योत्स्यमानानवेक्षेऽहं...
भगवद्गीतायाः श्लोकः १.२३
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
- धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रयोविंशतितमः (२३) श्लोकः ।
पदच्छेदः
सम्पादयतुयोत्स्यमानान्, अवेक्षे, अहम्, ये, एते, अत्र, समागताः । धार्तराष्ट्रस्य, दुर्बुद्धेः, युद्धे, प्रियचिकीर्षवः ॥
अन्वयः
सम्पादयतुदुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रियचिकीर्षवः ये एते अत्र समागताः (तान्) अहं योत्स्यमानान् अवेक्षे ।
शब्दार्थः
सम्पादयतु- दुर्बुद्धेः = दुष्टमतेः
- धार्तराष्ट्रस्य = दुर्योधनस्य
- युद्धे = रणे
- प्रियचिकीर्षवः = प्रियं कर्तुम् इच्छवः
- ये एते = ये इमे
- अत्र = अस्मिन् स्थाने
- समागताः = आयाताः
- अहम् = अहम्
- योत्स्यमानान् = युद्धं करिष्यमाणान्
- अवेक्षे = पश्यामि ।
अर्थः
सम्पादयतुयुद्धं कर्तुं अत्र ये आगताः सन्ति ते सर्वे युद्धे दुर्बुद्धेः दुर्योधनस्य प्रियं कर्तुमेव उपस्थिताः सन्ति । तान् योद्धुम् इच्छतः योधान् अहं पश्यामि ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in