धर्मक्षेत्रे कुरुक्षेत्रे...

भगवद्गीतायाः श्लोकः १.१
(धर्मक्षेत्रे कुरुक्षेत्रे… इत्यस्मात् पुनर्निर्दिष्टम्)

श्लोकः सम्पादयतु

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥

अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य प्रथमः (१) श्लोकः ।

पदच्छेदः सम्पादयतु

धर्मक्षेत्रे, कुरुक्षेत्रे, समवेताः, युयुत्सवः, मामकाः, पाण्डवाः, च, एव, किम्, अकुर्वत, सञ्जय

अन्वयः सम्पादयतु

सञ्जय ! धर्मक्षेत्रे कुरुक्षेत्रे समेवेताः युयुत्सवः मामकाः पाण्डवाः च एव किम् अकुर्वत ?

शब्दार्थः सम्पादयतु

सञ्जय - हे सञ्जय !
धर्मक्षेत्रे - धर्मप्रधानक्षेत्रे,
कुरुक्षेत्रे - कुरुक्षेत्राख्ये प्रदेशे,
समवेताः - संयुक्ताः,
युयुत्सवः - योद्धुम् इच्छवः,
मामकाः - मदीयाः,
पाण्डवाः च - पाण्डुपुत्राः च,
एव - (अत्र अयं शब्दः समुच्चयार्थे विद्यते)
किम् अकुर्वत - किं कृतवन्तः ?

अर्थः सम्पादयतु

'हे सञ्जय ! मत्पुत्राः पाण्डुपुत्राश्च युद्धं कर्तुम् उत्सुकाः सन्तः धर्मक्षेत्रे कुरुक्षेत्रे सम्मिल्य किम् अकुर्वन् ?’ इति धृतराष्ट्रः सञ्जयम् अपृच्छत् ।

अभिनवगुप्तभाष्यम् सम्पादयतु

धर्मक्षेत्र इति। अत्र केचित् व्याख्याविकल्पमाहुः कुरूणां करणानां यत् क्षेत्रमनुग्राहकं अतएव सांसारिकधर्माणां (S सांसारिकत्वधर्माणां) सर्वेषां क्षेत्रम् उत्पत्तिनिमित्तत्वात्। अयं स परमो धर्मो यद्योगेनात्मदर्शनम् (या. स्मृ. I 8) इत्यस्य च धर्मस्य क्षेत्रम् समस्तधर्माणां क्षयात् अपवर्गप्राप्त्या त्राणभूतं तदधिकारिशरीरम्। सर्वक्षत्राणां क्षदेः हिंसार्थत्वात् परस्परं वध्यघातकभावेन (S परस्परवध्य ) वर्तमानानां रागवैराग्यक्रोधक्षमाप्रभृतीनां समागमो यत्र तस्मिन् स्थिता ये मामका अविद्यापुरुषोचिता अविद्यामयाः संकल्पाः पाण्डवाः शुद्धविद्यापुरुषोचिता विद्यात्मानः ते किमकुर्वत कैः खलु के जिताः इति। मामकः अविद्यापुरुषः पाण्डुः शुद्धः।

