् ।
- तञ्जानिया रेलमार्गः – जाम्बिया ताम्रस्य पेटिका तः तटे स्थितं दार-ए-सलाम् पर्यन्तम् ।
- बोसवाना तः जिम्बाब्वे पर्यन्तं रेलमार्गः, यः स्थलरूद्धानि राज्यानि दक्षिण आफ्रिकीरेलतन्त्रेण सह सम्बद्ध्यते ।
- दक्षिण-आफ्रिका इत्यस्य गणतन्त्रे केपटाउन् तः प्रेटोरिया पर्यन्तं ब्लू रेल ।
पारमहाद्वीपीयरेलमार्गः
सम्पादयतुपारमहाद्वीपीयरेलमार्गाः सम्पूर्णमहाद्वीपस्य एकपक्षतः अपरपक्षपर्यन्तं भवति । आर्थिकराजनैतिकाभ्यां कारणैः विभिन्नदिक्षु दीर्घयात्राभ्यः अस्य मार्गस्य निर्माणं क्रियते ।[१८]
पार-साइबेरियन् रेलमार्गः
सम्पादयतुरूस्-देशस्य अयं प्रमुखः रेलमार्गः वर्तते । पश्चिमदिशि सेण्ट् पीटर्सबर्गतः पूर्वदिशि प्रशान्तमहासागरतटस्थं मास्को, कजान्, ट्युमिन्, नोवोसिबिर्स्क्, चिता, खबरोवस्क् पर्यन्तम् अयं मार्गः वर्तते । अयम् एशिया-महाद्वीपस्य महत्वपूर्णः रेलमार्गः विद्यते । विश्वस्य सर्वाधिकेन दैर्घ्ययुग्मपथेन (९,३२२ कि. मी.) युक्तः विद्युतीकृतः पारमहाद्वीपीयरेलमार्गः वर्तते ।[१९]
पार-कैनेडियन् रेलमार्गः
सम्पादयतुकेनडा इत्यस्य मार्गस्य दैर्घ्यं ७,०५० कि. मी. अस्ति । अस्य रेलमार्गस्य निर्माणं १८८६ तमे वर्षे अभवत् । अयं रेलमार्गः पूर्वदिशि हैलिफैक्स् तः माण्ट्रियल्, ओटावा, विनिपेग्, कलगैरी, पश्चिमे प्रशान्ततटे स्थितं वैङ्कुवर् पर्यन्तं वर्तते । अयं जलमार्गः केनडा इत्यस्य आर्थिकरेखा वर्तते ।[२०]
सङ्घरेलमार्गः प्रशान्तरेलमार्गश्च
सम्पादयतुअयं रेलमार्गः अटलाण्टिकतटे स्थितं न्यूयार्क् इतीदं क्लीवलैण्ड्, शिकागो, ओमाहा, इवान्स्, ऑग्डन्, सैक्रामेण्टो, प्रशान्तमहासागरस्य तटे स्थितं फ्रान्सिस्को इत्येतैः सह मेलयति ।[२१]
ऑस्ट्रेलियाई पारमहाद्वीपीयरेलमार्गः
सम्पादयतुअयं रेलमार्गः पश्चिमतटे स्थितं पर्थ इतीदं कलगुर्ली, ब्रोकन् हिल्, पोर्ट् ऑगस्ता, पूर्वीतटे स्थितं सिडनी इत्येतैः सह सञ्योजयति । अयं रेलमार्गः महाद्वीपस्य पश्चिमतः पूर्वदिशं प्रति गच्छति । अपरः एकः रेलमार्गः उत्तर-दक्षिणरेखाम् एडीलेड् इतीदम् एलिस् स्प्रिङ्ग इत्यनेन सह मेलयति । अग्रे इमं रेलमार्गं डार्विन्-बिरदुम् रेलमार्गेण सह सञ्योजयति ।[२२]
ओरिएण्ट् एक्सप्रेस्
सम्पादयतुअयं रेलमार्गः पेरिस् इतीदं स्ट्रैस्बर्ग्, म्युनिख्, विएना, बुडापेस्ट् बेल्ग्रेड्, इस्ताम्बूल् इत्येतैः सह मेलयति । जलमार्गेण लन्दन् तः इस्ताम्बूल् पर्यन्तं १० दिनानि भवन्ति, किन्तु अनेन रेलमार्गेण लन्दन् तः इस्ताम्बूल् पर्यन्तं ९६ होरा एव भवति ।
इस्ताम्बूल इतीदं बैङ्कॉक्, ईरान्, पाकिस्तान्, भारत-देशं, बाङ्ग्लादेशं, म्यांमार च इतीदं पर्यन्तं रेलमार्गस्य निर्माणाय अपि प्रस्तावः वर्तते ।[२३]
जलपरिवहनम्
