सम्भवनाथः( /ˈsəmbhəvənɑːθəhə/) (हिन्दी: सम्भवनाथ,आङ्ग्ल: Sambhavanatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु तृतीयः तीर्थङ्करः वर्तते । भगवतः सम्भवनाथस्य चिह्नम् अश्वः अस्ति ।

सम्भवनाथः
तृतीयः जैनतीर्थङ्करः
Lord Sumatinath and Laord Sambhavnath at Ranthambore.jpg
सम्भवनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता राजा जितारिः
माता सेनादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म श्रावस्ती
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः स्वर्णः
चिह्नम् अश्वः
औन्नत्यम् ४०० धनुर्मात्रात्मकम् (१२०० मीटर्)
आयुः ६०,००,००० पूर्व
शासकदेवः
यक्षः त्रिमुखः
यक्षिणी दुरितारि
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

जन्म, परिवारश्चसम्पाद्यताम्

भरतक्षेत्रस्य सावत्थीनगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ रात्रौ भगवतः सम्भवनाथस्य जन्म अभवत् । तस्य पिता राजा जितारिः, माता सेनादेवी च आसीत् ।

एकस्यां रात्रौ सेनादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । तस्मिन् समये एव राज्ञ्या राजा जितारिः उत्थापितः । राज्ञी सर्वान् स्वप्नान् राजानं श्रावितवती । तदैव राजा अजानत् यत् – “समयान्तरे कश्चन तीर्थङ्करः भविष्यति” इति |

आगामिदिने स्वप्नशास्त्रिणां साहाय्येन सर्वेषां स्वप्नानां निष्कर्षः प्राप्तः । स्वप्नशास्त्रिभिः उक्तं यत् – “सेनादेव्याः कुक्ष्याः पुत्ररत्नं समुद्भविष्यति । सः जनानाम् उद्धारं करिष्यति” । स्वप्नशास्त्रिणां वचांसि श्रुत्वा राज्यजनाः प्रफुल्लिताः अभवन् ।

भगवतः जन्मानन्तरं चतुष्षष्टिः इन्द्राः समुपस्थिताः । इन्द्रैः जन्मोत्सवः आचरितः । राज्ये एकादशदिवसात्मकः उत्सवः जातः ।

पूर्वजन्मसम्पाद्यताम्

एकस्मिन् जन्मनि कोऽपि महापुरुषः भवितुं न शक्नोति । बहूनां जन्मनां साधनया महापुरुषपदं प्राप्यते । भगवतः सम्भवनाथेन अपि अनेकेषु जन्मसु साधना कृता आसीत् । साधनया मानवीयगुणानां विकासः अभवत् । तत्परिणामेन सः तीर्थङ्करपदं प्रापत् ।

पूर्वजन्मनि सम्भवनाथः घातकीखण्डनामकस्य द्वीपस्य ऐरावतक्षेत्रे क्षेमपुरीनगर्याः विपुलवाहननामकः राजा आसीत् [१]। तस्य राज्ये भयङ्करदुष्कालस्य स्थितिः समुद्भूता । तदा राज्ञा स्वस्य अन्नभाण्डाराणि सर्वेभ्यः उद्घाटितानि । भाण्डारेभ्यः कोऽपि जनः अन्नं स्वीकर्तुं शक्नोति स्म ।

राज्ञा आदिष्टं यत् – “राज्यस्य कोऽपि जनः बुभुक्षितः मा स्यात्” इति । राज्ञा अन्यस्मात् राज्यात् खाद्यानि आनीतानि । राज्ये यानि विकासकार्याणि प्रचलन्ति आसन्, तेषां कार्याणां गतिविधिः अपि परीक्षिता । राज्ञः एतादृशेन व्यवहारेण प्रजाजनानां मनसि सन्तोषः समुद्भूतः ।

दुष्कालकारणात् बहवः साधवः अन्यानि जनपदानि गतवन्तः आसन् । किन्तु केचित् मुनयः राज्ये एव निवसन्तः आसन् । ते मुनयः कदाचित् शुद्धाहारं प्राप्नुवन्ति स्म, कदाचित् न प्राप्नुवन्ति स्म । अयं सन्देशः राज्ञा प्राप्तः । तदा राजा स्वयमेव मुनीनां समीपे गत्वा भोजनाय निमन्त्रणं प्रदत्तवान् ।

