महावीरः
महावीरः ( ( शृणु) /ˈməhɑːviːrəhə/) (हिन्दी: महावीर,आङ्ग्ल: Mahavir) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अन्तिमः तीर्थङ्करः अस्ति । भगवतः महावीरस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सिंहः इत्यस्ति ।
महावीरः | |
---|---|
चतुर्विंशतितमः जैनतीर्थङ्करः | |
महावीरस्य प्रतिमा | |
विवरणम् | |
अन्यनाम | वर्धमानः, श्रमणः, ज्ञातपुत्रः |
परिवारः | |
पिता | सिद्धार्थः |
माता | त्रिशला |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | क्षत्रियकुण्ड-ग्रामः |
निर्वाणम् | पावापुरी |
लक्षणम् | |
वर्णः | सुवर्णः |
चिन्हम् | सिंहः |
औन्नत्यम् | सप्त (७) हस्तमात्रात्मकम् |
आयु: | ७२ वर्षाणि |
शासकदेवः | |
यक्षः | मातङ्गः |
यक्षिणी | सिद्धायिका |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
कौमारावस्थायां महावीरस्य शरीरस्य औन्नत्यं सप्त (७) हस्तमात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “मातङ्ग” इत्याख्यः यक्षः, “सिद्धयिका” इत्याख्या यक्षिणी च आसीत् । भगवान् महावीरः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।
जन्म, परिवारश्च
सम्पादयतुदेवायुष्यं समाप्य भगवतः जीवः भरतक्षेत्रस्य क्षत्रियकुण्ड-नामके ग्रामे अवातरत् । तस्मिन् ग्रामे चैत्र-मासस्य शुक्लपक्षस्य त्रयोदश्यां तिथौ उत्तराषाढा-नक्षत्रे मध्यरात्रौ भगवतः महावीरस्य जन्म अभवत् [२]। महावीरस्य पिता सिद्धार्थः, माता च त्रिशला आसीत् ।
गर्भपरिवर्तनम्
सम्पादयतुऋषभदत्तः नामकः ब्राह्मणकुण्ड-ग्रामस्य कश्चन नायकः आसीत् । ब्राह्मणकुण्डग्रामे ब्राह्मणाः एव निवसन्ति स्म । ऋषभदत्तः कोडालगोत्रीयः, देवानन्दा जालन्धरगोत्रीया च आसीत् । एकदा आषाढ-मासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ उत्तराफाल्गुनी-नक्षत्रे रात्रौ देवानन्दा तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव देवानन्दा ऋषभदत्ताय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः महावीरस्य जीवः देवानन्दायाः गर्भं प्राविशत् [३]।
आगामि-दिवसे ऋषभदत्तः स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रं स्वप्नानां फलादेशाय वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा देवानन्दा चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशं कृतं यत् – “देवानन्दायाः गर्भे एकः श्रेष्ठः बालकः अस्ति । सः बालकः अन्तिमः तीर्थङ्करः भविष्यति” इति । स्वप्नशास्त्रिणां वचांसि श्रुत्वा ऋषभदत्तः, देवानन्दा च प्रसन्नौ अभवताम् । देवानन्दा गर्भस्य विशिष्टतया पालनं कुर्वती आसीत् ।
एकदा शकेन्द्रः अवधिज्ञानेन ऋषभदत्तस्य गृहे देवानन्दायाः गर्भे प्रभोः विकासशीलं शरीरं दृष्टवान् । इन्द्रेण विचारितं यत् – “तीर्थङ्करस्य, चक्रवर्तिनः, बलदेवस्य, वासुदेवस्य, प्रतिवासुदेवस्य च जन्म केवलं क्षत्रियगृहे एव् भवति । अयं तु महदाश्चर्यः वर्तते यत् – “भगवतः अवतरणं ब्राह्मणवंशे अभवत्” । तीर्थङ्करस्य जन्म सदैव प्रभावशालिनि कुले एव भवति । वर्तमाने काले क्षत्रियवंशस्य अत्यधिकः प्रभावः वर्तते । अतः भगवतः शरीरस्य गर्भपरिवर्तनं करणीयम्” इति ।
इन्द्रेण हरिणगमेशी इत्याख्यः देवः आहूतः । शकेन्द्रेण हरिणगमेशी उक्तः यत् – “अन्तिमः तीर्थङ्करः देवानन्दायाः गर्भे अस्ति । अतः तस्य शरीरं क्षत्रियकुण्ड-ग्रामस्य राज्ञः सिद्धार्थस्य पत्न्याः त्रिशलायाः गर्भे स्थापयतु । त्रिशलायाः गर्भे यः जीवः वर्तते, तज्जीवं देवानन्दायाः गर्भे स्थापयतु” ।
इन्द्रस्य आज्ञानुसारं हरिणगमेशी गर्भपरिवर्तनाय प्रस्थितवान् । देवानन्दा रात्रौ निन्द्राधीना आसीत् । तस्मिन् दिने गर्भकालस्य त्र्यशीतितमा रात्रिः आसीत् । हरिणगमेशी गर्भपरिवर्तनाय भगवतः प्रार्थनां चकार, आज्ञां च स्वीकृतवान् । अनन्तरं हरिणगमेशी देवानन्दात्रिशलायोः गर्भपरिवर्तनं कृतवान् ।
