सदस्यः:Srimedha1997/प्रयोगपृष्ठम्1
कृषिः | |
---|---|
कृषिः क्षेत्रस्य चित्रम्। |
कृषिः ( ( शृणु) /ˈkrʃhɪhɪ/) (हिन्दी: कृषि, आङ्ग्ल: Agriculture) शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते । एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता । लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति । अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति । कृषिः एका प्राथमिकी क्रिया अस्ति । सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति । विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति ।[१]
कृषेः इतिहासः
सम्पादयतुआदिमानवकाले मानवाः वन्यपशून् मृगयन्ति स्म । तस्मिन् काले तदेव तेषां भोजनम् आसीत् । कालान्तरे कन्दमूलानि, फलानि, स्वतः जायमानानि अन्नानि च खादन्ति स्म । तदनन्तरं तैः मानवैः कृष्याः अन्नोपादनस्य प्रारम्भः कृतः । फ्रान्स्-देशे आदिमकालिनाः कन्दराः प्राप्ताः । तासां कन्दराणाम् उत्खननेन अध्ययनेन च ज्ञातं भवति यत् पूर्वपाषाणयुगे एव मनुष्याः कृषिकर्मणि व्यापृताः अभवन् । वृषभैः कृष्याः प्रमाणं मिश्र-देशस्य पुरातनसभ्यता अस्ति ।
भारते पाषाणयुगे कृषेः विकासः कीयत्, कथम् अभवत् ? इति न ज्ञायते । किन्तु सिन्धुनद्याः तटे तत्कालीनाः अवशेषाः प्राप्ताः । गोधूमस्य ट्रिटिकम कम्पैक्टम, ट्रिटिकम स्फीरौकोकम इति प्रकारद्वयस्य प्रजातेः अवशेषाः प्राप्ताः ।
कृषितन्त्रम्
सम्पादयतुकृषिः तन्त्ररूपेण अस्ति । कृषौ बीजानाम्, उर्वरकस्य, आधुनिकयन्त्राणां, श्रमिकाणां च निवेशः भवति । अस्मिन् तन्त्रे ऊर्णानां, दुग्धशालायाः, कुक्कुटानां, सस्यानां च उत्पादनं भवति ।
- एग्रीकल्चर् - अस्यां कृषौ सस्योत्पादनं, पशुपालनस्य विज्ञानं कलाश्च इत्यादयः भवन्ति ।
- सेरीकल्चर् – कौशेयस्य(silk) कीटकानां वाणिज्यं पालनं सेरीकल्चर् इत्युच्यते । इयं कृषिः कृषकस्य धनार्जने सहायिका भवति ।
- पिसीकल्चर् – तडागानां नदीनां च मत्स्यानां पालनं पिसीकल्चर् इत्युच्यते ।
- विटिकल्चर् – विटिकल्चर् इत्यस्यां द्राक्षाणां कृषिः भवति ।
- हॉर्टीकल्चर् – वाणिज्योपयोगाय शाकानां, पुष्पाणां, फलानां च उत्पादनं हॉर्टीकल्चर् इत्युच्यते ।[२]
कृषेः प्रक्रियाः
सम्पादयतुकृषिकार्ये अनुकूलस्थलाकृतेः, मृत्तिकायाः, जलवायोः च आवश्यकता वर्तते । यस्यां भूमौ सस्योत्पादनं भवति सा कृषिगतभूमिः इति कथ्यते ।
सस्यानां रोपणकार्यस्य आरम्भात् कृषिकार्ये प्रकारत्रयस्य आर्थिकक्रियाः सम्मिलिताः सन्ति ।
- प्राथमिकी क्रिया
- द्वैतीयिकि क्रिया
- तार्तीयिकि क्रिया
येषां कार्याणां सम्बन्धः प्राकृतिकसंसाधनानाम् उत्पादनैः, निष्कर्णेण च सह अस्ति तानि कार्याणि प्राथमिकक्रियायाम् अन्तर्भवति । प्राथमिकक्रियायां कृषिः, मत्स्यपालनं, संग्रहणम् इत्यादीनि कार्याणि सन्ति ।
द्वैतीयिकक्रियायाः सम्बन्धः संसाधनानां प्रसंस्करणेन सह भवति । अस्यां क्रियायाम् आयसानां विनिर्माणं, पाचनं, वस्त्रनिर्माणम् इत्यादीनि कार्याणि भवन्ति ।
