आचार्याः पितरः पुत्राः...
भगवद्गीतायाः श्लोकः १.३४
श्लोकः
सम्पादयतु- आचार्याः पितरः पुत्रास्तथैव च पितामहाः ।
- मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चतुस्त्रिंशत्तमः (३४) श्लोकः ।
पदच्छेदः
सम्पादयतुआचार्याः, पितरः, पुत्राः, तथा, एव, च, पितामहाः । मातुलाः, श्वशुराः, पौत्राः, श्यालाः, सम्बन्धिनः, तथा ॥
अन्वयः
सम्पादयतुयेषाम् अर्थे राज्यं भोगाः सुखानि च नः काङ्क्षितं ते इमे आचार्याः पितरः पुत्राः तथा एव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः ।
शब्दार्थः
सम्पादयतुआचार्याः = गुरवः
- पितरः: = पितरः
- पुत्राः = पुत्राः
- तथा एव = एवम्
- च = च
- पितामहाः = पितामहाः
- मातुलाः = मातुलाः
- श्वशुराः = श्वशुराः
- पौत्राः = पौत्राः
- श्यालाः = भार्यायाः
- सम्बन्धिनः = बान्धवाः
- तथा = तथा
अर्थः
सम्पादयतुयेषां कृते राज्यं भोगाः सुखानि वा अपेक्षितानि आसन् ते एव बान्धवाः अधुना स्वप्राणान् धनानि च त्यक्तुम् उद्युक्ताः सन्तः युद्धे उपस्थिताः सन्ति । उपस्थिताश्च एते मम आचार्याः, पितरः, पुत्राः, पितामहाः, मातुलाः, श्वशुराः, पौत्राः, श्यालाः, बान्धवाश्च सन्ति ।
श्लोकवैशिष्ट्यम्
सम्पादयतुविषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु