प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अजितनाथः( /ˈəɪtənɑːθəhə/) (हिन्दी: अजितनाथ,आङ्ग्ल: Ajitnatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु द्वितीयः तीर्थङ्करः अस्ति[१] । तस्य चिह्नं गजः अस्ति ।

अजितनाथः
द्वितीयः जैनतीर्थङ्करः
अजितनाथ.jpg
अजितनाथस्य प्रतिमा
विवरणम्
ऐतिहासिककालः ५ × १०२२३ वर्षाणि पूर्वम्
परिवारः
पिता राजा जितशत्रुः
माता विजयादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म अयोध्या
निर्वाणम् सम्मेदशिखरम्
लक्षणम्
वर्णः स्वर्णः
चिह्नम् गजः
औन्नत्यम् ४५० धनुर्मात्रात्मकम् (१३५० मीटर्)
आयुः ७२,००,००० पूर्व (५०८.०३२ × १०१८ वर्ष)
शासकदेवः
यक्षः महायक्षः
यक्षिणी अजितबाला
जैनधर्मः
In-jain.svg
जैनध्वजः
Jain Prateek Chihna.svg
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

जन्म, परिवारश्चसम्पाद्यताम्

अयोध्यानगर्यां माघ-मासस्य शुक्लपक्षस्य अष्टम्यां तिथौ मध्यरात्रौ मङगलवेलायां भगवतः अजितनाथस्य जन्म अभवत् [२]। तस्मिन् दिने रोहिणीनक्षत्रमासीत् । शिशोः पादे गजस्य चिह्नम् आसीत् । एवं च यौवने तस्य शरीरस्य औन्नत्यं पञ्चाशताधिकं चतुश्शतं (४५०) धनूंषि च आसन् । तस्य पिता जितशत्रुः, माता विजयादेवी च आसीत् ।

एकस्मिन् दिवसे विजयादेव्या रात्रौ चतुर्दश महास्वप्नाः दृष्टाः आसन् । जितशत्रोः भ्रातुः सुमित्रस्य वैजयन्तीनामिकया पत्न्या अपि ते चतुर्दश महास्वप्नाः एव दृष्टाः । तस्मिन् दिने एव द्वे स्त्रियौ गर्भधारणं कृतवत्यौ । आगामिदिने स्वप्नशास्त्रिणां साहाय्येन स्वप्नानां निष्कर्षः कृतः । स्वप्नशास्त्रिभिः उक्तं यत् – “अस्मिन् कुले एकस्य तीर्थङ्करस्य, एकस्य चक्रवर्तिनः राज्ञः च जन्म भविष्यति” इति ।

यदा भगवतः जन्म अभवत्, तदा चतुःषष्टिः इन्द्राः तत्र उपस्थिताः आसन् । राज्ञा जन्मोत्सवः आचरितः । तस्मिन् प्रसङ्गे कारागारात् सर्वेभ्यः बन्दीभ्यः मुक्तिः प्रदत्ता । प्रतिगृहम् आनन्दस्य वातावरणम् आसीत् । एकादश दिनानि यावत् उत्सवः आचरितः आसीत् [३]

पूर्वजन्मसम्पाद्यताम्

भगवान् अजितनाथः अपि स्वस्य पूर्वजन्मनि महत्तपस्यां चकार । जम्बूद्वीपस्य महाविदेहक्षेत्रस्य सीतानद्याः तटे वत्सनामके देशे सुसीमा-नामिका नगरी आसीत् । तस्याः नगर्याः राजा विमलवाहनः आसीत् । सः एव अजितनाथस्य पूर्वजन्म आसीत् ।

राज्ये भोगाय बहूनि साधनानि आसन् । तथापि विमलवाहनस्य जीवनं वासनारहितमासीत् । आचार्येण अरिदमनेन सह विमलवाहनस्य मेलनम् अभवत् । तदनन्तरं विमलवाहनः साधनायां लीनः जातः । तेन सः पुत्राणां राज्याभिषेकं कृत्वा स्वस्य गुरुणा अरिदमनेन सह तपस्यां कर्तुं गतवान् [४]

विमलवाहनेन गुरोः दीक्षा प्राप्ता । दीक्षानन्तरं विमलवाहनः तपस्यायां दतचित्तः अभूत् । तेन एकावली, रत्नावली, लघुसिंह, महासिंह, विक्रीडित इत्याद्याः कठोरतपस्याः कृताः । अन्ते अन्नमपि त्यक्त्वा स्वस्व प्राणत्यागः कृतः । अनन्तरं सः विजयनामकेन विमानेन स्वर्गलोकं गतः ।