मुनयः राजप्रासादात् यथावश्यकं भोजनं खाद्यं वा सम्प्राप्तवन्तः । समयान्तरे वृष्टिः जाता । तया वृष्ट्या अन्नं समभवत् । तेन कारणेन राज्यस्थितिः पूर्ववत् अभवत् ।

एकदा सम्भवनाथः आकाशे पश्यन् आसीत्, तदा तेन मेघानां स्थितिः दृष्टा । मेघाः वायोः बलेन परस्परं सम्मिलन्ति, अपयान्ति च । इदं दृश्यं दृष्ट्वा सः स्वस्य परिवारस्य मेघवत् स्वरूपं चिन्तितवान् । अनेन कारणेन सः भौतिकजीवनात् व्यरमत् । ततः परं सः स्वयंप्रभाचार्यात् दीक्षां प्राप्तवान् । अनन्तरं सः अध्यात्मे लीनः जातः । अन्ते सः समाधिपूर्वकम् आराधकपदं प्राप्य नवमं देवलोकं गतः । “तिलोयपन्नति” इत्यादिषु ग्रन्थेषु अपि अस्य उल्लेखः प्राप्यते ।

नामकरणम्सम्पाद्यताम्

पुत्रस्य नामकरणोत्सवे सर्वे कौटुम्बिकाः समुपस्थिताः आसन् । इतः परं राज्यस्य प्रतिष्ठिताः नगरजनाः अपि समुपस्थिताः । उपस्थितैः सर्वैः जनैः बालकाय आशीर्वादाः प्रदत्ताः ।

नामविषयिक्यां चर्चायां राजा जितारिः उवाच यत् – “अस्मिन् वर्षे राज्यस्य अर्थागमः सर्वाधिकः वर्तते । अस्मिन् वर्षे सस्यानि अपि राज्यस्येतिहासे सर्वाधिकानि जातानि । मन्ये यत् – अनेन बालकेन एव एतत्सर्वं सम्भवम् अभवत् । अतः अस्य नाम सम्भवनाथः इति योग्यम्” इति । नामचयने सर्वेषां सम्मतिः आसीत् । तदा बालकस्य सम्भवनाथः इति नामकरणम् अभवत् [२]

मुनि श्रीजयानन्द विजय इत्याख्येन विरचिते पुस्तके भिन्नमतं प्राप्यते यत् – “यदा भगवान् गर्भे आसीत्, तदा राज्ये शिम्बाः (मुद्गाः, बीजगुप्तिका, नुद्गाः च ) अधिकमात्रायां समुद्भूताः आसन् । अतः सम्भनाथः इति नाम कृतम् [३]

विवाहःसम्पाद्यताम्

यदा सम्भवनाथेन यौवनत्वं सम्प्राप्तं, तदा राजा जितारिः सुयोग्यकन्याभिः सह तस्य विवाहम् अकारयत् । अनन्तरं जितारिणा तस्मै राज्यस्य दायित्वमदीयत । अनन्तरं जितारिणा शासनात् निवृत्तिः सम्प्राप्ता ।

राज्यम्सम्पाद्यताम्

युवावस्थायां राजशासने प्राप्ते सत्यपि भगवान् अजितनाथः अनासक्तः आसन् । सः केवलं कर्त्तव्यभावनया एव राज्यस्य सञ्चालनं करोति स्म । तस्य शासनकाले राज्ये सर्वत्र शान्तिः आसीत् । कस्यापि वस्तुनः अभावः नासीत् । प्रजाः अपि सुखेन जीवनं यापयन्ति स्म । चतुर्दिक्षु समृद्धिः दृश्यमाना आसीत् । सम्भवनाथः ४४ लक्षं वर्षाणि पूर्वं यावत् शासनं कृतवान् आसीत् [४]

