अनन्तविजयं राजा...
भगवद्गीतायाः श्लोकः १.१६
श्लोकः
सम्पादयतु- अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
- नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षोडशः (१६) श्लोकः ।
पदच्छेदः
सम्पादयतुअनन्तविजयम्, राजा, कुन्तीपुत्रः, युधिष्ठिरः । नकुलः, सहदेवः, च, सुघोषमणिपुष्पकौ ॥
अन्वयः
सम्पादयतुहृषीकेशः पाञ्चजन्यं धनञ्जयः देवदत्तं भीमकर्मा वृकोदरः महाशङ्खं पौण्ड्रं कुन्तीपुत्रः राजा युधिष्ठिरः अनन्तविजयं नकुलः सहदेवः च सुघोषमणिपुष्पकौ दध्मौ ।
शब्दार्थः
सम्पादयतु- अनन्तविजयम् = तन्नामकम्
- राजा = महाराजः
- कुन्तीपुत्रः = कुन्तीसुतः
- युधिष्ठिरः = युधिष्ठिरः
- नकुलः = नकुलः
- सहदेवः = सहदेवः
- सुघोषमणिपुष्पकौ = तन्नामकौ
अर्थः
सम्पादयतुभगवान् श्रीकृष्णः स्वीयं पाञ्चजन्यं शङ्खम् अधमत् । अर्जुनः देवदत्तनामकं स्वीयं शङ्खम् अधमत् । भीमस्तु भयङ्कराणां कार्याणां करणे कुशलः । पौण्ड्रनामकः तस्य शङ्खोऽपि महान् एव । सः तम् अधमत् । युधिष्ठिरः अनन्तविजयनामकं शङ्खम् अधमत् । नकुलः सुघोषनामकं सहदेवः च मणिपुष्पकनामकं शङ्खम् अधमत् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in