गर्भपरिवर्तनस्य कार्यं भाद्रपदमासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ अभवत् । तस्यां रात्रौ देवानन्दा, त्रिशला च चतुर्दशस्वप्नान् दृष्टवती । राज्ञ्या त्रिशलया चतुर्दशस्वप्नाः सिद्धार्थाय श्राविताः । आगामिदिवसे राज्ञा सिद्धार्थेन स्वप्नशास्त्रिणः आहूताः । स्वप्नशास्त्रिभिः स्वप्नानां फलादेशः कृतः । तैः उक्तः यत् – “महाराज्ञ्याः गर्भे अन्तिमतीर्थङ्करस्य जीवः अस्ति” । स्वप्नशास्त्रिणां वचांसि श्रुत्वा राज्ञा स्वप्नशास्त्रिभ्यः दक्षिणाः प्रदत्ताः ।
यदा त्रिशलायाः गर्भं भगवतः जीवः प्राविशत्, तावत् राज्ञः सिद्धार्थस्य राज्यम् अन्नैः, सम्पत्त्या च परिपूर्णम् अभवत् । देवसाहाय्येन तस्य राज्यम् अर्थसम्पन्नम् अभवत् ।
गर्भे प्रतिज्ञा
सम्पादयतुगर्भे भगवतः जीवः सप्तमासात्मकः अभवत् । तदा भगवान् विचारितवान् यत् – मया हस्तपादचालनेन मात्रे पीडा भविष्यति । अतः भगवता हस्तपादचालनम् अवरुद्धम् । गर्भस्पन्दने अवरुद्धे सति माता त्रिशला चिन्ताग्रस्ता अभवत् । अनन्तरं सा रुदन्ती आसीत् । सर्वे जनाः अपि चिन्ताग्रस्ताः अभवन् । भगवान् अवधिज्ञानेन बहिर्दृश्यम् अपश्यत् । तद्दृश्यं हृदयविदारकम् आसीत् । तदृष्ट्वा भगवता तत्कालमेव हस्तपादचालनम् आरब्धम् । तदा सर्वे जनाः निश्चिन्ताः जाताः । मातृपित्रोः स्नेहं दृष्ट्वा भगवता गर्भे एव प्रतिज्ञा कृता यत् – “मातृपित्रोः स्वर्गवासानन्तरम् एव अहं दीक्षां स्वीकरिष्यामि, तत्पूर्वं न” इति ।
गर्भकालस्य नवमासानन्तरं भगवतः महावीरस्य जन्म अभवत् । षड्पञ्चाशत् दिक्कुमारीभिः प्रसुतिकर्म कारितम् । पीडारहितः प्रसवः जातः । प्रसवसमये इन्द्रः समागतवान् । इन्द्रः शिशोः प्रतिरूपं मातुः समीपे स्थापयित्वा भगवतः शरीरं पुण्डरीकवनं नीतवान् । तत्र एकस्यां शिलायां पूर्वाभिमुखमुपविश्य इन्द्रः शिशुं हस्तयोः अस्थापयत् । तस्मिन् समये अन्ये त्रिषष्टिः इन्द्राः, देवाः चापि समुपस्थिताः आसन् । देवाः जलं नीत्वा आगतवन्तः । सर्वैः भगवतः महावीरस्य अभिषेकः कृतः । अभिषेकान्ते पुनः शिशुं मातुः क्रोडे अस्थापयत् ।
राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं प्रदत्तवान् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् जन्मोत्सवः आचरितः । लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च भगवतः महावीरस्य जन्मोत्सवे समुपस्थिताः आसन् । लोकान्तिकदेवानां, इन्द्राणां च उपस्थितिः आवश्यकी वर्तते स्म । ये बन्दिनः आसन्, तेभ्यः राज्ञा मुक्तिः अदीयत [४]।
पूर्वजन्म
सम्पादयतुभगवान् महावीरः सप्तविंशतिभवानां यात्रां कृतवान् आसीत् । मनुष्यः स्वकर्मणा एव स्वर्गं नरकं वा गच्छति । अनेन प्रकारेण महावीरस्य आत्मना अपि स्वकर्मानुसारं सुखं, दुःखं च भुक्तम् । महावीरस्य आत्मना बहूनां भवानां यात्रा कृता अस्ति । किन्तु यावत् महावीरस्य आत्मना सम्यक्त्वं प्राप्तं, तावदेव भवानां गणना कृता अस्ति । अतः महावीरस्य षड्विंशतिभवानां विवरणम् अधः लिखितम् अस्ति [५]।
प्रथमः, द्वितीयः च भवः
सम्पादयतुजम्बूद्वीपस्य पश्चिममहाविदेहे महाविप्र-नामके विजये जयन्ती-नामिका नगरी आसीत् । तस्याः नगर्याः राजा शत्रुमर्दनः आसीत् । तस्य राज्ये पृथ्वीप्रतिष्ठा-नामकः ग्रामः आसीत् । तस्य ग्रामस्य अधिकारी नयसारः आसीत् ।
एकदा राज्ञः आज्ञानुसारं नयसारः काष्ठानि आनेतुम् अनेकैः जनैः सह वनं गतवान् आसीत् । मध्याह्ने एकस्य वृक्षस्य अधः सर्वे भोजनं कुर्वन्तः आसन् । तदा नयसारेण वने केचन मुनयः दृष्टाः । नयसारः उत्थाय मुनीनां वन्दनां चकार । ते मुनयः पिपासवः, बुभुक्षिताः च आसन् । नयसारेण मुनिभिः जलपानं भोजनं च प्रदत्तम् । अनन्तरं मुनिभिः नयसाराय उपदेशः प्रदत्तः । तस्य नयसारस्य मनसि प्रभावः अभवत् । अतः तस्मिन् भवे एव नयसारः सम्यक्त्वं प्राप्तवान् । नयसारः दीक्षाम् अङ्गीकृत्य साधनां चकार । मृत्योः अनन्तरं द्वितीये भवे सौधर्म-नामके देवलोके पल्योपम-देवः अभवत् ।
तृतीयः, चतुर्थः च भवः
सम्पादयतुदेवलोकस्य आयुष्यं समाप्य नयसारस्य जीवः चक्रवर्तिनः भरतस्य पुत्रस्वरूपेण अवतीर्णः । तस्य नाम मरीचिः आसीत् । एकदा ऋषभदेवः अयोध्यानगरीं प्राप्तवान् । भगवतः ऋषभदेवस्य प्रवचनं श्रुत्वा राजकुमारः मरीचिः विरक्तो जातः । अतः तेन भगवतः ऋषभदेवात् दीक्षा स्वीकृता । सः एकादशाङ्गानाम् अध्ययनं कृतवान् ।