सम्पादयतुजलपरिवहने महत्वपूर्णः लाभः अस्ति यत् अस्मिन् परिवहने मार्गनिर्माणस्य आवश्यकता न भवति । सर्वे महासागराः परस्परं सम्बद्धाः सन्ति । महासागरेषु विभिन्नानि जलयानानि चलन्ति । किन्तु महासागराणां द्वयोः पक्षयोः पत्तनसौकर्यस्य आवश्यकता वर्तते । इदं परिवहनम् अल्पमूल्यं भवति । यतः मार्गाणाम् अपेक्षया जलस्य घर्षणं न्यूनं भवति । जलपरिवहनस्य ऊर्जा निवेशस्य अपेक्षया न्यूना भवति । जलपरिवहनं समुद्रमार्गेषु, आन्तरिकजलमार्गेषु च विभक्तं भवति ।[२४]
समुद्रमार्गः
सम्पादयतुमहासागरे एकैकस्यां दिशि महामार्गाः भवन्ति । तेषां महामार्गाणां संरक्षणाय व्ययः न भवति । एकस्मात् द्वीपात् अन्यद्वीपं प्रति स्थूलवस्तूनां दैर्घ्यान्तरं परिवहनं स्थलवायुपरिवहनस्य अपेक्षया अल्पमूल्यं भवति ।[२५]
उत्तरी अटलाण्टिक समुद्रमार्गः
सम्पादयतुअयं मार्गः औद्योगिकदृष्ट्या उत्तर-पूर्वी संयुक्त राज्य अमेरिका, पश्चिमी यूरोप् इति इमौ परस्परं मेलयति । विश्वस्य २५% वैदिशिकः व्यापारः अस्मिन् मार्गे एव भवति । अतः विश्वस्य व्यस्ततमः व्यापारिकजलमार्गः अयम् इति । अयं ’बृहद् ट्रङ्क् मार्गः’ इत्यपि तस्य नामन्तरम् । अस्य मार्गस्य उभयोः तटयोः पत्तनस्य, पोताश्रयस्य च विशिष्टाः सुविधाः प्राप्यन्ते ।[२६]
भूमध्यसागरीयः, हिन्दमहासागरीयः च समुद्रमार्गः
सम्पादयतुअयं समुद्रमार्गः विश्वस्य अधिकतमेभ्यः देशेभ्यः, जनेभ्यः च सेवां ददाति । पोर्ट् सईद्, अदन्, मुम्बई, कोलम्बो, सिङ्गापुर् इत्यादीनि अस्य मार्गस्य महत्वपूर्णानि पत्तनानि सन्ति ।
अयं व्यावसायिकमार्गः पश्चिमयुरोपीयप्रदेशान्, पश्चिम-आफ्रीका, दक्षिण-आफ्रीका, दक्षिण-पूर्व एशिया, ऑस्ट्रेलिया, न्यूजीलैण्ड् इत्यस्य देशस्य कृषिवाणिज्ये, पशुपालनाधारित-अर्थव्यवस्थां च योजयति । स्वेज् इत्यस्याः कूल्यायाः निर्माणपूर्वम् अयं मार्गः लिवरपुल्, कोलम्बो च इति इमे परस्परं मेलयति स्म । अस्य मार्गस्य दैर्घ्यं ६,४०० कि. मी. आसीत् । स्वर्णं, हीरकमणिः, ताम्रं, टिन्, कलायः, गिरितैलं, फलं च इत्यादीनां प्राकृतिकसंसाधनैः व्यापारस्य प्रमाणेन यातायाते वृद्धिर्भवति ।[२७]
'उत्तमाशा अन्तरीप' समुद्रमार्गः
सम्पादयतुअटलाण्टिक-महासागरस्य अपरे तटे अयम् एकः अन्यः महत्वपूर्णः समुद्रमार्गः वर्तते । अयं मार्गः पश्चिम- यूरोपीय, पश्चिम-आफ्रीकीदेशान् ब्राजील्, अर्जेण्टिना, उरुग्वे इत्येतैः सह योजयति । उत्तर-अटलाण्टिक मार्गस्य तुलनायां दक्षिण अमेरिका, आफ्रीका इत्येतयोः सीमितविकासेन, जनसङ्ख्यया यातायातः बहुन्यूनः वर्तते । दक्षिण-पूर्वी ब्राजील्, प्लाटा ज्वारनदमुख, दक्षिण-आफ्रीका च इत्येतेषां केषुचित् भागेषु बृहत्प्रमाणेन औद्योगिकरणम् अभवत् । रियो-डि-जैनेरो, केपटाउन् इत्येतयोः मध्ये अपि यातायतः अतिन्यूनः वर्तते ।[२८]
