कडलूरुमण्डलम्
कडलूरुमण्डलम् (Cuddalore district) (तमिऴ् - கடலூர் மாவட்டம்) दक्षिणभारतस्य तमिळ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । कडलूरुनगरम् अस्य मण्डलस्य केन्द्रस्थलम् । क्रि.पू प्रथमशतकस्य कानिचन स्मारकस्थलवस्तूनि अस्य मण्डलस्य मरुङ्गूरुग्रामे ऐदम्प्राथम्येन लब्धानि । तेषामुपरि तमिळ् ब्राह्मीलिप्या लेखाः अपि दृष्टाः ।
कडलूर् मण्डलम् கடலூர் மாவட்டம் | |||||||||
— मण्डलम् — | |||||||||
निर्देशाङ्काः
११°४५′०″ उत्तरदिक् ७९°४५′०″ पूर्वदिक् / 11.75000°उत्तरदिक् 79.75000°पूर्वदिक् | |||||||||
देशः | भारतम् | ||||||||
राज्यम् | तमिळ्नाडु | ||||||||
मण्डलम् | कडलूरुमण्डलम् | ||||||||
उपमण्डलम् | कडलूरु,पन्रुति, चिदम्बरम्, नेय्वेलि, विरुधाचलम् | ||||||||
केन्द्रप्रदेशः | कडलूरू | ||||||||
बृहत्तमं नगरम् | कडलूरूनगरम् | ||||||||
बृहत्तमं महानगरम् | None | ||||||||
समीपतमं नगरम् | पाण्डिचेरी, चेन्नै | ||||||||
Collector & District Magistrate | श्री राजेन्द्र रत्नू, IAS | ||||||||
[[तमिळ्नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) | elected () | ||||||||
विधानसभा | कडलूरु | ||||||||
जनसङ्ख्या • सान्द्रता |
२२,८५,३९५[१] (2011[update]) • 702 /किमी2 (1,818 /वर्ग मील)7 (11) | ||||||||
लिङ्गानुपातः | 984 ♂/♀ | ||||||||
साक्षरता • Male |
79.04%% • 86.84%% | ||||||||
व्यावहारिकभाषा(ः) | तमिळ्भाषा, आङ्ग्लभाषा | ||||||||
---|---|---|---|---|---|---|---|---|---|
समयवलयः | IST (UTC+05:30) | ||||||||
वायुमण्डलम् तापमानम् |
• 41 °से (106 °फ़ै) | ||||||||
सङ्केताः
| |||||||||
जालस्थानम् | कडलूरुमण्डलस्य अधिकृतजालपुटम् |
भौगोलिकम्
सम्पादयतुकडलूरुमण्डलस्य विस्तारः ३५६४ चतरश्रकिलोमीटर् । अस्य मण्डलस्य उत्तरभागे विलुप्पुरं मण्डलम्, पूर्वभागे बङ्गालसमुद्रः, दक्षिणदिशायां नागपट्टिनं मण्डलम्, पश्चिमतः पेरम्बलूर् मण्डलं च अस्ति ।
आर्थिकता
सम्पादयतु२००६ तमे वर्षे केन्द्रसर्वकारस्य पञ्चायती राज् सचिवालयेन निर्दिष्टेषु देशस्य २५० अविकसितमण्डलेषु कडलूरु अपि परिगणितम् । सम्प्रति, तमिऴ्नाडुराज्यस्य षट् मण्डलानि सर्वकारस्य अविकसितप्रदेशसहायधनयोजनया (Backward Regions Grant Fund Programme) साहाय्यं लाभमानाः सन्ति, तेषु कडलूरु अन्यतमम् ।
जनसंख्या
सम्पादयतु२०११ जनगणनानुगुणं कडलूरुमण्डलस्य जनसंख्या २,६००,८८० । देशस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या कडलूरु १५८ तमम् । अस्य मण्डलस्य जनसंख्यासान्द्रता प्रतिचतुरश्रकिलोमीटर् ७०२ जनाः (१८२०/चतुरश्रमैल्)। २००१-२०११ दशके जनसंख्यावृद्धिः १३.८% आसीत् । अत्र पुं, स्त्री अनुपातः १०००-९८४ अस्ति । साक्षरता ७९.०४% अस्ति ।
उपमण्डलानि
सम्पादयतुकडलूरुमण्डले ६ उपमण्डलानि सन्ति ।
- कडलूरु
- चिदम्बरम्
- पण्रुट्टि
- काट्टुमन्नार्कोयिल्
- विरुदाचलम्
- तित्तकुडि
कृषिः वाणिज्यं च
सम्पादयतुकडलूरुमण्डले भल्लातकस्य कृषिः अधिका दृश्यते । तमिऴ्नाडुराज्यस्य ५२% भल्लातकस्य उत्पादनम् अस्मिन् मण्डले भवति । अत्रत्यानि पनसफलानि अपि प्रसिद्धानि (पण्रुटि-पनसम्) । नैवेलिनगरे नैवेलि लिग्नैट् कार्पोरेषन् संस्था अस्ति । अत्र अङ्गारतः विद्युदुत्पादनं भवति । अत्र भारतस्य अतिबृहत् अनावृत अङ्गारखनिः अस्ति ।
वीक्षणीयस्थलानि
सम्पादयतुकडलूरुमण्डले बहवः प्रसिद्धाः देवालयाः सन्ति । चिदम्बरक्षेत्रे विद्यमानं नटराजमन्दिरम् विश्वप्रसिद्धम् । कडलूरुनगरे पातालेश्वरदेवालयः अस्ति । कडलूरुनगरात् ७ किलोमीटर् दूरे विद्यमानः तिरुवन्दिपुरदेवालयः श्रीवैष्णवानां १०८ दिव्यक्षेत्रेषु अन्यतमः । अत्र भगवान् विष्णुः देवनाथरूपेण पूज्यते । चिन्दम्बरात् ३१ किलोमीटर् दूरे विद्यमाने श्रीमुष्णं क्षेत्रे विख्यातं भूवराहमन्दिरम् अस्ति । विरुदाचलक्षेत्रे विरुदगिरीश्वरदेवालयः अस्ति । कडलूरुनगरात् २ किलोमीटरदूरे रजततीरम् (Silver beach) इति प्रसिद्धं समुद्रतीरम् अस्ति । चिदम्बरसमीपे पिच्चावरे मान्ग्रोव् अरण्यानि सन्ति । मान्ग्रोव् अरण्यानां विस्तारे पिच्चावरस्य विश्वे एव द्वितीयस्थानम् । इदं प्रसिद्धं जैकप्रवासस्थानम् । कुरिञ्जिप्पडितालुकायां वेङ्गडपेटेप्रदेशे विजयनगरकालस्य अवशेषाः द्रष्टुं शक्याः ।
बाह्यसम्पर्कतन्तुः
सम्पादयतु- Villages in Cuddalore District Archived २०११-०८-१४ at the Wayback Machine
- A website on industrial pollution in Cuddalore
- Cuddalore District web site Archived २०१३-०८-०१ at the Wayback Machine
- Cuddalore's weather forecast from BBC
- SIPCOT, Cuddalore, A Global Toxic Hotspot for Air Pollution Archived २०११-१०-२७ at the Wayback Machine
- ↑ "2011 Census of India" (Excel). Indian government. 16 April 2011.
- ↑ www.tn.gov.in