एकदा चक्रवर्ती भरतः भगवन्तम् ऋषभदेवं पृष्टवान् यत् – “भवतः सभायां कोऽपि जीवः अस्याम् अवसर्पिण्यां भवत्सदृशः तीर्थङ्करः भवेत् ? तदा भगवान् ऋषभदेवः उक्तवान् यत् – अस्यां सभायां तादृशः कोऽपि नास्ति किन्तु बहिः ते पुत्रः मरीचिः अस्ति । सः अस्मिन् भरतक्षेत्रे अन्तिमः तीर्थङ्करः, महाविदेहक्षेत्रस्य मूका-नगर्यां प्रियमित्र-नामकः चक्रवर्ती च भविष्यति ।
भरतेन अयं शुभसमाचारः मरीचये श्रावितः । शुभसमाचारं श्रुत्वा मरीचिः प्रसन्नः जातः । सः उक्तवान् यत् –
“ | आद्योहं वासुदेवानां, पिता मे चक्रवर्तिनाम् । |
” |
“मे कुलं कीदृशम् उन्नतम् अस्ति ? मम पिता प्रथमः चक्रवर्ती, मे पितामहः प्रथमः तीर्थङ्करः च अस्ति । अहमपि तीर्थङ्करः, प्रथमः वासुदेवः, चक्रवर्ती च भविष्यामि” इति सः वदन् आसीत् । स्वस्य कुलस्य अभिमानेन मरीचिना नीचगोत्रस्य बन्धनं कृतम् ।
एकदा मरिचिः रोगग्रस्तः आसीत् । तदा केऽपि तस्य सेवायाम् उपस्थिताः नासन् । तस्मिन् दिवसे मरिचिना निर्णयः कृतः यत् – “एकः शिष्यः अपेक्षितः” । यदा मरिचिः स्वस्थः अभवत्, तदा तेन पूर्ववत् जनेभ्यः उपदेशः प्रदत्तः । कपिल-नामकः राजकुमारः मरीचेः शिष्यः भवितुम् आगतः । मरीचिना कपिलः शिष्यत्वेन स्वीकृतः आसीत् । अनन्तरं त्रिदण्डीसन्यासी इव मरीचिना अवशिष्टं जीवनं यापितम् ।
अन्ते मरीचिः मृत्योः अनन्तरं ब्रह्म-नामके पञ्चमे देवलोके देवः अभवत् ।
पञ्चमः भवः
सम्पादयतुब्रह्मलोकस्य आयुष्यं समाप्य महावीरस्य जीवः कोल्लाकसन्निवेषे कौशिक-नामकस्य ब्राह्मणस्य स्वरूपेण अवतीर्णः । अशीतिलक्षं पूर्ववर्षाणां तस्य आयुष्यम् आसीत् । अस्य भवस्य अनन्तरं महावीरस्य जीवेन बहूनां लघुनां भवानां यात्रा कृता आसीत् । किन्तु सप्तविंशतिभवेषु तेषां गणना न कृता ।
षष्ठः, सप्तमः च भवः
सम्पादयतुषष्ठे भवे भगवतः महावीरस्य जीवः पुनः मनुष्ययोनौ अवतीर्णः । थुना-नगर्यां पुष्यमित्र-नामकस्य ब्राह्मणस्वरूपे महावीरस्य जन्म अभवत् । सः गृहस्थाश्रमे परिव्राजकपदं प्रापत् । अनन्तरं सप्तमे भवे महावीरस्य जीवः सौधर्मनामके प्रथमे देवलोके देवः अभवत् ।
अष्टमः, नवमः च भवः
सम्पादयतुदेवायुष्यं समाप्य तस्य जीवः चैत्यसन्निवेषे अग्निहोत्रब्राह्मणस्य स्वरूपेण अवातरत् । अन्ते अग्निहोत्रब्राह्मणः परिव्राजकपदं प्राप्तवान् । तस्य सम्पूर्णम् आयुष्यं चतुषष्टिलक्षपूर्ववर्षाणाम् आसीत् । नवमे भवे ईशान-नामके द्वितीये देवलोके देवः अभवत् ।
दशमः, एकादशः च भवः
सम्पादयतुदशमे भवे तस्य जीवस्य जन्म मन्दिरसन्निवेषे अग्निभूतिनामकस्य ब्राह्मणस्वरूपे अभवत् । अन्ते तेन परिव्राजकदीक्षा स्वीकृता । तस्य सम्पूर्णम् आयुष्यं षड्पञ्चाशल्लक्षं पूर्ववर्षाणाम् आसीत् । अनन्तरम् एकादशे भवे सः सनत्कुमार-नामके तृतीये देवलोके देवः अभवत् ।
द्वादशः, त्रयोदशः च भवः
सम्पादयतुदेवायुष्यं समाप्य पुनः महावीरस्य जीवः द्वादशे भवे श्वेताम्बिका-नामिकायां नगर्यां भारद्वाज-नामकस्य ब्राह्मणस्य स्वरूपेण अवतीर्णवान् । भारद्वाजेन अपि परिव्राजकदीक्षा अङ्गीकृता आसीत् । तस्य सम्पूर्णम् आयुष्यं चतुश्चत्वारिंशल्लक्षपूर्ववर्षाणाम् आसीत् । मृत्योः अनन्तरं त्रयोदशे भवे माहेन्द्र-नामके चतुर्थे देवलोके देवः अभवत् । तदनन्तरम् अपि तस्य जीवनस्य बहूषु लघुभवेषु जन्म अभवत् ।
चतुर्दशः, पञ्चदशः च भवः
सम्पादयतुपुनः भगवतः महावीरस्य जन्म राजगृहनगरे स्थावर-नामकस्य ब्राह्मणत्वेन अभवत् । सः अपि परिव्राजकपदं प्रापत् । तस्यायुष्यं चतुस्त्रिंशल्लक्षपूर्ववर्षाणाम् आसीत् । अनन्तरं पञ्चदशे भवे सः ब्रह्म-नामके पञ्चमे देवलोके देवः अभूत् ।
षोडशः, सप्तदशः च भवः
सम्पादयतुविश्वनन्दी राजगृह-नगरस्य राजा आसीत् । विश्वनन्दिनः विशाखभूतिः नामकः भ्राता आसीत् । सः राजकुमारः आसीत् । विश्वनन्दिनः पुत्रस्य नाम विशाखनन्दी आसीत् । राजकुमारस्य विशाखभूतेः धारिणी इत्याख्या पत्नी आसीत् । धारिण्याः गर्भे नयसारस्य जीवः समतिष्ठत् । तस्य नाम विश्वभूतिः इति कृतम् ।