प्रशान्तमहासागरे अनेकमार्गैः व्यापारः क्रियते । बृहद्वृत्ते स्थितः मार्गः वैङ्कूवर्, याकोहामा इति इमौ परस्परं योजयति । यात्रायाः अन्तरम् अपि अर्धं (२,४८० कि. मी.) करोति । [२९]
उत्तरी प्रशान्त समुद्रमार्गः
सम्पादयतुअयं समुद्रमार्गः अमेरिका इत्यस्य तटवर्तिपत्तनानि एशिया महाद्वीपस्य पत्तनैः सह योजयति ।
दक्षिणी प्रशान्त समुद्रमार्गः
सम्पादयतुअयं समुद्रमार्गः पश्चिम-यूरोप्, उत्तर-अमेरिका इति इमौ ऑस्ट्रेलिया, न्यूजीलैण्ड्, पनामाकूल्या, प्रशान्तमहासागरस्य द्वीपः च इत्येतैः सह योजयति । हॉङ्गकॉङ्ग् फिलिपीन्स्, इण्डोनेशिया, इत्येतेषां प्राप्त्यै अयं मार्गः उपयुज्यते । पनामा तः सिडनी इत्येतयोः अन्तरं १२,००० कि. मी. वर्तते । होनोलूलू इति अस्य मार्गस्य महत्वपूर्णं पत्तनम् अस्ति ।[३०]
तटीयं नौकापरिवहनम्
सम्पादयतुजलपरिवहनम् एकम् अल्पमूल्यं साधनं वर्तते इति स्पष्टम् एव । समुद्रमार्गः विभिन्नदेशान् परस्परं योजयति । तटीयनौकापरिवहनं केभ्यश्चित् देशेभ्यः सुगमं वर्तते । यथा – संयुक्त राज्य अमेरिका, चीन, भारतं च । यूरोप् महाद्वीपे शेनगेन-देशानां स्थितिः तटीयनौकापरिवहनदृष्ट्या उपयुक्ता वर्तते । यदि तटीयनौकापरिवहनस्य सम्यक्तया विकासः भवेत्, तर्हि स्थलमार्गस्य यातायातस्य सम्मर्दे न्यूनता भवितुं शक्नोति ।[३१]
नौकापरिवहनकूल्या
सम्पादयतुस्वेज्, पनामा इति इमे द्वे नौकापरिवहनाय मनुष्यनिर्मिते कूल्यौ स्तः । अयं जलमार्गः अपि कथ्यते । इमे कूल्ये पूर्वीविश्व-पश्चिमीविश्वयोः प्रवेशद्वारम् इव वर्तेते ।[३२]
स्वेज् कूल्या
सम्पादयतुअस्याः कूल्याः निर्माणं १८६९ तमे वर्षे मिस्र-देशस्य उत्तरदिशि पोर्टसईद्, दक्षिणदिशि पोर्ट् स्वेज् इत्यस्य मध्यभूमध्यसागरः, रक्तसागरः च इत्येतेषां संयोजनाय कृतम् आसीत् । हिन्दमहासागरे प्रवेशाय नूतनमार्गरूपेण इयं कूल्या वर्तते । इयं जलबन्धरहिता, समुद्रस्तरस्य समाना कूल्या वर्तते । अस्य १६० कि. मी. दैर्घ्यं, ११ तः १५ मी. पर्यन्तं गहनता च वर्तते । अस्यां कूल्यां प्रतिदिनं १०० जलयानानि यातायातं कुर्वन्ति ।[३३]
पनामा-कूल्या
सम्पादयतुइयं कूल्या पूर्वदिशि अटलाण्टिक्-महासागरं पश्चिमदिशि प्रशान्त-महासागरेण सह योजयति । अस्य निर्माणं संयुक्तराज्य अमेरिका इत्यनेन कारितम् आसीत् । तेन कूल्यायाः द्वयोः पक्षयोः ८ कि. मी. क्रीत्वा कूल्यामण्डलम् इति नाम दत्तम् । इयं कूल्या प्रायः ७२ कि. मी. दीर्घा अस्ति, १२ कि. मी. पर्यन्तं गहना च वर्तते । अस्यां कूल्यायां षड् जलप्रबन्धकतन्त्राणि सन्ति । जलयानानि अस्यां कूल्यायां प्रवेशपूर्वं जलप्रबन्धकानि प्राप्नुवन्ति ।[३४]
