एवमुक्त्वार्जुनः सङ्ख्ये...
भगवद्गीतायाः श्लोकः १.४७
श्लोकः
सम्पादयतु- एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
- विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तचत्वारिंशत्तमः (४७) श्लोकः ।
पदच्छेदः
सम्पादयतुएवम्, उक्त्वा, अर्जुनः, सङ्ख्ये, रथोपस्थे, उपाविशत् । विसृज्य, सशरम्, चापम्, शोकसंविग्नमानसः ॥
अन्वयः
सम्पादयतुसङ्ख्ये एवम् उक्त्वा शोकसंविग्नमानसः अर्जुनः सशरं चापं विसृज्य रथोपस्थे उपाविशत् ।
शब्दार्थः
सम्पादयतु- सङ्ख्ये = युद्धे
- एवम् = अनेन प्रकारेण
- उक्त्वा = भाषित्वा
- शोकसंविग्नमानसः = दुःखाकुलचित्तः
- अर्जुनः = धनञ्जयः
- सशरम् = सबाणम्
- चापम् = धनुः
- विसृज्य = मुक्त्वा
- रथोपस्थे = रथमध्यभागे
- उपाविशत् = उपविष्टवान् ।
अर्थः
सम्पादयतुयुद्धक्षेत्रे अर्जुनः श्रीकृष्णम् एवम् उक्त्वा धनुः बाणं च विसृज्य दुःखतप्तमानसः सन् रथे उपविष्टवान् ।
रामानुजभाष्यम्
सम्पादयतुसर्वथाहं न योत्स्यामीत्युक्त्वा बन्धुविश्लेषजनितशोकसंविग्नमानसं पार्थं सशरं चापं विसृज्य रथोपस्थ उपाविशत॥१.४७॥
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in