तार्तीयिकक्रिया प्राथमिक-दवैतीयिकक्रियाभ्यां सेवाकार्यैः साहाय्यं कुर्वन्ति । तस्यां क्रियायां व्यापारः, यातायातं, अधिकोष-व्यापारः(Banking), अभिरक्षा (Insurance), विज्ञापनम् इत्यादीनि कार्याणि सन्ति ।[३]
कृषेः प्रकाराः
सम्पादयतुविश्वस्मिन् बहुषु प्रकारेषु कृषिः क्रियते । कृषेः मुख्यप्रकारद्वयम् अस्ति । प्रथमा निर्वाहकृषिः अपरा वाणिज्यकृषिः ।
निर्वाहकृषिः
सम्पादयतुयया कृष्या कृषकपरिवारस्य आवश्यकतापूर्तिः भवति सा निर्वाहकृषिः उच्यते । न्यूनानाम् उपजानां प्राप्तयै निम्नस्तरीयस्य प्रौद्योगिकेः, पारिवारिकश्रमस्य च उपयोगः क्रियते । निर्वाहकृषिः प्रकारद्वयस्य अस्ति ।[४]
अस्यां कृषौ कृषकः एकस्मिन् लघुस्थाने एव अधिकश्रमेण कृषिं करोति । यस्मिन् क्षेत्रे उष्णतापी जलवायुः, उर्वरा भूमिः च वर्तते, तस्मिन् क्षेत्रे प्रतिवर्षम् एकाधिकानां सस्यानाम् उत्पादनं भवितुम् अर्हति । तेषु सस्येषु तण्डुलाः मुख्याः सन्ति । अन्येषु सस्येषु गोधूमः, मखाः सम्मिलिताः सन्ति । इयं कृषिः दक्षिणी, दक्षिण-पूर्वी, पूर्वी एशिया इत्येतेषु अधिकजनसङ्ख्यायुक्तेषु प्रदेशेषु प्रचलिता अस्ति ।
आदिमनिर्वाहकृषिः
सम्पादयतुअस्याः कृषेः प्रकारद्वयम् अस्ति । स्थानांतरीतकृषिः, पशुपालनम् च ।
स्थानान्तरीतकृषिः
सम्पादयतुस्थानान्तरीतकृषिः अमेजन-द्रौण्याः वन्यक्षेत्रे, उष्णकटिबन्धिये आफ्रिका-देशे, एशिया-खण्डस्य दक्षिण-पूर्वभागेषु, भारतस्य उत्तर-पूर्वभागेषु प्रचलिता अस्ति । एतेषु क्षेत्रेषु अधिकमात्रायां वर्षा भवति । वनस्पतेः उत्पादनम् अपि शीघ्रं भवति । वृक्षाणां छेदनं, दाहनं च कृत्वा भूमेः स्वच्छता क्रियते । तदनन्तरं रक्षाः मृत्तिकासु मेलयन्ते । ततः परं मखाः, आलुकाः, सूरकन्दः इत्यादयानि सस्यानि उत्पाद्यन्ते । उत्पादनानन्तरं कृषकः तत्स्थानं त्यक्त्वा अन्यं स्थानं गत्वा कृषिं करोति । अतः स्थानान्तरीकृषिः इति कथ्यते । कर्तनकृषिः, दहनकृषिः च इत्यस्याः कृषेः अपरे नामनी स्तः ।[५]
पशुपालनम्
सम्पादयतुसहारा इत्यस्य शुष्कप्रदेशेषु, मध्यएशियाखण्डे, भारतस्य राजस्थानराज्ये जम्मु-कश्मीरराज्ये च इयं कृषिः प्रचलति । पशुपालकः स्वस्य पशुभिः सह एकस्मात् स्थानात् अन्यस्थानं प्रति निश्चितमार्गेषु गच्छति । तत्र ते जलम् अन्नं च प्राप्नुवन्ति । अनेन जलवायोः क्लेशः भवति । पशुपालकाः उष्ट्रान्, अजा, मेषान्, याक् इत्यादीन् पशून् पालयन्ति । तेभ्यः पशुभ्यः कृषकाः दुग्धं, मांसम्, ऊर्णम्, चर्म अन्योत्पादनानि च प्राप्नुवन्ति ।[६]
वाणिज्यकृषिः
सम्पादयतुवाणिज्यकृषौ सस्योत्पादनं पशुपालनं च आपणेषु विक्रयणार्थं भवति । अस्यां कृषौ विस्तृतभूमेः आवश्यकता भवति । अधिकधनस्य निवेशः अपि आवश्यकः वर्तते । अधिकतमानि कार्याणि यन्त्रैः भवन्ति । वाणिज्यकृषेः प्रकारत्रयम् अस्ति । १ वाणिज्यधान्यकृषिः, २ मिश्रितकृषिः ३ रोपणकृषिः च ।
वाणिज्यधान्यकृषिः
सम्पादयतुअस्यां कृषौ वाणिज्यदृष्ट्या एव सस्यानाम् उत्पादनं भवति । गोधूमः, मखाः च सामान्यकृषेः सस्याः सन्ति । उत्तर-अमेरिका-खण्डे, यूरोप-खण्डे, एशिया-खण्डे च शीतोष्णतृणक्षेत्राणि सन्ति । तानि क्षेत्राणि वाणिज्यधान्यकृषेः प्रमुखाणि क्षेत्राणि सन्ति । तत्र क्षेत्रम् अधिकं शीतलं भवति । अधिका शीतलता सस्योत्पादने बाधां करोति । अतः एकम् एव सस्यम् उत्पादयितुं शक्यते ।[७]