अनया कूल्यया न्यूयॉर्क सैनफ्रान्सिस्को इत्येतयोः मध्ये प्रायः १३,००० कि. मी. अन्तरं न्यूनं जातम् । यद्यपि अस्याः कूल्याः आर्थिकमहत्त्वं स्वेज् कूल्यया न्यूनं वर्तते तथापि दक्षिण-अमेरिका इत्यस्य अर्थव्यवस्थायाम् अस्याः महत्वपूर्णा भूमिका वर्तते ।[३५]
आन्तरिकजलमार्गः
सम्पादयतुनद्यः, तडागाः, तटीयक्षेत्राणि च प्राचीनकालादेव महत्वपूर्णाः जलमार्गाः सन्ति । नौकाः, जलयानानि च यात्रिणां, वस्तूनां च परिवहनार्थम् उपयुज्यन्ते । आन्तरिकजलमार्गाणां विकासः कूल्यानां नौगम्यतायां, विस्तृततायां, गहनतायां जलप्रवाहस्य निरन्तरतायां च आधारितः भवति । सघनवनैः युक्तेषु क्षेत्रेषु नद्यः एव परिवहनस्य साधनत्वेन भवन्ति । अत्यधिकभारयुतानां वस्तूनाम् (अङ्गारस्य, सीमेण्ट्, काष्टस्य, धात्विक-अयस्कस्य च) आन्तरिकजलमार्गैः यातायातः क्रियते।[३६]
प्राचीनेकाले परिवहनस्य मुख्यराजमार्गत्वेन नदीमार्गः एव प्रयुज्यते स्म । यथा भारते, किन्तु साम्प्रते काले रेलमार्गैः सह प्रतिद्वन्दितया, सेचनादिना कार्ये जलस्यैव उपयोगे पर्याप्तमात्रायां जलस्य अभावेन च नदीनां जलपरिवहनं विलुप्तं जातम् ।[३७]
आन्तरिकजलमार्गरूपे नदीनां सार्थकता अन्ताराष्ट्रियपरिवहनेन, व्यापारक्षेत्रेषु विकसितदेशैः च मान्यता प्राप्ता । निम्नलिखिताः नद्यः जलमार्गविश्वस्य महत्वपूर्णाः वाणिज्यमार्गाः सन्ति ।[३८]
राइन् जलमार्गः
सम्पादयतुइयं नदी जर्मनी नीदरलैण्ड इत्येतयोः प्रवहति । नीदरलैण्ड इत्यस्य रोटरर्डम् इत्यस्मिन् स्विटजरलैण्ड् इत्यतः बेसल् प्रति ७०० कि. मी. पर्यन्तम् इयं नौकायनयोग्या वर्तते । सामुद्रिकयानानि कोलोन् इतीदं प्रति गन्तुं शक्नुवन्ति । रूर्-नदी पूर्वदिशम् आगत्य राइन्-नद्यां मिलति । इयं नदी अङ्गारक्षेत्रतः प्रवाहिता भवति । सम्पूर्णनदी बेसिन-विनिर्माणक्षेत्रस्य दृष्ट्या अत्यधिका सम्पन्ना वर्तते । अस्मिन् प्रदेशे राइननद्यां डसलडोर्क् नामकं पत्तनं स्थितम् अस्ति । विश्वस्य जलमार्गेषु अधिकतमः प्रयुक्तः जलमार्गः अयं वर्तते । प्रतिवर्षं २०,००० तः अधिकानां जलयानानां, वस्तूनाम् आदान-प्रदानं भवति । अयं जलमार्गः स्विटजरलैण्ड्, जर्मनी, फ्रान्स्, बेल्जियम् नीदरलैण्ड् इत्यादीन् औद्योगिकक्षेत्रैः सह योजयति ।[३९]
डेन्यूब्-जलमार्गः
सम्पादयतुअयम् आन्तरिकजलमार्गः पूर्वीयूरोपीयभागाय महत्वपूर्णः वर्तते । डेन्यूब्-नदी ब्लैक् फॉरेस्ट् इत्यतः पूर्वदिशं प्रति प्रवहति । इयं नदी टारना तः सेविरिन् पर्यन्तं नौकायनयोग्या वर्तते । अनेन जलमार्गेण मुख्यतः गोधूमस्य, काष्ठस्य, यन्त्राणां च निर्यातः भवति ।[४०]
वोल्गा-जलमार्गः
सम्पादयतुरूस्-देशे बहुमात्रायां विकसितजलमार्गाः प्राप्यन्ते । तेषु मार्गेषु वोल्गा-जलमार्गः सर्वाधिकः महत्वपूर्णः वर्तते । अयं जलमार्गः ११,२०० कि. मी. यावत् नौकायनाय सुविधां प्रददाति । कैस्पियन्-सागरेण सह संलग्नः अस्ति ।[४१]
