अस्माकं तु विशिष्टा ये...
भगवद्गीतायाः श्लोकः १.७
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
- नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तमः (७) श्लोकः ।
पदच्छेदः
सम्पादयतुअस्माकम्, तु, विशिष्टाः, ये, तान्, निबोध, द्विजोत्तम । नायकाः, मम, सैन्यस्य, संज्ञार्थम्, तान्, ब्रवीमि, ते ॥ ७ ॥
अन्वयः
सम्पादयतुद्विजोत्तम ! अस्माकं तु ये विशिष्टाः तान् निबोध । मम सैन्यस्य (ये) नायकाः तान् ते संज्ञार्थं ब्रवीमि । ७ ।
शब्दार्थः
सम्पादयतु- द्विजोत्तम = हे द्विजोत्तम द्रोणाचार्य !
- अस्माकं तु = अस्माकं कौरवाणां तु,
- विशिष्टाः = असाधारणाः,
- ये = ये योद्धारः,
- तान् = तान्,
- निबोध = जानीहि,
- मम = दुर्योधनस्य मम,
- सैन्यस्य = सेनायाः,
- नायकाः = ये सेनापतयः,
- तान् = तान् नायकान्,
- ते = तुभ्यम्,
- संज्ञार्थं = सम्यक् ज्ञानार्थं,
- ब्रवीमि = निवेदयामि ।
अर्थः
सम्पादयतुहे द्रोणाचार्य ! मम सैन्ये ये विशिष्टाः सेनापतयः सन्ति तान् भवान् जानाति एव । तथापि भवतः संज्ञानार्थं तेषां नामानि अहं स्मारयामि ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in