मिश्रितकृषिः
सम्पादयतुअस्याम् कृषौ भूमेः उपयोगः भोजनस्य तृणस्य च सस्यानाम् उत्पादनाय, पशुपालनाय च क्रियते । यूरोप-खण्डे, सयुक्त राज्य अमेरिका इत्यस्य पूर्वभागे, अर्जेण्टीना, आस्ट्रेलिया-खण्डस्य दक्षिण-पूर्वभागे, न्यूजीलैण्ड-देशे, दक्षिण-आफ्रिका-देशे इयं कृषिः प्रचलिता अस्ति ।
रोपणकृषिः
सम्पादयतुइयं वाणिज्यकृषेः कश्चित् प्रकारः वर्तते । अस्यां कृषौ चायस्य, काजूतकस्य, कहवा इत्यस्य, निर्यासस्य(rubber), कदलीफलस्य, कार्पासस्य इत्यादीनाम् उत्पादनं भवति । रोपणकृषौ श्रमस्य धनस्य च द्वयोः महत्यावश्यकता भवति । सस्यानाम् उत्पादनानन्तरं स्वच्छताकार्यं क्षेत्रे समीपस्थे यन्त्रागारे एव भवति । अतः अस्यां कृषौ परिवहनसाधनानाम् आवश्यकता भवति ।
विश्वस्य उष्णकटिबन्धीयप्रदेशेषु रोपणकृषिः भवति । मलेशिया इत्यस्मिन् आघर्षणेः(rubber), ब्राजील-देशे कहवा इत्यस्य, भारत-देशे श्रीलङ्का-देशे च चायस्य उत्पादनं भवति ।[८]
सस्यानां प्रकाराः
सम्पादयतुभारत-देशे विविधाः संस्कृतयः सन्ति । तथैव कृषिः, सस्यानि च बहुप्रकारकाणि सन्ति । भारत-देशे उत्पाद्यमानानि सस्यानि बहुप्रकारकाणि सन्ति । तेषु सस्येषु खाद्यान्नं, तन्तुसस्यं, शाकानि, फलानि च भवन्ति ।[९] [[भा]रत]]-देशे त्रयः सस्यर्तवः सन्ति । रबी, खरीफ, जायद च ।
रबी
सम्पादयतुशीतर्तौ अक्टूबर-मासतः दिसम्बर-मासाभ्यान्तरं रबी-सस्यानां रोपणं क्रियते । ततः परं ग्रीष्मर्तौ अप्रैल-मासतः जून-मासाभ्यान्तरं रबी-सस्यानां कर्तनं क्रियते । गोधूमः, यवः, हरेणुः(मटर), चणकः, सर्षपः च इत्यादीनि मुख्यानि रबी-सस्यानि सन्ति । इदं सस्यं भारत-देशस्य विस्तृतभागेषु उत्पाद्यते । उत्तर-उत्तरपश्चिमस्थ राज्येषु (पञ्जाब, हरियाणा, हिमाचलप्रदेश, जम्मू-कश्मीर, उत्तराखण्ड, उत्तरप्रदेश) उत्पाद्यते । एतानि राज्यानि रबी-सस्यानाम् उत्पादने महत्वपूर्णराज्यानि सन्ति । शीतर्तौ पश्चिमीवर्षा रबी-सस्यानाम् उत्पादने साहाय्यं करोति ।[१०]
खरीफ
सम्पादयतुग्रीष्मर्तोः परं वर्षर्तोः आगमने खरीफ-सस्यानां रोपणं क्रियते । ततः परं सितम्बर-मासतः अक्टूबर-मासाभ्यान्तरं खरीफ-सस्यानां कर्तनं क्रियते । अस्मिन् ऋतौ तण्डुलाः, मखाः, ज्वार, बाजरा, तुअर(अरहर), मुद्गः, माषः, कार्पासः, जूट, कलायः (मुंगफली), सोयाबीन च इत्यादीनि महत्वपूर्णानि सस्यानि भवन्ति ।[११]
जायद
सम्पादयतुरबी-खरीफ इत्येतयोः सस्ययोः मध्ये ग्रीष्मर्तौ जायद-सस्यानां रोपणं क्रियते । अस्मिन् सस्ये कालिङ्गं, वृत्तकर्कटी, शाकः, तृणसस्यं च उत्पाद्यते ।[१२]
मुख्यानि सस्यानि
सम्पादयतुविश्वस्य जनसङ्ख्यायाः वृद्धिः वेगेन भवति । अतः जनानाम् आवश्यकतापूर्त्यर्थं विविधानि सस्यानि उत्पाद्यन्ते । सस्यानि कृष्याधारितेभ्यः व्यवसायेभ्यः अपक्वसामग्र्याः पूर्तिं कुर्वन्ति । तेषु गोधूमः, मखाः, तण्डुलाः खाद्यसस्यानि सन्ति । शणं(पटसन), कार्पासः तन्तुसस्यानि सन्ति । कहवा, चायं पेयसस्ये स्तः ।