बृहत् तडागाः (झील)सेन्ट् लारेन्स्
सम्पादयतुउत्तर-अमेरिका इत्यस्य महाद्वीपस्य सुपीरियर्, ह्युरन्, इरी, ओण्टोरियो इत्यादयः बृहद् तडागाः (झील) सू-कूल्यया, वलैण्ड्-कूल्यया सह योजिताः सन्ति । एभिः आन्तरिकजलमार्गाः अपि प्राप्यन्ते । तत्र स्थितानि मुख्यानि डुलुथ्, बुफालो इत्यादीनि पत्तनानि सामुद्रिकपत्तनानाम् आधुनिकसौकर्ययुतानि सन्ति । विशालसामुद्रिकजलयानानि महाद्वीपस्य आन्तरिके भागे मॉट्रियल् पर्यन्तं नौकायनं कुर्वन्ति । किन्तु नदीषु बहवः प्रपाताः सन्ति । तेन कारणेन लघुजलयानैः यातायातः क्रियते । तेन कारणेन लघुजलयानानां संरक्षणाय कूल्याः ३.५ मी. गहनाः वर्तन्ते ।[४२]
मिसीसिपी-जलमार्गः
सम्पादयतुमिसीसिपी-उनोहियो जलमार्गः संयुक्तराज्य-अमेरिका इत्यस्य आन्तिकभागान् दक्षिणे मैक्सिको इत्यस्य गर्तेन सह योजयति । लम्बवाष्पपोताः अनेन मार्गेण मिनियापोलिस् पर्यन्तं गन्तुं शक्नुवन्ति ।[४३]
वायुपरिवहनम्
सम्पादयतुवायुपरिवहनं परिवहनस्य तीव्रतमं साधनं वर्तते । किन्तु इदं बहुमूल्यम् साधनम् अपि अस्ति । अस्य साधनस्य गतिः अधिका भवति । अतः अस्य उपयोगः दीर्घयात्रायां भवति । अनेन कारणेन भारयुतानि वस्तूनि एकस्मात् स्थानात् अन्यत्र जटिति प्रेषयितुं शक्यन्ते । वायुपरिवहनेन सम्पूर्णे विश्वस्मिन् सम्पर्कक्रान्तिः अभवत् । अगम्यक्षेत्रं यावत् अपि वायुपरिवहनेन प्राप्तुं शक्यते । पर्वतेषु, हिमक्षेत्रेषु, विषममरुस्थलीयभूभागेषु च अपि प्राप्तुं शक्यते । हिमालयीयप्रदेशेषु भूस्खलनेन, हिमपातेन च प्रायः मार्गाः अवरुध्यन्ते । तस्यां स्थितौ किञ्चित् स्थानं प्राप्तुं वायुयात्रा एव एकमात्रः विकल्पः वर्तते । वायुमार्गाणां सामयिकमहत्वमपि दृश्यते ।[४४]
वायुयानानां निर्माणाय, तेषां कार्यप्रणाल्यै च सौकर्यानाम् आवश्यकता वर्तते । वायुपत्तनानां निर्माणे अपि बहुव्ययः भवति ।
साम्प्रते काले विश्वस्मिन् किमपि स्थानं ३५ होरा इत्यस्मात् अधिकदूरं नास्ति । विश्वस्य अनेकेषु भागेषु नित्यवायुसेवाः उपलब्धाः सन्ति ।
अन्तर्महाद्वीपीयवायुमार्गः
सम्पादयतुउत्तरगोलार्द्धे अन्तर्महाद्वीपीयवायुमार्गाणां पूर्व-पश्चिमपट्टिका अस्ति । पौर्वात्य संयुक्तराज्य-अमेरिका, पश्चिम-यूरोप्, दक्षिण-पूर्व एशिया च इत्यादिषु महाद्वीपेषु वायुमार्गाः व्यस्ताः सन्ति । विश्वस्य वायुमार्गाणां ६०% भागस्य प्रयोगं संयुक्तराज्य-अमेरिका एव करोति ।
आफ्रीका, रूस्-देशस्य एशियाई भाग, दक्षिण-अमेरिका इत्यादिषु महाद्वीपेषु वायुपरिवहनस्य अभावः वर्तते । दक्षिणगोलार्द्धे १०-३५ अक्षांशानां मध्ये अधिकजनसङ्ख्या, सीमितस्थलखण्ड, आर्थिकविकासः च इत्येतैः कारणैः अल्पमात्रायां वायुसेवाः उपलब्धाः सन्ति ।[४५]