राजत्यागः, दीक्षा चसम्पाद्यताम्

सम्भवनाथेन स्वपुत्राय सम्पूर्णराज्यस्य दायित्वम् अदीयत । अनन्तरं सः वार्षिकीदानाय तत्परः अभवत् । भगवतः अभिनिष्क्रमणस्य सन्देशं प्राप्य बहवः राजानः, राजकुमाराः च विरक्ताः अभवन् । ते अपि गृहं त्यक्तुं सज्जाः अभवन् ।

भोगावलिकर्मणां समाप्त्यनन्तरं भगवता वार्षिकीदानस्य आरम्भः कृतः । सम्पूर्णराज्यस्य जनाः दानं स्वीकर्तुं गच्छन्ति स्म । एकवर्षं यावत् भगवान् सम्भवनाथः दानं कृतवान् आसीत् ।

मार्गशीर्ष-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ एकसहस्रराजभिः, राजकुमारैः च सह सम्भवनाथः सहस्राम्रनामकं वनम् अगच्छत्[५] । तस्मै चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिः अभवत् । प्रत्येकस्मै तीर्थङ्कराय दीक्षया सह चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिर्भवति एव । इदं ज्ञानमुपयुज्य सर्वेषां जीवानां मनोभावाः ज्ञातुं शक्यन्ते ।

दीक्षायाः दिने भगवतः चौविहारषष्ट्याः तपः प्रचलत् आसीत् । भगवान् सम्भवनाथः चतुर्दशवर्षाणि यावत् मुनेः अवस्थायाम् एव भ्रमन् आसीत् । तेन सर्वाणि इन्द्रियाणि जितानि । भ्रामं भ्रामं सः अन्ते पुनः सावत्थीनगरीं सम्प्राप्तवान् ।

सावत्थीनगर्यामेव तेन छद्मस्थकालस्य अन्तिमं चातुर्मास्यं कृतम् । आश्विन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ सम्भवनाथेन केवलज्ञानं प्राप्तम्[६]

इन्द्रादयः देवाः अपि तत्र समुपस्थिताः । सर्वैः देवैः केवलमहोत्सवः आचरितः । यदा जनैः भगवतः सर्वज्ञतायाः सन्देशः प्राप्तः, तदा सर्वे जनाः भगवतः दर्शनार्थम् उद्यानम् आगतवन्तः । भगवान् सम्भवनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविका च) स्थापनाञ्चकार [७]

धार्मिकः परिवारःसम्पाद्यताम्

यदा भगवान् चतुर्विधसङ्घस्य स्थापनां कृतवान्, तदा तेन तस्य धार्मिकपरिवारः अपि सर्जितः [८]

  1. १०२ गणधराः
  2. १५,००० केवलज्ञानिनः
  3. १२,१५० मनःपर्यवज्ञानिनः
  4. ९,६०० अवधिज्ञानिनः
  5. १९,८०० अवैक्रियलब्धिधारिणः
  6. २,१५० चतुर्दशपूर्विणः
  7. १२,००० चर्चावादिनः
  8. २,००,००० साधवः
  9. ३,३६,००० साध्व्यः
  10. २,९३,००० श्रावकाः
  11. ६,३६,००० श्राविका

निर्वाणम्सम्पाद्यताम्

भगवान् सम्भवनाथः आर्यजनपदि दीर्घकालं यावत् विचरणं कृतवान् । तस्मिन् अन्तराले भगवता लक्षाधिकानां जनानाम् उद्धारः कृतः । यदा स्वस्य महाप्रयाणस्य ज्ञानम् अभवत्, तदा सम्भवनाथेन सहस्रसाधुभिः सह सम्मेदशिखरे जलान्नत्यागः कृतः । शुक्लध्यानस्य चतुर्थचरणं सम्प्राप्य तेन क्रियामात्रस्य त्यागो विहितः । अन्ते सः सिद्धत्वं प्रापत् ।

चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भगवतः सम्भवनाथस्य निर्वाणम् अभवत्[९]

जैनतीर्थङ्कराः
  पूर्वतनः
अजितनाथः
सम्भवनाथः अग्रिमः
अभिनन्दननाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 55
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 57
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53
  4. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 47
  6. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58
  7. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 54
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=सम्भवनाथः&oldid=321860" इत्यस्माद् प्रतिप्राप्तम्