यदा विश्वभूतिः यौवनं प्राविशत्, तदा राज्ञा विशाखभूतिना अनेकाभिः राजकन्याभिः सह तस्य विवाहः कारितः । एकदा विश्वभूतिः स्वराजकन्याभिः सह जलक्रीडां कर्तुं गतवान् आसीत् । किञ्चित्क्षणानन्तरं विशाकनन्दी अपि स्वराजकन्याभिः सह अटितुम् उद्यानं प्राप्तवान् । “विश्वभूतिः तत्र जलक्रीडां कुर्वन् अस्ति” इति ज्ञात्वा विशाखनन्दी निराशः अभवत् । विशाकनन्दिनः माता प्रियङ्गुः आसीत् । इमां घटनां श्रुत्वा प्रियङ्गुः क्रुद्धा जाता । अनन्तरं सा कोपभवनं गतवती । राजा अपि चिन्ताग्रस्तः अभवत् ।
राज्ञा विश्वनन्दिना विश्वभूतिं दूरं प्रेषितुम् एका युक्तिः विचारिता । समीपस्थेन राज्येन सह युद्धस्य घोषणा कृता । तस्य राज्यस्य राजा पुरुषसिंहः आसीत् । विश्वनन्दिना उक्तं यत् – “पुरुषसिंहः अस्माकं विद्रोही अभवत् । अतः तेन सह युद्धं कर्तुम् अहं गच्छन् अस्मि” । अयं समाचारः विश्वभूतिना अपि श्रुतः । सः त्वरितमेव राजाप्रासादं प्राप्तवान् । विश्वभूतिना विश्वनन्दिने निवेदनं कृतं यत् – “अहं पुरुषसिंहेन सह युद्धं कर्तुं गमिष्यामि । अतः मह्यम् आज्ञां यच्छतु” इति । ततः परं विश्वभूतिः सेनया सह प्रस्थितवान् ।
विश्वभूतेः गमनानन्तरं विशाखनन्दी जलक्रीडायै गतवान् । विश्वभूतिः यदा पुरुषसिंहस्य राज्यं प्राप्तवान्, तदा पुरुषसिंहेन विश्वभूतेः स्वागतं कृतम् । तत्र गत्वा विश्वभूतिना सत्यं ज्ञातम् । सः प्रत्यागच्छन् आसीत् । प्रत्यागमने उद्यानरक्षकेण सः समाचारं प्राप्तवान् यत् – “विशाकनन्दी उद्याने जलक्रीडां कुर्वन् अस्ति” ।
विश्वभूतिः सर्वं सत्यं ज्ञातवान् यत् – “राज्ञा विश्वनन्दिना एव स्वस्य पुत्रस्य सुखाय एव पुरुषसिंहस्य विद्रोहस्य षड्यन्त्रं रचितम् आसीत् । सर्वं ज्ञात्वा विश्वभूतिः क्रुद्धः जातः । किन्तु क्रोधे शान्ते सति विश्वभूतेः मनसि संवेगस्य भावः उद्भूतः । अतः सः दीक्षाम् अङ्गीकर्तुं विचारितवान् । अतः ततः एव सः आर्यसंभूत-नामकस्य मुनेः समीपं गत्वा चारित्रम् अङ्गीकृतवान् ।
विश्वभूतिः मुनिः अभवत् इति सन्देशं प्राप्य राजा विश्वनन्दी परिवारेण सह अपराधस्य क्षमां याचितुं तत्र गतवान् । “मुनिधर्मं त्यक्त्वा राजशासनं चालयतु” इति राज्ञा निवेदनं कृतम् । किन्तु विश्वभूतिना तस्य निवेदनम् अस्वीकृतम् । स्वस्य गुरोः सेवायाम् एव सः तपः कुर्वन् आसीत् । गुर्वाज्ञया सः एकाकी विहारमपि कुर्वन् आसीत् । तस्मिन् जन्मनि तस्य आयुष्यं कोटिवर्षाणाम् आसीत् ।
सप्तदशे भवे नयसारस्य जीवः महाशुक्रनामके सप्तमे देवलोके देवः अभवत् ।
अष्टादशः, एकोनविंशतितमः च भवः
सम्पादयतुमहाशुक्रदेवलोकस्य आयुष्यं समाप्य नयसारस्य जीवः पोतनपुर-नगरे त्रिपृष्ठनामकस्य राजकुमारस्य स्वरूपेण अवतीर्णः ।
पोतनपुर-नगरस्य राजा प्रजापतिः आसीत् । तस्याः द्वे पत्न्यौ आस्ताम् । भद्रा, मृगावती च । भद्रा अचल-नामकं राजकुमारम् अजीजनत् । त्रिपृष्ठस्य जन्म मृगवत्याः कुक्ष्याः अभवत् । द्वौ भ्रातरौ सर्वविद्यानां ज्ञातारौ आस्ताम् । तस्याम् अवसर्पिण्यां तौ प्रथमः बलदेवः, वासुदेवश्च अभवताम् ।
तस्मिन् काले अश्वग्रीवः इत्याख्यः प्रतिवासुदेवः आसीत् । सः त्रिखण्डानां श्रेष्ठः, प्रभावशाली, प्रतापी च अधिपतिः आसीत् । रत्नपुर-नगरी तस्य राजधानी आसीत् । एकदा सः विचारितवान् यत् – “त्रिषु खण्डेषु मत्सदृशः न कोऽपि बलवान् । यदि कोऽपि स्यात् तर्हि मया तस्य परिचयः ज्ञातव्यः” इति ।
अश्वग्रीवेण अस्मिन् विषये एकः ज्योतिषाचार्यः पृष्टः । तदा ज्योतिषाचार्यः उक्तः यत् – “यः राजकुमारः भवतः राजदूतं चण्डवेगम् अपमानितं पराजितं वा करिष्यति, शालिक्षेत्रे सिंहात् रक्षणाय प्रेषितेषु राजकुमारेषु यः सिंहस्य वधं करिष्यति, सः राजकुमारः एव भवतः हत्यां करिष्यति ।
