न काङ्क्षे विजयं कृष्ण...
भगवद्गीतायाः श्लोकः १.३२
श्लोकः
सम्पादयतु- न काङ्क्षे विजयं कृष्ण ! न च राज्यं सुखानि च ।
- किं नो राज्येन गोविन्द ! किं भोगैर्जीवितेन वा ॥ ३२ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य द्वात्रिंशत्तमः (३२) श्लोकः ।
पदच्छेदः
सम्पादयतुन, काङ्क्षे, विजयम्, कृष्ण, न, च, राज्यम्, सुखानि, च । किम्,नः, राज्येन, गोविन्द, किम्, भोगैः, जीवितेन, वा ॥
अन्वयः
सम्पादयतुकृष्ण ! विजयं राज्यं सुखानि च न काङ्क्षे । गोविन्द ! राज्येन भोगैः जीवितेन वा नः किम् ?
शब्दार्थः
सम्पादयतुअर्थः
सम्पादयतुहे कृष्ण ! अहं विजयं न इच्छमि । अहं राज्यं सुखानि वा नेच्छामि । हे गोविन्द ! अस्माकं राज्येन भोगैः प्राणैः वा किं प्रयोजनम् ?
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in