तत्रापश्यत् स्थितान् पार्थः...
भगवद्गीतायाः श्लोकः १.२६
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तत्रापश्यत् स्थितान् पार्थः पितॄनथ पितामहान् ।
- आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
- श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य षड्विंशतितमः (२६) श्लोकः ।
पदच्छेदः
सम्पादयतुतत्र, अपश्यत्, स्थितान्, पार्थः, पितॄन्, अथ, पितामहान् । आचार्यान्, मातुलान्, भ्रातॄन्, पुत्रान्, पौत्रान्, सखीन्, तथा ॥ श्वशुरान्, सुहृदः, च, एव, सेनयोः, उभयोः, अपि ।
अन्वयः
सम्पादयतुअथ पार्थः तत्र स्थितान् पितॄन् पितामहान् आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् श्वशुरान् सुहृदः च उभयोः अपि सेनयोः अपश्यत् ।
शब्दार्थः
सम्पादयतु- अथ = ततः
- पार्थः = अर्जुनः
- तत्र = तस्मिन् प्रदेशे
- स्थितान् = वर्तमानान्
- पितॄन् = पितृतुल्यान्
- पितामहान् = पितुः पितॄन्
- आचार्यान् = गुरून्
- मातुलान् = मातृसहोदरान्
- भ्रातॄन् = सहोदरान्
- पुत्रान् = पुत्रतुल्यान्
- पौत्रान् = पुत्रपुत्रान्
- सखीन् = मित्राणि
- श्वशुरान् = भार्यायाः पितॄन्
- सुहृदः च = कृतोपकारान् च
- उभयोः = द्वयोः
- अपि = अपि
- सेनयोः = सैन्ययोः
- अपश्यत् = दृष्टवान् ।
अर्थः
सम्पादयतुतयोः सेनयोः अर्जुनः स्वबान्धावान्, गुरून्, मित्राणि च अपश्यत् ।
श्लोकवैशिष्ट्यम्
सम्पादयतुविषयस्य सुबोधाय अग्रिमश्लोकस्य प्रथमपादः अपि अत्रैव दत्तम् वर्तते ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in