खाद्यसस्यानि
सम्पादयतुइदं विश्वस्य प्रमुखं खाद्यवस्तुः अस्ति । इदम् उष्णकटिबन्धीयस्य, उपोष्णकटिबन्धीयस्य च प्रदेशस्य मुख्याहारः अस्ति । तण्डुलेभ्यः उच्चतापमानं(२५ सेल्सियस् इत्यस्मात् अधिकः), अधिकार्द्रतायाः, अधिकवर्षायाः(१०० से. मी. इत्यस्मात् अधिकः) आवश्यकता भवति ।[१३] इदं चीका-युक्तायां मृत्तिकायां भवति । सा मृत्तिका जलावरोधनाय श्रेष्ठ भवति । चीन-देशः अस्य सस्योत्पादने सर्वप्रथमः गण्यते । ततः परं क्रमशः भारत-देशः, जापान्-देशः, श्रीलङ्का-देशः, मिस्र-देशः च अस्ति ।
तण्डुलानां कृषिः मुख्यत्वेन असम-राज्ये, पश्चिमबङ्गाल-राज्ये, ओडिशा-राज्ये, आन्ध्रप्रदेश-राज्ये, तमिळनाडु-राज्ये, केरल-राज्ये, महाराष्ट्र-राज्ये उत्तरप्रदेश-राज्ये, बिहार-राज्ये च क्रियते ।[१४]
तण्डुलानाम् उत्पादने पञ्जाब-राज्यं, हरियाणा-राज्यं च प्रसिद्धम् अस्ति । अनयोः राज्ययोः तण्डुलानां विशिष्टानि सस्यानि प्राप्यन्ते । असम-राज्ये, पश्चिमबङ्गाल-राज्ये, ओडिशा-राज्ये च तण्डुलानां सस्यत्रयम् उत्पाद्यते । तानि - ऑस, अमन, बोरो च ।
गोधूमस्य उत्पादनकाले मध्यमतापमानस्य वर्षायाः च आवश्यकता भवति । सस्यकर्तने उच्चतापस्य आवश्यकता भवति । ५० से. मी. तः ७५ से. मी. पर्यन्तं वार्षिकवर्षायाः आवश्यकता भवति ।[१५] दुमट-मृत्तिकायाम् अस्य विकासः उत्तमः भवति । संयुक्त राज्य अमेरिका-देशे, कनाडा-देशे, अर्जेण्टीना-देशे, रूस्-देशे, यूक्रेन-देशे, आस्ट्रेलिया-देशे, भारत-देशे च विशेषरूपेण अस्य उत्पादनं भवति । भारत-देशे इदं शीतर्तौ भवति ।[१६]
मिलेट् (Millets) (बाजरा/ज्वार/रागी)
सम्पादयतुइदं सस्यम् उर्वरामृत्तिकायां भवति । अस्य सस्यस्य उत्पादने न्यूनवर्षायाः, उच्चमध्यमस्य तापमानस्य, सूर्यस्य पर्याप्तप्रकाशस्य आवश्यकता भवति । इदं भारत-देशे उत्पाद्यते । नाइजीरिया-देशे, चीन-देशे, नाइजर-देशे च अस्य सस्यस्य उत्पादनं भवति ।[१७]
मखाः (मक्का)
सम्पादयतुइदं कॉर्न इति अपि कथ्यते । अस्य विभिन्नाः प्राजतयः सन्ति । अस्य सस्यस्य उत्पादने मध्यमतापमानस्य(२१ तः २७ सेल्सियस्), वर्षायाः, उष्णतापस्य आवश्यकता भवति ।[१८]अस्योत्पादने उर्वरामृत्तिकायाः आवश्यकता भवति । इदं सस्यम् उत्तर-अमेरिका, ब्राजील-देशे, चीन-देशे, रूस-देशे, कनाडा-देशे, भारत-देशे, मेक्सिको-देशे च भवति ।[१९]
दाल-सस्यं
सम्पादयतुभारत-देशः विश्वस्मिन् दाल-सस्यस्य बृहदुत्पादकः उपभोक्ता च वर्तते । शाकाहारीभोजने दाल-सस्यं सर्वाधिकं प्रोटिन् इतीदं ददाति । तुर(अरहर), माषः, मुद्गः, मसूरिकाः, हरेणुः, चणकः च इत्यादीनि मुख्यानि दाल-सस्यानि सन्ति । दाल-सस्येभ्यः न्यूनार्द्रतायाः आवश्यकता भवति । एतानि सस्यानि शुष्कपरिस्थितौ अपि उत्पादयितुं शक्यन्ते । अरहर इतीदं विहाय अन्यानि दाल-सस्यानि वायोः नाइट्रोजन-वायुं प्राप्यन्ते । भारत-देशस्य मध्यप्रदेश-राज्ये, उत्तरप्रदेश-राज्ये, राजस्थान-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये च अस्य कृषिः भवति ।[२०]
इक्षुदण्डम्