ज्योतिषाचार्यस्य भविष्यवाणीं श्रुत्वा अश्वग्रीवः भयभीतः जातः । तस्य राजदूतः चण्डवेगः सर्वासु राजधानीसु प्रतिवासुदेवस्य कार्यं कुर्वन् पोतनपुर-नगरं प्राप्तवान् । सः पोतनपुर-नगरस्य राज्यसभां गतवान् । राज्यसभायां सङ्गीतकार्यक्रमः प्रचलन् आसीत् । राज्यसभायां राजा प्रजापतिः, राजकुमारः अचलः, त्रिपृष्ठः च आसीत् । राजदूतस्य सहसा आगमनेन राजा चकितः जातः । राज्ञा राजदूताय योग्यासनम् अदीयत । किन्तु त्रिपृष्ठः खिन्नः जातः । यतः कार्यक्रमे राजदूतेन आनन्दभङ्गः कृतः आसीत् । राज्ञा प्रजापतिना राजदूतस्य सत्कारः कृतः । किन्तु यदा राजदूतः गच्छन् आसीत्, तदा खिन्नेन त्रिपृष्ठेन मार्गे राजदूतस्य अपमानः कृतः । राजदूतस्य अपमानस्य समाचारं प्राप्य अश्वग्रीवः चिन्ताग्रस्तः जातः । यतः एकं कार्यं तु ज्योतिषाचार्यस्य कथनानुसारम् एव अभवत् ।
तदा तस्मिन् समये अश्वग्रीवस्य राज्ये कश्चन सिंहः आतङ्कं कुर्वन् आसीत् । तेन जनाः भयभीताः आसन् । सिंहः जनान् भक्षयति स्म । अश्वग्रीवेण सिंहं हन्तुं बहवः प्रयासाः कृताः । किन्तु सर्वे प्रयासाः व्यर्थाः अभवन् । अतः क्षेत्राणां सुरक्षायै अश्वग्रीवेण प्रतिक्षेत्रे एकस्य राज्ञः नियुक्तिः कृता । तेषु राजसु प्रजापतिः राजा अपि अन्यतमः आसीत् । प्रजापतिः शालिक्षेत्रं गन्तुं सज्जः अभवत् । किन्तु त्रिपृष्ठेन आग्रहपूर्वकं प्रजापतिः अवरुद्धः ।
त्रिपृष्ठः अचलेन सह शालिक्षेत्रं प्रापत् । त्रिपृष्ठः विचारितवान् यत् – “यदा सिंहस्य वधं करिष्यामि, तदैव जनाः सुखिनः भविष्यन्ति । अतः सिंहस्य नाशः आवश्यकः वर्तते । जनेभ्यः सिंहविषयिकीं समस्यां ज्ञात्वा द्वौ भ्रातरौ सिंहं हन्तुं सिंहस्य गुहां प्रति प्रस्थितवन्तौ । तत्र गत्वा ताभ्याम् उग्रस्वरेण सिंहः आहूतः । उग्रस्वरं श्रुत्वा सिंहः क्रुद्धः जातः । सिंहः गुहायाः बहिरागतः । सिंहं दृष्ट्वा त्रिपृष्ठेन विचारितं यत् - “सिंहः शस्त्रहीनः, रथहीनः च अस्ति । मया अपि शस्त्रस्य रथस्य च उपयोगः न करणीयः” इति । अतः सः शस्त्रहीनः, रथहीनः च युद्धं कर्तुं सज्जः अभवत् । सिंहेन त्रिपृष्ठस्योपरि आक्रमणं कृतम् । त्रिपृष्ठेन अपि विद्युद्वेगेन सिंहस्योपरि आक्रमणं कृतम् आसीत् । त्रिपृष्ठेन हस्ताभ्यां सिंहः हतः ।
सिंहस्य हत्यायाः सन्देशं प्राप्य अश्वग्रीवः भीतः जातः । “त्रिपृष्ठः एव मे मृत्योः कारणं भविष्यति” इति अश्वग्रीवेण विचारितम् । अतः तेन प्रजापतये सन्देशः प्रेषितः यत् – “भवतः राजकुमारौ वीरौ स्तः । अतः कृतस्य पराक्रमस्य निमित्तं ताभ्यां राजकुमाराभ्यां पुरस्कारं दातुम् इच्छामि । तेन कारणेन तौ अत्र प्रेषयतु” ।
त्रिपृष्ठेन प्रत्युत्तरं प्रदत्तं यत् – “यः सिंहम् अपि हन्तुम् असमर्थः अस्ति, तस्य कमपि पुरस्कारम् आवां न स्वीकरिष्यावः । अनेन प्रत्युत्तरेण प्रतिवासुदेवः अश्वग्रीवः क्रुद्धः अभवत् । सः युद्धं कर्तुं निर्गतः । त्रिपृष्ठाश्वग्रीवयोः भयङ्करं युद्धम् अभवत् । युद्धे त्रिपृष्ठेन सुदर्शनचक्रेण अश्वग्रीवः हतः । तदैव त्रिपृष्ठः प्रथमः वासुदेवः, अचलः प्रथमः बलदेवः अभवत् ।
समयान्तरे द्वौ भ्रातरौ भगवद्भक्तौ अभवताम् । वासुदेवः क्रूरः शासकः आसीत् । सः क्रूरतया शासनं करोति स्म । शासनविरुद्धं कार्यं तस्मै न रोचते स्म । तेन तस्मिन् जन्मनि बहूनि हिंसकानि कार्याणि कृतानि आसन् । अतः सः सप्तमं नरकं गतवान् ।
त्रिपृष्ठस्य सम्पूर्णम् आयुष्यं चतुरशीतिलक्षवर्षाणाम् आसीत् । तेषु वर्षेषु तेन पञ्चविंशतिसहस्रं वर्षाणि बाल्यावस्थायां, पञ्चविंशतिसहस्रं वर्षाणि माण्डलिकराजास्वरूपेण, एकसहस्रं वर्षाणि दिग्विजयाय च भुक्तानि आसन् । अवशिष्टानि एकोनपञ्चाशदधिकत्र्याशीतिलक्षं वर्षाणि वासुदेवस्वरूपेण व्यतीतानि आसन् । वासुदेवत्रिपृष्ठस्य मृत्योः अनन्तरं बलदेवेन अचलेन भगवतः दीक्षा स्वीकृता । अन्ते सः सिद्धत्वं प्राप्तवान् ।
एकोनविंशतितमे भवे नयसारस्य जीवः सप्तमे नरके अप्रतिष्ठाननरकावासे अवतीर्णः । तस्मिन् जन्मनि सः त्रयस्त्रिंशत् सागरमात्रात्मकम् आयुष्यं प्रापत् ।
विंशतितमः, एकविंशतितमः च भवः
सम्पादयतुविंशतितमे भवे नयसारस्य जीवः सिंहयोनौ अवतीर्णः । अनन्तरम् एकविंशतितमे भवे चतुर्थे नरके नैरयिकः अभवत् । नरकस्य आयुष्यं समाप्य तस्य जीवेन बहुषु क्षुद्रभवेषु परिभ्रमणं कृतम् आसीत् । ते भवाः सप्तविंशतिभवेषु न गण्यन्ते ।
द्वाविंशतितमः भवः
