रामपाणिवादः
रामपाणिवादः (Ramapanivada) केरलीयः महाकविः आसीत् । तस्य जन्म माकिं क्रि. श. १७०७ तमे संवत्सरे आभवत् । महोदयस्यास्य कृतयः संस्कृतम्, प्राकृतम्, मलयालम् इत्येताभिः त्रिसृभिः भाषाभिः विरचिताः सन्ति । प्रथमतया संस्कृतेन चत्वारि रूपकाणि अनेन लिखितानि ।
रामपाणिवादः | |
---|---|
रामपाणिवादः पुस्थकम्। रामपाणिवादः पुस्थकम्। |
कवि रामपाणिवादः | |
---|---|
रामपाणिवादः विरचित पुस्थकम्। रामपाणिवादः विरचित पुस्थकम्। |
केरलः | |
---|---|
रामपाणिवादस्य स्थलः रामपाणिवादस्य स्थलः |
पालियम् नालुकेट्टु | |
---|---|
रामपाणिवादस्य आस्थानिका रामकुबेरस्य ग्रुहम् रामपाणिवादस्य आस्थानिका रामकुबेरस्य ग्रुहम् |
१. चन्द्रिका नाम वीथी २. लीलावती नाम वीथी ३.मदनकेतुचरितम् नाम प्रहसनम् ४. सीताराघवं नाम नाटकं च । एतानि काव्यान्यपि अनेन लिखितानि - १. विष्णुविलासकाव्यम् २. राघवीयम् ३. भागवतचम्पू ४. मुकुन्दशतकम् ५. शिवशतकम् ६. पञ्चपदी अथवा शिवागीतिः ७. अम्बरनदीशस्तवः ८. सूर्यशतकम् ९. अक्षरमालास्तोत्रम् १०. उत्तररामचरितकाव्यम् च।
अन्यासु साहित्यशाखास्वपि बहवः ग्रन्थाः अनेन विरचिताः दृश्यन्ते - १. रासक्रीडा २. तालप्रस्तरः ३. शारिकासन्देशः ४. आख्यायिकापद्धतिः ५. श्रीकृष्णविलासस्य विलासिनी नाम व्याख्या ६. मेल्पुत्तूर् नारायणभट्टपादस्य धातुकाव्यस्य विवरणं नाम व्याख्यानम् ७. स्वस्य विष्णुविलासकाव्यस्य विष्णुप्रिया
नाम व्याख्यानं च
सम्पादयतुपालियम् नालुकेट्टु | |
---|---|
रामकुबेरस्य ग्रुहम् |
रामपाणिवादः |
---|
प्राकृतभाषया अनेन त्रयः ग्रन्थाः रचिताः १. प्राकृतवृत्तिः २. उषानिरुद्धम् ३. कंसवहो च । अनेन विरचितेषु काव्यरूपकादिष्वपि बहवः श्लोकाः प्राकृतभाषया एव विरचिताः ।
रामपाणिवादः एवं केरलीयकविः कुञ्चन् नम्प्यार् च एक एव इति केचन पण्डिताः वदन्ति । एवं चेत् मलयालभाषया अस्य बहवः ग्रन्थाः लभ्यन्ते । तेषां नाम अत्र दीयन्ते - १. श्रीकृष्णचरितम् मणिप्रवाळम् २. शिवपुराणम् किळिप्पाट्ट् ३. पञ्चतन्त्रम् किळिप्पाट्ट् ४. रुक्मांगदचरितम् किळिप्पाट्ट् च ।