नलिकारेखा (Pipeline)
सम्पादयतुजलस्य, पेट्रोलियम् , प्राकृतिकवायूनाम् इत्यादीनां पदार्थानाम् अबाधितप्रवाहाय, परिवहनाय च नलिकारेखाणां व्यापकरूपः प्रयुज्यते । नलिकारेखाभिः जनेभ्यः जलस्य आवश्यकतापूर्तिः भवति इति सर्वे जानन्ति । विश्वस्य नैकेषु भागेषु भोजनालयीयवायोः (L.P.G.) इत्यस्य पूर्तिः नलिकारेखाभिः क्रियते । द्रविताङ्गाराणां परिवहनाय अपि नलिकारेखानाम् उपयोगः क्रियते । न्यूजीलैण्ड्-देशे अपि दुग्धं यन्त्रागारपर्यन्तं नलिकारेखाभिः प्रेषयते ।[४६]
संयुक्तराज्य-अमेरिका-देशे उत्पादकक्षेत्रस्य, उपभोगक्षेत्रस्य च मध्ये विस्तृताः तैलनलिकारेखाः प्राप्यन्ते । ’बिग् इन्च्’ नामिका एका प्रसिद्धा नलिकारेखा वर्तते । अनया नलिकारेखया मैक्सिको इत्यस्य गर्ते तैलकूपतः उत्तरपूर्विराज्येषु तैलस्य यातायातं क्रियते । द्रवपदार्थानां, वायूनां च अबाधितरूपेण प्रवाहाय नलिकारेखाः मुख्यत्वेन प्रयुज्यन्ते ।[४७]
यूरोप्, रूस्, पश्चिम् एशिया, भारत-देशः इत्येतेषु च तैलकूपान् तैलपरिष्करणशालाभिः, पत्तनैः च सह योजयितुं नलिकारेखाः उपयुज्यन्ते । मध्य एशिया इत्यस्मिन् महाद्वीपे तुर्कमेनिस्तान् इत्यतः ईरान् ,चीन् पर्यन्तं नलिकारेखाणां वृद्धिः जायमाना अस्ति ।[४८]
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये परिवहनम् सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भः
सम्पादयतु- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 65. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 65. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 66. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 66. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 67. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 68. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 69. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 70. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 71. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 72. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 73. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 74. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 75. ISBN 8174506748.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 76. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 77. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 78. ISBN 8174506748.

- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). मानव भूगोल के मूल सिद्धान्त. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 79. ISBN 8174506748.