कुलक्षये प्रणश्यन्ति...
भगवद्गीतायाः श्लोकः १.४०
(१.४० कुलक्षयॆ प्रणश्य… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः ।
- धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥४०॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य चत्वारिंशत्तमः ( ४०) श्लोकः ।
पदच्छेदः
सम्पादयतुकुलक्षये, प्रणश्यन्ति, कुलधर्माः, सनातनाः । धर्मे, नष्टे, कुलम्, कृत्स्नम्, अधर्मः, अभिभवति, उत ॥
अन्वयः
सम्पादयतुकुलक्षये सनातनाः कुलधर्माः प्रणश्यन्ति । धर्मे नष्टे कृत्स्नम् उत कुलम् अधर्मः अभिभवति ।।
शब्दार्थः
सम्पादयतु- कुलक्षये = वंशनाशे
- सनातनाः = प्राचीनाः
- कुलधर्माः = वंशधर्माः
- प्रणश्यन्ति = क्षीयन्ते
- धर्मे = सनातनधर्मे
- नष्टे = क्षीणे
- कृत्स्नम् उत = सर्वम् अपि
- कुलम् = वंशम्
- अधर्मः = अनाचारः
- अभिभवति = आक्राम्यति ।
अर्थः
सम्पादयतुकुलानि यदि नश्यन्ति तर्हि सनातनाः कुलधर्माः नश्यन्ति । धर्मः यदि नष्टः भवति तर्हि अधर्मः कुलानि आवृत्य तिति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in