सम्पादयतुरथनपुरनगरे प्रियमित्रः नामकः राजा आसीत् । तस्य विमला-नामिका राज्ञी आसीत् । विमलायाः गर्भं नयसारस्य जीवः प्राविशत् । नवमासानन्तरं तस्य जन्म अभवत् । तस्य राजकुमारस्य नाम विमलः इति कृतम् । यदा विमलः यौवनावस्थां प्राविशत्, तदा श्रेष्ठकन्यया सह तस्य विवाहं कारितवान् । प्रियमित्रराज्ञा विमलस्य राज्याभिषेकं कृत्वा, विमलाय राज्यस्य दायित्वं प्रदत्तम् आसीत् ।
राजा विमलः नीतिज्ञः आसीत् । एकदा सः अटितुं वनं गतवान् आसीत् । वने सः दृष्टवान् यत् – “केनचित् व्याधेन बहवः मृगाः बद्धाः” । अतः विमलेन व्याधः अवबोधितः । व्याधः सर्वेभ्यः मृगेभ्यः मुक्तिम् अददात् । अनेन प्रसङ्गेन विमलः चारित्रग्रहणं कृतवान् । राज्ञः विमलस्य कार्यैः त्रयोविंशतितमे भवे अपि मनुष्यजन्म अभवत् ।
त्रयोविंशतितमः, चतुर्विंशतितमः च भवः
सम्पादयतुपश्चिममहाविदेहक्षेत्रे मूका-नामिका नगरी आसीत् । तस्याः नगर्याः राजा धनञ्जयः आसीत् । धारिणीदेवी-नामिकायाः तस्य पत्नी आसीत् । एकदा धारिणीदेव्या रात्रौ चतुर्दशस्वप्नाः दृष्टाः । तस्यां रात्रौ धारिणीदेव्याः गर्भे नयसारस्य जीवः स्थितः । तस्य नाम प्रियमित्रः आसीत् । यदा प्रियमित्रः यौवनं प्रापत्, तदा धनञ्जयेन प्रियमित्रस्य राज्याभिषेकः कृतः । अनन्तरं तस्मै राज्यस्य दायित्वं प्रदत्तम् आसीत् ।
एकदा राज्यस्य आयुधशालायाम् एकं चक्ररत्नं समुद्भूतम् । तेन चक्ररत्नेन प्रियमित्रेण षट्खण्डाः जिताः । तेन सः चक्रवर्ती राजा अभवत् । दीर्घकालानन्तरं प्रियमित्रः पोट्टिलाचार्यात् दीक्षाम् अङ्गीकृतवान् । प्रियमित्रस्य सम्पूर्णम् आयुष्यं चतुरशीतिलक्षपूर्ववर्षाणाम् आसीत् । मृत्योः अनन्तरं तस्य जीवः महाशुक्र-नामके सप्तमे देवलोके सर्वार्थनामके विमाने महर्द्धिकदेवः अभवत् । तस्य आयुष्यं सप्ततिसागरमात्रात्मकम् आसीत् ।
पञ्चविंशतितमः, षड्विंशतितमः च भवः
सम्पादयतुसप्तमदेवलोकस्य आयुष्यं समाप्य नयसारस्य जीवः जम्बूद्वीपस्य भरतक्षेत्रस्य छत्रा-नामिकायां नगर्याम् अवतीर्णः । तस्याः नगर्याः राजा जितशत्रुः आसीत् । भद्रा-नामिका जितशत्रोः पत्नी आसीत् । भद्रा नन्दन-नामकम् एकं पुत्रम् अजीजनत् । यदा नन्दनः यौवनावस्थां सम्प्रापत्, तदा जितशत्रुणा राज्यस्य दायित्वं नन्दनाय प्रदत्तम् आसीत् । अनन्तरं जितशत्रुः दीक्षाम् अङ्गीकृतवान् ।
पञ्चविंशतिलक्षवर्षाणां नन्दनस्य आयुष्यम् आसीत् । तेषु चतुर्विंशतिलक्षवर्षाणि गृहस्थावस्थायां व्यतीतानि । ततः परं नन्दनः पोट्टिलाचार्यात् दीक्षां प्रापत् । दीक्षानन्तरं नन्दनः एकलक्षं वर्षाणाम् आयुष्यं भुक्तवान् । नन्दनः एकादशाङ्गानाम् अध्ययनं कृत्वा कठोरतपस्वी अभवत् । अन्ते नन्दनेन एकमासस्य अनशनं कृत्वा समाधिः कृतः ।
षड्विंशतितमे भवे नयसारस्य जीवः प्राणत-नामके दशमे देवलोकस्य पुष्पोत्तरविमाने देवः अभवत् । तत्र सः विंशतिसागरमात्रात्मकम् आयुष्यं भुक्तवान् ।
अनेन प्रकारेण भगवान् सप्तविंशतिभवानां यात्रां चकार । अन्तिमे सप्तविंशतितमे भवे नयसारस्य जीवः महावीरस्य स्वरूपेण अवतीर्णवान् ।
बालकस्य जन्मनः एकादशदिनानाम् अनन्तरं नामकरणसंस्कारविधिः करणीयः भवति । अतः भगवतः महावीरस्य जन्मनः एकादश दिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनैः उत्सवः अपि आचरितः आसीत् । बहवः देवाः स्वर्गलोकात् अपि समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । तीर्थङ्करस्य सर्वेषु उत्सवेषु देवाः उपस्थिताः भवन्ति एव ।
राज्ये जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकः नामकरणस्य चर्चा जाता । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । किन्तु देवैः गर्भकाले घटितानां घटनानाम् उल्लेखं कर्तुं राजा उक्तः । अतः राज्ञा गर्भकालस्य घटना श्राविता यत् – “यावत् अयं बालकः गर्भे आगतवान् आसीत्, तावत् अस्माकं राज्ये धनधान्यवृद्धिः अभवत्” । अतः अस्य बालकस्य नाम वर्धमानः इति करणीयम्” [६]। सर्वे जनाः समर्थनं प्रदत्तवन्तः ।
अनन्तरम् अन्यानि अपि नामानि अभवन् यथा – महावीरः, श्रमनः, ज्ञातपुत्रः इत्यादयः । तेषु महावीरः इति अत्यधिकं प्रचलितं नाम अस्ति ।