सम्पादयतुइक्षुदण्डम् उष्ण-उपोष्णकटिबन्धीयसस्यं वर्तते । अस्य उत्पादने २१ सेल्सियस् तः २७ सेल्सियस् पर्यन्तं तापमानस्य, ७५ से. मी. तः १०० से. मी. पर्यन्तं वर्षायाः, आर्द्रजलवायोः च आवश्यकता भवति । अस्य उत्पादने शारीरिकश्रमः अधिकः भवति । ब्राजिल-देशे इक्षुदण्डस्य सर्वाधिकतया कृषिः भवति । ततः परं भारत-देशे भवति । इक्षुदण्डेभ्यः शर्करा, गुडः इत्यादीनि वस्तूनि निर्मीयन्ते । भारत-देशे उत्तरप्रदेश-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये, तमिळनाडु-राज्ये, आन्ध्रप्रदेश-राज्ये, बिहार-राज्ये, पञ्जाब-राज्ये, हरियाणा-राज्ये च अस्य कृषिः भवति । [२१]
तिलहन
सम्पादयतुतिलहन-सस्यानां सर्वश्रेष्ठोपादकः भारत-देशः वर्तते । भारतस्य कृषिक्षेत्रेषु १२% कृषिक्षेत्रेषु विभिन्नानि तिलहन-सस्यानि उत्पाद्यन्ते । कलायः(groundnut), सर्षपः, नारिकेलं, तिलः, सोयाबीन, एरण्डः, बिनौला, अलसी, सूरजमुखी इत्यादीनि प्रमुखाणि तिलहन-सस्यानि सन्ति । एतेषु अधिकतमानि खाद्यसस्यानि सन्ति । अस्य पाचने अपि उपयोगः भवति ।[२२]
कलायः खरीफ-सस्यम् अस्ति । भारत-देशस्य तिलहन-उत्पादनस्य ५०% कलायस्य कृषिः भवति । आन्ध्रप्रदेश-राज्यम् अस्य सस्यस्य प्रमुखोत्पादकम् अस्ति । तमिळनाडु-राज्ये, कर्नाटक-राज्ये, गुजरात-राज्ये, महाराष्ट्र-राज्ये अपि अस्य कृषिः भवति ।
अलसी, सर्षपः च रबी-सस्यम् अस्ति । उत्तरभारते तिलः खरीफ-सस्यम् अस्ति । दक्षिणभारते तिलः रबी-सस्यमस्ति । एरण्डः रबी-खरीफ इत्येतयोः द्वयोः सस्यम् अस्ति ।[२३]
भारत-देशः काफी इत्यस्य गुणवत्तायां विश्वस्मिन् प्रसिद्धः अस्ति । अस्य सस्यस्य कृषेः आरम्भः बाबा बूदन पर्वते अभवत् । विश्वस्य ४% काफी इत्यस्य उत्पादनं [[भारत[[-देशे भवति ।[२४] अस्माकं देशे अरेबिका प्रजातेः काफी उत्पाद्यते । यमन-देशात् इदं सस्यम् आनीतम् आसीत् । अस्य प्रजातेः अभियाचना सम्पूर्णे विश्वे अस्ति । इदानीम् अस्य कृषिः नीलगिरि-पर्वतेषु भवति । कर्नाटक-राज्ये, केरल-राज्ये, तमिळनाडु-राज्ये अस्य कृषिः भवति ।
काफी इत्यस्य अन्वेषणं ८५० तमे वर्षे एकेन कालदी-नामकेन अरबवासिना कृतम् आसीत् ।[२५]अस्य सस्यस्य उत्पादने उष्णार्द्रयोः जलवायोः आवश्यकता भवति । पर्वतरोधसि अस्य उत्पादनम् उत्तमरीत्या भवति । ब्राजील-देशः काफी इत्यस्य उत्पादने अग्रणी अस्ति । ततः परं कोलम्बिया-देशः, भारत-देशः च अस्ति ।
चायस्य कृषिः रोपणकृषिः अस्ति । चाय-सस्यम् कश्चित् पेयपदार्थः अस्ति । अयं पेयपदार्थः आङ्ग्लैः आनीतः आसीत् । अस्योत्पादने उष्ण-उपोष्णकटिबन्धीयजलवायोः, ह्युमस-जीवांशयुक्तायाः गूढामृत्तिकायाः आवश्यकता भवति । मन्दवर्षा अस्योत्पादने साहाय्यं करोति ।[२६]
चायम् उद्यानेषु उत्पाद्यते । अस्योत्पादने शीतलजलवायोः, आवर्षम् उच्चवर्षायाः आवश्यकता भवति । अस्मिन् सस्ये पत्राणि भवन्ति । अतः कर्तनकार्ये अधिकानां श्रमिकाणाम् आवश्यकता भवति ।[२७]
भारतस्य पश्चिमबङ्गाल-राज्यस्य दार्जिलिङ्ग-मण्डलस्य, जलपाईगुडी-मण्डलस्य च पर्वतक्षेत्रे चायस्य कृषिः भवति । तमिळनाडु-राज्ये, केरल-राज्ये, हिमाचलप्रदेश-राज्ये, उत्तराखण्ड-राज्ये, मेघालय-राज्ये, आन्ध्रप्रदेश-राज्ये, त्रिपुरा-राज्ये च अपि चायस्य कृषिः भवति । भारत-देशः चाय-उत्पादने सर्वप्रथमः अस्ति ।[२८]