नामकरणम्सम्पाद्यताम्

नामकरणदिवसे पारिवारिकजनानां भोजनप्रसङ्गस्य आयोजनं कृतम् आसीत् । पुत्रस्य किं नाम भवेत् इति विषये अपि चर्चा जाता । तदा विजयादेव्या उक्तं यत् – “विवाहानन्तरं यदा यदा राज्ञा सह द्यूतक्रीडाः अभवन्, तदा तदा अहं पराजिता अभवम् । अतः मम एका इच्छा आसीत् यत् अहम् अपि एकवारं विजयिनी भवेयम् । यतः अयं पुत्रः मम कुक्षौ आगतः, तस्मात्कालात् अद्यावधिः एकं वारम् अपि अहं पराजिता न अभवम् । सर्वदा अजेया एव आसम्” ।

राज्ञा जितशत्रुणा उक्तं यत् – “समीपस्थेभ्यः राज्येभ्यः अपि शुभसमाचाराः प्राप्ताः । जितशत्रुः अजेयः अस्ति इति शासकाः वदन्ति । तेन कारणेन मे मतानुसारम् अस्य बालकस्य नाम अजितनाथः करणीयम् [५]। तावदेव अजितनाथः इति नाम प्रसिद्धम् अस्ति । अनुजस्य सुमित्रस्य पुत्रस्य नाम सगरः इति कृतम् ।

विवाहःसम्पाद्यताम्

भगवान् अजितनाथः विवाहं कर्तुं नेच्छति स्म । किन्तु तस्मिन् काले जीवनक्रमे भोगस्य क्रमः अपि आसीत् । इन्द्रेण अपि अजितनाथः विवाहं कर्तुं प्रार्थितः । अतः अन्ते भोगक्रमानुसारम् अजितनाथेन विवाहः कृतः, वैवाहिकं जीवनं स्वीकृतं च ।

राज्यम्सम्पाद्यताम्

एकदा जितशत्रुणा विचारितं यत् – “पुत्राः वयस्काः अभवन् । ते शासितुं योग्याः सन्ति । तथापि अहं शासनं कुर्वन् अस्मि । अतः शीघ्रातिशीघ्रं राज्यं त्यक्त्वा मया साधना करणीया” । इत्थं विचार्य सः राज्यस्य दायित्वं स्वस्यै अनुजभ्रात्रे सुमित्राय दातुम् ऐच्छत् । किन्तु सुमित्रः शासितुं नेच्छति स्म । सः अपि जितशत्रुणा सह साधनां कर्तुम् इच्छति स्म[६]

अनन्तरं जितशत्रुणा तस्य पुत्रस्य अजितनाथस्य राज्याभिषेकः कृतः । अजितनाथस्य राज्यसञ्चालनेन प्रजाः सुखं जीवन्ति स्म । राज्ये कस्यापि वस्तुनः अभावः नासीत् । जनानां मनसि अजितनाथाय स्नेहः आसीत् ।

अजितनाथः सुखेन शासनं कुर्वन् आसीत् । यथा कश्चन श्रेष्ठः सारथिः रथं श्रेष्ठतया चालयति, तथैव सः अपि श्रेष्ठतया राजशासनं चालयति स्म । सः शासने दक्षः, शक्तिशाली च आसीत् । अतः प्रजाः सम्पूर्णतया सहयोगं प्रददति स्म । तस्य शासने पशून् विहाय कोऽपि वृतः नासीत्[७]

अजितनाथस्य सकलैश्वर्यम् आसीत् । तथापि किञ्चिदपि अभिमानः नासीत् । शासने भगवतः अजितनाथस्य त्रिपञ्चाशत् पूर्व समयः व्यतीतः जातः ।

अभिनिष्क्रमणम्सम्पाद्यताम्

एकदा भगवान् एकाकी उपविशन् आसीत् । तदा तस्य मनसि विचाराः प्रस्फुटिताः अभवन् । विचारेषु वैराग्यस्य अपि भावना उद्भूता [८]। तस्मिन् समये एव तस्य सम्पूर्णं शरीरं वैराग्ये लीनम् अभवत् ।

एकसप्ततिलक्षं वर्षाणि यावत् सः गृहे निवसति स्म । अनन्तरं तस्य अन्तर्मनः साधनायै उद्यतम् आसीत् । अतः इन्द्रादयः देवाः आगत्य रीतेः अनुसारम् अजितनाथाय प्रतिबोधं प्रादुः । यद्यपि तीर्थङ्करः स्वयमेव बुद्धः भवति , किन्तु लोकान्तिकदेवाः दीक्षायाः एकवर्षपूर्वं प्रतिबोधं ददति । ततः परमेव तीर्थङ्करः अभिनिष्क्रमणाय सज्जः भवति[९]

राजत्यागःसम्पाद्यताम्

अजितनाथेन स्वस्य पितृव्यस्य पुत्राय सगराय सम्पूर्णराज्यसञ्चालनस्य दायित्वं प्रदत्तम् आसीत् । तत्पश्चात् सः वार्षिकीदानस्य आरम्भं कृतवान् । वार्षिकीदानस्य व्यवस्थां देवाः एव कुर्वन्ति स्म । अजितनाथेन अस्मिन् विधौ जनेभ्यः महद्दानं कृतम् आसीत् । कोऽपि जनः दानं स्वीकर्तुं शक्नोति स्म ।