रामानुजभाष्यम् सम्पादयतु

उपोद्घातभाष्यम् सम्पादयतु

यत्पदाम्भोरुहध्यानविध्वस्ताशेषकल्मषम् ।
वस्तुतामुपयातोऽहं यामुनेयं नमामि तम् ॥

ओम् ।
श्रियं पतिर्निखिलहेयप्रत्यनीककल्याणैकतानं स्वेतरसमस्तवस्तुविलक्षणानन्तज्ञानानन्दैकस्वरूपम्, स्वाभाविकानवधिकातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजम्प्रभृत्यसंख्येयकल्याणगुणगणमहोदधिम्, स्वाभिमतानुरूपैकरूपाचिन्त्यदिव्याद्भुतनित्यनिरवद्यनिरतिशय्ज्ज्वल्यसौगन्ध्यसौन्दर्यसौकुमार्यलावण्ययौवनाद्यनन्तगुणनिधिर्दिव्यरूपम्, स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यापरिमितदिव्यभूषणम्, स्वानुरूपासंख्येयाचिन्त्यशक्तिनित्यनिरवद्यनिरतिशयकल्याणदिव्यायुधम्, स्वाभिमतानुरूपनित्यनिरवद्यस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येयकल्याणगुणगणश्रीवल्लभम्, स्वसङ्कल्पानुविधायिस्वरूपस्थितिप्रवृत्तिभेदाशेषशेषतैकरतिरूपनित्य-निरवद्यनिरतिशयज्ञानक्रियैश्वर्याद्यनन्तगुणगणापरिमितसूरिभिरनवरताभिष्टुतचरणयुगलम्, वाङ्मनसापरिच्छेद्यस्वरूपस्वभावम्, स्वोचितविविधविचित्रानन्तभोग्यभोगोपकरणभोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्तपरिमाण नित्यनिरवद्याक्षरपरमव्योमनिलयम्, विविधविचित्रानन्तभोग्यभोक्तृवर्गपरिपूर्णनिखिलजगदुदयविभवलयलीलम्, परं ब्रह्म पुरुषोत्तओ नारायणो ब्रह्मादिस्थावरान्तं निखिलं जगत्सृष्ट्वा स्वेन रूपेणावस्थितम्, ब्रह्मादिदेवमनुष्याणां ध्यानाराधनाद्यगोचरोऽपारकारुण्यसौशील्यवात्सल्यौदार्यमहोदधिम्, स्वयमेव रूपं तत्तत्सजातीयसंस्थानं स्वस्वभावमजहदेव कुर्वंस्तेषु तेषु लोकेष्ववतीर्यावतीर्य तैस्तैराराधितम्, तत्तदिष्टानुरूपं धर्मार्थकाममोक्षाख्यं फलं प्रयच्छन्, भूभारावतारणापदेशेनास्मदादीनामपि संसारदुम्खशमनाय समाश्रयणीयत्वायावतीर्योर्व्यां सकलमनुजनयनविषयतां गतम्, परावरनिखिलजनमनोनयनहारिदिव्यचेष्टितानि कुर्वन्, पूतनाशकटयमलार्जुनारिष्टप्रलम्बधेनुककालियकेशिकुवलयापीडचाणूरमुष्टिकतोसलकंसादीन्निहत्य अनवधिकदयासौहार्दानुरागगर्भावलोकनालापामृतैर्विश्वमाप्याययन्, निरतिशयसौन्दर्यसौशील्यादिगुणाविष्कारेणाक्रूरमालाकारादीन्परमभागवतान्कृत्वा, पाण्डुतनययुद्धप्रोत्साहनव्याजेन परमपुरुषार्थलक्षणमोक्षसाधनतया वेदान्तोदितं स्वविषयं ज्ञानकर्मानुगृहीतं भक्तियोगमवतारयामास । तत्र पाण्डवानां करुणां च युद्धे प्रारब्धे स भगवान्पुरुषोत्तमं सर्वेश्वरेश्वरो जगदुपकृतिमर्त्य आश्रितवात्सल्यविवशं पार्थं रथिनमात्मानं च सारथिं सर्वलोकसाक्षिकं चकार । एवमर्जुनस्योत्कर्षं ज्ञात्वापि सर्वात्मनान्धो धृतराष्ट्रं सुयोधनविजयबुभुत्सया संजयं पप्रच्छ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://www.gitasupersite.iitk.ac.in/

भगवद्गीता

भगवद्गीतायाः अध्यायाः
०१._अर्जुनविषादयोगः | ०२._साङ्ख्ययोगः | ०३._कर्मयोगः | ०४._ज्ञानकर्मसंन्यासयोगः | ०५._कर्मसंन्यासयोगः | ०६._आत्मसंयमयोगः | ०७._ज्ञानविज्ञानयोगः | ०८._अक्षरब्रह्मयोगः | ०९._राजविद्याराजगुह्ययोगः | १०._विभूतियोगः | ११._विश्वरूपदर्शनयोगः | १२._भक्तियोगः | १३._क्षेत्रक्षेत्रज्ञविभागयोगः | १४._गुणत्रयविभागयोगः | १५._पुरुषोत्तमयोगः | १६._दैवासुरसम्पद्विभागयोगः | १७._श्रद्धात्रयविभागयोगः |१८._मोक्षसंन्यासयोगः
अर्जुनविषादयोगः
  धर्मक्षेत्रे कुरुक्षेत्रे…|दृष्ट्वा तु पाण्डवानीकं...|पश्यैतां पाण्डुपुत्राणाम्...|अत्र शूरा महेष्वासा...|धृष्टकेतुः चेकितानः...|युधामन्युश्च विक्रान्त...|अस्माकं तु विशिष्टा ये...|भवान्भीष्मश्च कर्णश्च...|अन्ये च बहवः शूरा...|अपर्याप्तं तदस्माकं...|अयनेषु च सर्वेषु...|तस्य सञ्जनयन् हर्षं...|ततः शङ्खाश्च भेर्यश्च...|ततः श्वेतैर्हयैर्युक्ते...|पाञ्चजन्यं हृषीकेशो...|अनन्तविजयं राजा...|काश्यश्च परमेष्वासः...|द्रुपदो द्रौपदेयाश्च...|स घोषो धार्तराष्ट्राणां...|अथ व्यवस्थितान् दृष्ट्वा...|सेनयोरुभयोर्मध्ये रथं...|यावदेतान्निरीक्षेऽहं...|योत्स्यमानानवेक्षेऽहं...|एवमुक्तो हृषीकेशो...|भीष्मद्रोणप्रमुखतः...|तत्रापश्यत् स्थितान् पार्थः...|तान्समीक्ष्य स कौन्तेयः...|दृष्ट्वेमं स्वजनं कृष्ण...|सीदन्ति मम गात्राणि...|गाण्डीवं स्रंसते हस्तात्...|निमित्तानि च पश्यामि...|न काङ्क्षे विजयं कृष्ण...|येषामर्थे काङ्क्षितं नो...|आचार्याः पितरः पुत्राः...|एतान्न हन्तुमिच्छामि...|निहत्य धार्तराष्ट्रान्नः का...|तस्मान्नार्हा वयं हन्तुं...|यद्यप्येते न पश्यन्ति...|कथं न ज्ञेयमस्माभिः...|कुलक्षये प्रणश्यन्ति...|अधर्माभिभवात् कृष्ण...|सङ्करो नरकायैव...|दोषैरेतैः कुलघ्नानां...|उत्सन्नकुलधर्माणां...|अहो बत महत्पापं...|यदि मामप्रतीकारम्...|एवमुक्त्वार्जुनः सङ्ख्ये...

सम्बद्धाः लेखाः सम्पादयतु