रामनगरमण्डलम्

(रामनगर इत्यस्मात् पुनर्निर्दिष्टम्)

रामनगरमण्डलं (Ramanagara) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् बेङ्गलूरुग्रामान्तरमण्डलस्य एव भागः आसीत् । क्रि.श.२००७ तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।

रामनगरमण्डलम् district

ರಾಮನಗರ ಜಿಲ್ಲೆ
Location of रामनगरमण्डलम् district in कर्णाटकराज्यम्
Location of रामनगरमण्डलम् district in कर्णाटकराज्यम्
Country India
State कर्णाटकराज्यम्
Administrative division बेङ्गलूरूविभागः
Headquarters रामनगरम्
Area
 • Total ३,५५६ km
Population
 (2001)
 • Total १०,३०,५४६
 • Density २९०/km
रामनगरमण्डलम्

विस्तीर्णता सम्पादयतु

५३५५६च.कि.मी |

नद्यः सम्पादयतु

अर्कावती, कण्व

उपमण्डलानि -४ सम्पादयतु

चन्नपट्टणं, रमनगरं, मागडि, कनकपुरं चेति चत्वारि उपमण्डलानि भवन्ति ।

दर्शानीयानि स्थानानि सम्पादयतु

अत्र जानपदलोकः, केङ्गल् मन्दिरम्, दोड्डमलूरु, रामनगरलघुविधानसौधः च सन्ति ।

क्षेत्राणि सम्पादयतु

रामनगरम्, सावनदुर्गम्, चन्नपट्टणम्, सातनूरु अळूरु, कनकपुर, मागडि ।

१ रामनगरम् सम्पादयतु

रामनगरे आञ्जनेयः, चामुण्डेश्वरी, लक्ष्मीनारायणः बसवेश्वरदेवालयः च सन्ति । अर्कावतीनदीतीरे अर्केश्वरदेवालयः विजय नगरशैल्या निर्मितः । समीपे रामगिरिप्रदेशे सुग्रीव स्थापितरामेश्वरमन्दिरम् अस्ति । श्रीरामः काकासुरम् अत्र मारितवान् इति इतिहासः ।

२ चेन्नपट्टणम् सम्पादयतु

अस्मिन् नगरे कण्वनदीतीरे कोटेआञ्जनेय-वरदराजस्वामी-नीलकण्ठेश्वरदेवालयाः सन्ति । वरदराजस्वामिनं श्री रामानुजाचार्याः स्थापितवन्तः । कनकपुरनगरे व्यासरायस्वामिभिः स्थापितम् आञ्जनेयदेवस्थानमास्ति । विग्रहे हनुमभीममध्वावताराः क्रमशः निरुपिताः सन्ति । काष्ठनिर्मितानि क्रीडनकानि अत्रत्यानि वैशिष्ट्यानि । क्रीडनकानां कृते उपयुज्ज्यमानः वर्णः सावयवतन्त्रैः निर्मितः परिसरस्नेही इति तु वैशिष्ट्यम् ।

३ सावनदुर्गम् सम्पादयतु

अत्र एकशिलापर्वतः दश कि.मी परिधियुक्तः ४०२४ पादपरिमितोन्नतः अस्ति । पर्वतस्य मूले एका गुहा अस्ति अत्र श्रीलक्ष्मीनरसिंहः अस्ति । शिलायाः उद्भवः जातः इति दृश्यते । नरसिंहक्षेत्रगमनमार्गे गुण्डु आञ्जनेय देवालयः अस्ति । एषः ग्रामरक्षकः इति प्रसिद्धः ।

मार्गः सम्पादयतु

  • बेङ्गलूरुतः ६२.कि.मी ।
  • मागडितः ३० कि.मी ।
  • रामनगरतः २५ कि.मी ।
 
रामदेवरबेट्टस्य मनोहरदृष्यम्

प्रसिद्धाः व्यक्तयः सम्पादयतु

विधानसौधस्य निर्माता केङ्गल् हनूमन्तय्यः, कर्णाटकीयः सर्वप्रथमः प्रधानमन्त्री एच्.डि.देवेगौडा, कर्णाटकस्य भूतपूर्वमुख्यमन्त्री एच्.डि.कुमारस्वामी च अस्य रामनगरमण्डलस्य एव प्रजाः ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रामनगरमण्डलम्&oldid=365367" इत्यस्माद् प्रतिप्राप्तम्