इन्द्रस्य आज्ञया तिर्यकभृञ्जकसञ्ज्ञकैः देवैः समग्रदेशात् स्वामिहीनानि, भूमौ अन्तस्स्थानि, पर्वतानां गुहासु स्थितानि च वस्तूनि, धनानि च नगरस्य मध्यस्थले क्रोडीकृतानि । वस्तूनि, धनानि च क्रोडीकृत्य नगरे सन्देशं प्रेषितः यत् – “यः कोऽपि यावत् धनं, वस्तु वा इच्छति, सः आगत्य तावत् स्वीकर्तुं शक्नोति” ।

भगवान् अजितनाथः सूर्योदयतः भोजनस्य समयं यावत् दानं यच्छति स्म । जनाः अपि आवश्यकतानुसारम् एव धनं स्वीकुर्वन्ति स्म । जनाः अपि अनावश्यकं वस्तु, धनं वा न स्वीकुर्वन्ति स्म । भगवान् प्रतिदिनम् अष्टलक्षाधिकैककोटिस्वर्णमुद्राणां (१,०८,००,०००) दानं करोति स्म ।

अजितनाथेन एकवर्षं यावत् दानं कृतम् आसीत् । तेन एकस्मिन् वर्षे अशीतिलक्षोत्तराष्टाशीतिकोट्युत्तरत्र्यर्बुदं (३,८८,८०,००,०००) स्वर्णमुद्राणां दानं कृतम् आसीत् ।

दीक्षासम्पाद्यताम्

वार्षिकीदानानन्तरं दीक्षा स्वीकर्त्तव्या भवति । अतः वार्षिकीदानानन्तरं यदा भगवान् अजितनाथः दीक्षां प्राप्तुं तत्परः अभवत्, तदा राज्ञा सगरेण भगवतः दीक्षामहोत्सवः आचरितः । महोत्सवे चतुष्षष्टिः इन्द्राः अपि उपस्थिताः । सर्वे जनाः, देवाः च भगवता अजितनाथेन सह सहस्राम्रवनं नामकम् उद्यानं गतवन्तः । तत्र स्ववस्त्राभूषणानि त्यक्त्वा भगवान् अजितनाथः इन्द्रेण प्रदत्तम् अदूषितं वस्त्रं धृतवान् । माघ-मासस्य शुक्लपक्षस्य नवम्यां तिथौ रोहिणी-नक्षत्रे अजितनाथः जनानां समक्षं दीक्षां गृहीतवान् ।

दीक्षानन्तरं भगवता द्वादशवर्षाणि यावत् कठोरतपस्या, उत्कृष्टतमा साधना च कृता । सः प्रतिग्रामं भ्रमन् आसीत् । तत्पश्चात् सः पुनः अयोध्यानगरीं समागतः । पौष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ भगवान् ध्यानावस्थां प्रापत् । तत्र भगवता तीर्थस्य स्थापना कृता । किञ्चित्समयानन्तरम् एव बहवः जनाः अपि साधवः, साध्व्यः, श्रावकाः, श्राविकाः च अभवन् ।

धार्मिकः परिवारःसम्पाद्यताम्

  1. ९५ गणधराः
  2. २२,००० केवलज्ञानिनः
  3. १२,५०० मनः पर्यवज्ञानिनः
  4. ९,४०० अवधिज्ञानिनः
  5. २०,४०० वैक्रियलब्धिधारिणः
  6. ३,७२० चतुर्दशपूर्विणः
  7. १२,४०० चर्चावादिनः
  8. १,००,००० साधवः
  9. ३,३०,००० साध्व्यः
  10. २,९८,००० श्रावका
  11. ५,४५,००० श्राविकाः

अयं भगवतः अजितनाथस्य धार्मिकपरिवारः वर्तते ।

निर्वाणम्सम्पाद्यताम्

बहुवर्षाणि यावत् भगवता तपस्या कृता । अनन्तरं यदा तेन स्वस्य निर्वाणस्य ज्ञानम् अभवत्, तदा सः बहुभिः साधुभिः सह सम्मेदपर्वतं प्रापत् । तत्र तेन एकमासं यावत् जलान्नं त्यक्त्वा तपस्या कृता । चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ मृगशीर्षनक्षत्रे भगवतः निर्वाणम् अभवत् [१०]। अन्ते सः सिद्धत्वं प्रापत् । अनेन भगवन्तं मोक्षस्य प्राप्तिः अभवत् ।

जैनतीर्थङ्कराः
  पूर्वतनः
ऋषभदेवः
अजितनाथः अग्रिमः
सम्भवनाथः
 

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्

  1. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 48
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 49
  3. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 49
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 48
  5. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 50
  6. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 42
  7. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 42
  8. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 43
  9. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 50
  10. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 88

अधिकवाचनायसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=अजितनाथः&oldid=317564" इत्यस्माद् पुनः प्राप्तिः