बागवानी-सस्यानि
सम्पादयतुभारते विश्वस्य सर्वाधिकानां फलानाम् उत्पादनं भवति । भारत-देशे उष्ण-शीतोष्णकटिबन्धीय इत्येतयोः द्वयोः प्रकारयोः फलानाम् उत्पादनं भवति ।
महाराष्ट्र-राज्ये, आन्ध्रप्रदेश-राज्ये, उत्तरप्रदेश-राज्ये, पश्चिमबङ्गाल-राज्ये, च आम्रस्य उत्पादनं भवति ।
नागपुर-मण्डले, चेरापूञ्जी-मण्डले च नारङ्गफलस्य उत्पादनं भवति ।
केरल-राज्ये, मिजोरम-राज्ये, महाराष्ट्र-राज्ये, तमिळनाडु-राज्ये च कदलीफलस्य उत्पादनं भवति ।
मेघालय-राज्ये अनासफलस्य उत्पादनं भवति ।
आन्ध्रप्रदेश-राज्ये, महाराष्ट्र-राज्ये च द्राक्षाफलस्य उत्पादनं भवति ।
हिमाचलप्रदेश-राज्ये, जम्मू-कश्मीर-राज्ये च आताफलस्य(apple), अक्षोटफलस्य च उत्पादनं भवति ।[२९]
भारतदेशः विश्वस्य १३% शाकानि उत्पाद्यन्ते । हरेणुः, पलाण्डुः, कपिशाक, पुष्पशाक, रक्तफलं, वृन्ताकः, आलुकं च इत्यादीनि शाकानि भारतस्य प्रमुखोत्पादनानि सन्ति ।
अखाद्यसस्यानि
सम्पादयतुकार्पासः
सम्पादयतुअस्योत्पादने उच्चतापमानस्य, न्यूनवर्षायाः, २१० दिनानां, उष्णतापस्य आवश्यकता भवति । इदं सस्यं कृष्णमृत्तिकायाम् उत्तमं भवति । चीन-देशः, संयुक्त-राज्य-अमेरिका-देशः, भारत-देशः, पाकिस्तान-देशः, ब्राजील-देशः, मिश्र-देशः च कार्पासस्योत्पादने प्रसिद्धः अस्ति । सूतीवस्त्रोद्योगे अस्य उपयोगः भवति ।[३०]
महाराष्ट्र-राज्यं, गुजरात-राज्यं, मध्यप्रदेश-राज्यं, कर्नाटक-राज्यं, आन्ध्रप्रदेश-राज्यं, तमिळनाडु-राज्यं, पञ्जाब-राज्यं, हरियाणा-राज्यं, उत्तरप्रदेश-राज्यं च कार्पासस्य प्रमुखोत्पादकानि राज्यानि सन्ति ।[३१]
शणम्(पटसन)
सम्पादयतुअयं स्वर्णमयः तन्तुः अपि कथ्यते । अस्योत्पादने उच्चतापमानस्य, अधिकवर्षयाः, आर्द्रजलवायोः च आवश्यकता भवति । इदं सस्यम् उष्णकटिबन्धीयक्षेत्रे उत्पाद्यते । भारत-देशः, बाङ्गलादेशः च अस्य सस्यस्य मुख्योत्पादनकेन्द्रम् अस्ति ।[३२]
भारत-देशस्य पश्चिमबङ्गाल-राज्यं, बिहार-राज्यं, असम-राज्यं, ओडिशा-राज्यं, मेघालय-राज्यं च अस्य सस्यस्य मुख्योत्पादकम् अस्ति ।[३३]
निर्यास(rubber)
सम्पादयतुनिर्यासस्य उत्पादने २०० से. मी. वर्षायाः, २५ सेल्सियस् तापमानस्य जलवायोः च आवश्यकता भवति । इदं सस्यं भूमध्यरेखीयक्षेत्रस्य सस्यम् अस्ति । किन्तु विशेषपरिस्थितौ उष्ण-उपोष्णक्षेत्रेषु अपि अस्य कृषिः क्रियते ।
इदम् अपक्वं वस्तु अस्ति । निर्यासस्य उपयोगः उद्योगेषु भवति । केरल-राज्ये, तमिळनाडु-राज्ये, कर्नाटक-राज्ये, अण्डमान-निकोबार द्वीपसमूहे, मेघालय-राज्ये च गोरोपर्वतक्षेत्रेषु इदम् उत्पाद्यते । प्राकृतिकस्य निर्यासस्य उत्पादने भारत-देशः विश्वस्मिन् पञ्चमे क्रमाङ्के अस्ति ।[३४]
कृषेः उपकरणानि
सम्पादयतुसुसस्योत्पादननिमित्तं कृषौ बहूनि उपकरणानि उपयुज्यन्ते । तेषु – हलः, कुदाली(pick), कृषीवलः च । एतानि प्रमुखाणि उपकरणानि सन्ति ।
हलः
सम्पादयतुप्राचीकालादेव हलस्य उपयोगः कृष्यर्थं भवति । इदम् उपकरणं काष्ठेन निर्मितं भवति । वृषभयुग्मैः अन्यपशूनां युग्मैः च हलः उह्यते । अस्य उपकरणस्य अग्रभागे लौहस्य क्षुरपत्रं भवति । तत् फाल् इति कथ्यते । हलस्य मुख्यभागः काष्ठेन निर्मितः भवति । तत् हल-शैफ्ट् इति कथ्यते । अस्य एकस्मिन् कोणे ग्राहः(handle) भवति । अपरः कोणः जोत इत्यनेन सम्बद्धः भवति । तत् वृषभयोः ग्रीवायोः स्थाप्य सम्बद्ध्यते । वृषभयुग्मं, कश्चित् व्यक्तिः च अयं सारल्येन चालयितुं शक्यते । साम्प्रतं तु काष्ठस्य स्थाने लौहस्य हलाः भवन्ति ।[३५]
कुदाली(pick)
सम्पादयतुइदम् एकं सरलम् उपकरणं वर्तते । मृत्तिकायाः उपस्थापने विस्थापने च अस्योपयोगः क्रियते । अस्मिन् उपकरणे लौहस्य दण्डः भवति । तस्य दण्डस्य एकस्मिन् भागे लौहस्य विस्तृता वक्री च प्लेत् इति भवति । तत् क्षुरपत्रमिव कार्यं करोति । अपरः भागः पशुभिः कर्षते ।[३६]
कल्टीवेटर्
सम्पादयतुअद्यतने युगे कृषेः प्रकारः आधुनिकः जातः । इदानीं ट्रेक्टर्-यानेन कल्टीवेटर् इत्यस्य उपयोगः भवति । अस्योपयोगेन श्रमस्य समयस्य च संचयं भवति ।[३७]
कृषौ हरितक्रान्तिः
सम्पादयतुभारत-देशे हरितक्रान्तेः प्रारम्भः १९६६-६७ तमात् वर्षात् अभवत् । हरितक्रान्तेः श्रेयः प्रोफेसर नारमन् बोरलॉग् इत्ययं प्राप्तवान् | सः नोबेल-पुरस्कारस्य विजेता आसीत् । देशस्य सिञ्चित-असिञ्चितक्षेत्रेषु अधिकाधिकतया सस्यानाम् उत्पादनं भवेत् इति हरितक्रान्तेः उद्देश्यम् आसीत् ।
जलवायुपरिवर्तनस्य प्रभावः
सम्पादयतुजलवायोः परिवर्तनेन कृषिः प्रभाविता भवति । सस्यानाम् उत्पादने तापमाने परिवर्तनस्य, आर्द्रतायाः च कारणेन प्रभावः भवति । कृष्या ग्लोबल वॉर्मिङ्ग इतीदं न्यूनम् अधिकं वा भवितुं शक्यते । मृत्तिकायां कार्बनिक-पदार्थानाम् अपघटनेन वायुमण्डले कार्बनडाई ऑक्साईड इत्यस्य वायोः वृद्धिः भवति । अनन्तरम् आर्द्रमृत्तिका अवायवीयमृत्तिका च विनाईट्रीकरण इत्यनेन च नाइट्रोजन-वायुं मुक्तं करोति । मृत्तिकायाः उपयोगः वायुमण्डलात् कार्बनडाई ऑक्साइड वायुं पृथक्करणे भवति ।
कृषौ वैश्वीकरणस्य प्रभावः
सम्पादयतुनवदश्यां शताब्द्यां यदा युरोपीयव्यापारिणः भारतम् आगतवन्तः तदा अपि भारतीयगन्धद्रव्याणां विश्वस्य विभिन्नदेशेषु निर्यातः भवति स्म । दक्षिणभारते अस्य उत्पादनाय कृषकाणां प्रोत्साहनं क्रियते स्म । इदानीमपि गन्धद्रव्याणि भारतदेशात् निर्यातवस्तुषु अन्यतमानि सन्ति ।
ब्रिटिश-काले अपि आङ्ग्लव्यापारिणः भारतदेशस्य कार्पासक्षेत्रे आकृष्टाः अभवन् । तेन कारणेन आङ्ग्लजनैः भारतीयकार्पासस्य विदेशे वस्त्रोद्योगार्थं निर्यातः कृतः । विदेशस्य मैनचेस्टर्, लिवरपुल् इति द्वयोः नगरयोः कार्पासोद्योगः भारतस्य उत्तमकार्पासैः सम्पन्नः जातः ।
१९१७ तमे वर्षे बिहार-राज्ये चम्पारन-आन्दोलनम् अभवत् । तस्य आन्दोलनस्य मुख्यं कारणम् अपि कार्पासोद्योगः एव आसीत् । बिहार-राज्यस्य कृषकाः स्वस्यभूमौ अन्नोत्पादनं कुर्वन्ति स्म । किन्तु आङ्ग्लैः कृषकेभ्यः नील-सस्यस्य कृष्याः आदेशः दत्तः । नील-सस्यं ब्रिटेन-देशस्य कार्पासवस्त्रोद्योगाय अपक्वं वस्तु आसीत् । तेन कारणेन कृषकाः धान्यानां कृषिं कर्तुम् असमर्थाः आसन् । तदा सर्वे कृषकाः खिन्नाः जाताः । तेन चम्पारण-आन्दोलनम् अभवत् ।
१९९० तमात् वर्षात् परं वैश्वीकरणेन भारतीयानां कृषकाणां स्थितिः दयनीया जाता । कृषकाः अधिकपरिश्रमेण अपि वैश्विकस्तरस्य सफलतां प्राप्तुम् असमर्थाः आसन् । भारते बहूनि सस्यानि मुख्यानि सन्ति तथापि सर्वकारस्य साहाय्यं विना ते कृषकाः असमर्थाः आसन् । अन्येषु देशेषु तेषां सर्वकारः कृषौ साहाय्यं कुर्वन्ति ।[३८]
खाद्य-सुरक्षा
सम्पादयतुभोजनं मनुष्यस्य आधारभूतम् अस्ति । प्रत्येकेभ्यः नागरिकेभ्यः न्यूनतमपोषणस्तरस्य भोजनं दातव्यम् इति । यदि कोऽपि जनः इदं न प्राप्तवान् अस्ति सः खाद्यसुरक्षया वञ्चितः अस्ति । अतः अस्माकं सर्वकारैः एका प्रणाली आरब्धा । तस्याः नाम राष्ट्रिय खाद्य सुरक्षा प्रणाली इति । अस्याः प्रणाल्याः मुख्यं घटकद्वयम् अस्ति । १ बफर स्टॉक, २ सार्वजनिक वितरण प्रणाली (पी.डी.एस.) ।
सार्वजनिकवितरणप्रणाली इति इयं नगरजनेभ्यः ग्रामजनेभ्यः च खाद्यपदार्थान् निम्नमूल्येषु ददाति । अनेन निर्धनजनाः भोजनं प्राप्तुं समर्थाः अभवन् । खाद्यान्नानां व्यवस्थां फूड् कॉर्पोरेशन् ऑफ् इण्डिया (एफ् सी आई) इति इयं संस्था करोति ।[३९]
कृषिविज्ञानम्
सम्पादयतुकृषिविज्ञाने प्राकृतिकं, आर्थिकं, सामाजिकं च विज्ञानम् अस्ति । अस्मिन् क्षेत्रे निम्नलिखितानि कार्याणि भवन्ति ।
- सेचनस्य प्रबन्धनम् इत्यादीनि उत्पादनस्य प्रौद्यौगिककार्याणि सन्ति ।
- गुणवत्तायाः परिमाणस्य च दृष्ट्या कृषेः उत्पादने समीचीनता ।
- प्राथमिकोत्पादनानाम् अन्तिमभोक्त्रेः उत्पादे परिवर्तनम् ।
- पर्यावरणीयानां प्रभावाणां समीचीनता ।
- सस्योत्पादनसम्बन्धयः परम्परागताः कृषिप्रणालयः - इयं प्रणाली जीविकाकृषिः इति अपि कथ्यते । इमाः प्रणालयः विश्वस्य सर्वाधिकानां निर्धनानां पोषणं करोति ।
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये Srimedha1997/प्रयोगपृष्ठम्1 सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भः
सम्पादयतु- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 41. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 46. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 9788174508232.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). विज्ञान, कक्षा - ८. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 3. ISBN 9788174508201.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). विज्ञान, कक्षा - ८. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 3. ISBN 9788174508201.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). विज्ञान, कक्षा - ८. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 4. ISBN 9788174508201.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 48. ISBN 8174506675.
- ↑ राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 47. ISBN 8174506675.
can't use in sandboxकृषिविज्ञानम्]]
can't use in sandboxसारमञ्जूषा योजनीया]]