विद्यालयप्रसङ्गः
सम्पादयतुयदा वर्धमानः अष्टवर्षीयः अभवत्, तदा सिद्धार्थः तं पाठयितुम् अनयत् । शकेन्द्रः सर्वं दृष्ट्वा चकितः अभवत् । “वर्धमानः त्रिकालज्ञः अस्ति तथापि सिद्धार्थः वर्धमानं पाठयितुं नीतवान् । कलाचार्यः वर्धमानं किं पाठयिष्यति ?” इति शकेन्द्रेण विचारितम् ।
“वर्धमानः त्रिकालज्ञः अस्ति” इति जनाः न जानन्ति स्म । अतः शक्रः स्वयमेव आगतवान् । यदा उपाध्यायः अध्ययनारम्भं कुर्वन् अस्ति, तदैव शकेन्द्रः वृद्धब्राह्मणस्वरूपेण विद्यालयं प्राप्तवान् । उपाध्यायस्य समीपं गत्वा इन्द्रेण व्याकरणविषयकाः प्रश्नाः पृष्टाः । उपाध्यायः प्रश्नानाम् उत्तराणि दातुम् असमर्थः अभवत् । ते एव प्रश्नाः शक्रेण वर्धमानं प्रति पृष्टाः । तदा वर्धमानः सर्वेषां प्रश्नानाम् उत्तराणि प्रदत्तवान् । उपाध्यायः स्तब्धः जातः । उपाध्यायः विचारितवान् यत् – “इमं बालकम् अहं किं पाठयिष्यामि ? अयं तु स्वयं दक्षः ।
अनन्तरम् इन्द्रः वास्तविकं स्वरूपं धृत्वा वर्धमानस्य परिचयं प्रदत्तवान् । सर्वे जनाः प्रफुल्लिताः अभवन् । ततः परम् उपाध्यायेन वर्धमानः राजप्रासादं प्रति आनीतः । तदा वर्धमानस्य (महावीर) मुखात् यानि वचांसि निर्गतानि, तानि एव “ऐन्द्रव्याकरणम्” इति नाम्ना प्रसिद्धाः जाताः इति अनुमानम् [७]।
समयान्तरे वर्धमानः तारुण्यं प्रापत् । राज्ञा सिद्धार्थेन वर्धमानस्य विवाहस्य विचारः कृतः । सिद्धार्थः वर्धमानस्य मित्रेभ्यः वर्धमानस्य विवाहस्य दायित्वम् अददात् । एकदा वर्धमानः मित्रैः सह वार्तालापं कुर्वन् आसीत् । तस्मिन् दिवसे चर्चायाः विषयः आसीत् – “विवाहः” । विवाहस्य विरोधस्य चर्चा अभवत् । तत्क्षणम् एव माता त्रिशला उक्तवती यत् – “यदि भवतः विवाहस्य इच्छा नास्ति, तथापि मे इच्छा अस्ति इति विचार्य त्वया विवाहः अवश्यं करणीयः भविष्यति” ।
वर्धमानः किमपि वक्तुम् असमर्थः आसीत् । अतः सः मौनम् अभजत् । “वर्धमानस्य विवाहः भविष्यति” इति त्रिशलया सम्पूर्णे राज्ये घोषणा कारिता । बसन्तपुर-नगरस्य राजा समरवीरः आसीत् । तस्य पत्नी पद्मावती आसीत् । यशोदा-नामिका राज्ञः पुत्री आसीत् । तया सह वर्धमानस्य विवाहः अभवत् । विवाहानन्तरं तौ अनासक्तत्वेन जीवनं यापयतः स्म ।
समयान्तरे यशोदा एकां पुत्रीम् अजीजनत् । “प्रियदर्शना” इति तस्याः नामकरणं कृतम् । तस्याः जमालि-नामकेन राजकुमारेण सह तस्याः विवाहः अभवत् । दिगम्बरसम्प्रदाये वर्धमानस्य विवाहस्य वर्णनम् एव न लभ्यते । दिगम्बरसम्प्रदाये वर्धमानः बालब्रह्मचारी मन्यते [८]।
दीक्षा
सम्पादयतुमहावीरस्य (वर्धमान) पिता, माता च भगवतः पार्श्वनाथस्य परम्परायाः श्रमणोपासकः आसीत् । महावीरः आरम्भादेव विरक्तः आसीत् । किन्तु मातृपित्रोः स्नेहवशात् सः दीक्षाविषयिकीं चर्चां न करोति स्म । तेन गर्भे एव प्रतिज्ञा कृता आसीत् यत् – “यावत् पर्यन्तं मे पितरौ जीविष्यतः, तावत्पर्यन्तम् अहं दीक्षां न स्वीकरिष्ये” ।
यदा महावीरः अष्टाविंशतिवर्षीयः आसीत्, तदा तस्य पितृभ्यां (सिद्धार्थः, त्रिशला च) दीक्षा स्वीकृता । अनन्तरं ताभ्याम् अनशनं कृतम् । समाध्यन्ते तौ अच्युतनामके द्वादशे देवलोके महर्द्धिकदेवौ अभवताम् । पित्रोः मृत्योः अनन्तरं महावीरेण नन्दीवर्धनः इत्याख्यः ज्येष्ठभ्राता पृष्टः यत् – “मह्यं दीक्षायै आज्ञां ददातु” इति । किन्तु नन्दीवर्धनेन उक्तं यत् – “इदानीं पित्रोः दुःखं वर्तते, तथापि भवान् दीक्षायाः चर्चां कुर्वन् अस्ति । यावत् मे मनः स्वस्थं मा भवेत्, तावत् दीक्षायाः चर्चां मा करोतु” इति । अतः नन्दीवर्धनेन महावीराय वर्षद्वयस्यावधिः प्रदत्तः ।
यदा वर्षद्वयं व्यतीतं जातं, तदा लोकान्तिकदेवाः, इन्द्राः च महावीरं दीक्षायै अवबोधयितुम् आगताः । महावीरः वार्षिकीदानं कर्तुं सज्जः अभवत् । स्वर्गलोकात् लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः च तत्र समागताः । इन्द्रैः, देवैः च वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवता महावीरेण वार्षिकीदानम् आरब्धम् । सः प्रतिदिनम् एकप्रहरपर्यन्तम् अष्टलक्षाधिकैककोटिसुवर्णमुद्रिकाणां दानं करोति स्म । एकवर्षं यावत् तेन वार्षिकीदानं कृतमासीत् । एकवर्षे सः अशीतिलक्षोत्तराष्टाशीतिकोट्युत्तरत्र्यर्बुदं सुवर्णमुद्रिकाणां जनेभ्यः दानम् अददात् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।
राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः, दुःखिनश्च अभवन् । यतः राज्ञः स्वभावः शान्तः, प्रभावी च आसीत् । यदा वार्षिकीदानं पूर्णमभवत्, तदा कार्त्तिक-मासस्य कृष्णपक्षस्य दशम्यां तिथौ उत्तराषाढा-नक्षत्रे भगवान् महावीरः सहस्रजनैः सह क्षत्रियकुण्ड-नगरस्य सहस्राम्रोद्यानं प्राप्तवान् । उद्याने देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षं भगवता महावीरेण दीक्षा स्वीकृता [९]। भगवान् महावीरः विचरन् कुमरि-ग्रामं प्रापत् । तत्र भगवान् ध्यानावस्थितः अभूत् । दीक्षानन्तरं महावीरस्य जीवने बहवः उपसर्गाः आगताः ।
साधनायाम् उपसर्गाः
सम्पादयतुभगवता महावीरेण दीक्षानन्तरं साधनायां स्वस्य जीवनं यापितम् आसीत् । प्रथमतः त्रयोविंशतीर्थङ्करं यावत् सर्वैः तीर्थङ्करैः साधना कृता । किन्तु महावीरेण सर्वेभ्यः तीर्थङ्करेभ्यः सर्वाधिकसाधना कृता आसीत् । महावीरस्य कर्माणि अपि अत्यधिकानि आसन् । तेन कारणेन जीवने उपसर्गाः अपि अत्यधिकाः अभवन् [१०]।
उपसर्गाः
सम्पादयतुभगवान् महावीरः विचरन् कुमरि-नामकं ग्रामं प्रापत् । तत्र सः ध्यानावस्थायाम् आसीत् । तदा केचन गोपालकाः तत्र समागतवन्तः । गोपालकाः तेषां वृषभान् तत्र एव त्यक्त्वा ग्रामं गतवन्तः । यदा गोपालकाः पुनः आगतवन्तः, तदा गोपालकैः वृषभाः न दृष्टाः । अतः गोपालकाः क्रुद्धाः अभवन् । गोपाकलैः महावीरः पृष्टः यत् – “अस्माकं वृषभाः कुत्र सन्ति” । किन्तु महावीरेण किमपि न उक्तम्, सः मौनम् अभजत् च । गोपालकाः वृषभान् अन्वेष्टुं प्रस्थितवन्तः । किन्तु कुत्रापि वृषभाः न प्राप्ताः । वृषभाः चरन्तः पुनः महावीरस्य समीपम् आगतवन्तः आसीत् । यदा गोपालकाः सर्वत्र वृषभान् अन्विष्य स्वगृहं गच्छन्तः स्म, तदा ते महावीरस्य समीपे वृषभान् दृष्टवन्तः । गोपालकाः क्रुद्धाः आसन् । अतः ते महावीरस्य तिरस्कारं कृत्वा महावीरं ताडितवन्तः ।
इन्द्रः अवधिज्ञानेन अयं प्रसङ्गः दृष्टवान् । सः त्वरितमेव तत्स्थलं प्राप्तवान् । तेन गोपालकाः अवबोधिताः । अनन्तरं गोपालकाः ततः निर्गताः । इन्द्रेण भगवान् महावीरः उक्तः यत् – “ प्रभो ! भवतः नैकानि कर्माणि सन्ति । अतः उपसर्गाः अपि बहवः भविष्यन्ति । यदि भवान् आज्ञापयेत्, चेत् अहं भवतः सेवां करिष्यामि” । तदा भगवान् उक्तवान् यत् – “इन्द्र ! तीर्थङ्कराः आश्रिताः न भवन्ति । ते स्वसामर्थ्येण एव साधनां कुर्वन्ति । अतः मह्यं कस्यापि जनस्य साहाय्यस्यावश्यकता नास्ति ।
आगामिदिने भगवान् तस्मात् स्थानात् कोल्लागसन्निवेशं प्राप्तवान् । तत्र सः कस्यचित् ब्राह्मणस्य गृहे क्षीरान्नं भुक्तवान् ।
भगवतः महावीरस्य रहस्यकाले बहवः उपसर्गाः उद्भूताः । भगवतः रहस्यकालः कष्टमयः आसीत् । आचाराङ्गसूत्रे, कल्पसूत्रे च भगवतः महावीरस्य उत्तमसाधनायाः वर्णनं लभ्यते । दीक्षानन्तरम् इन्द्रेण भगवते एकं वस्त्रं प्रदत्तम् आसीत् । तद्वस्त्रं त्रयोदशमासान् यावत् भगवतः स्कन्धे स्थितम् आसीत् । अनन्तरं तद्वस्त्रं कुत्रचिद् निपतितम् । तावदेव भगवान् महावीरः निर्वस्त्रम् एव भ्रमणं करोति स्म ।
दीक्षासमये भगवतः शरीरे देवैः सुगन्धितद्रव्यैः लेपनं कृतम् आसीत् । तेन भगवतः शरीरं सुगन्धमयं जातम् । यत्र यत्र भगवान् साधनायै गच्छति स्म, तत्र तत्र वने ये भ्रमराः आसन्, ते सुगन्धेन आकृष्टाः भ्रमराः, कीटकाः, युवकाः, युवत्यः च भगवतः समीपम् आगच्छन्ति स्म । तेषु कीटकाः, भ्रमराः च भगवतः रक्तं पिबन्ति स्म, मांसं खादन्ति स्म च । तथापि महावीरः मेरुपर्वतः इव तिष्ठति स्म । युवकाः सुगन्धितद्रव्यं प्राप्तुम् उत्सुकाः आसन् । अतः ते भगवन्तं प्रार्थितवन्तः यत् – “अस्मभ्यम् अपि एतत् सुगन्धितद्रव्यं ददातु” इति । किन्तु मौनकारणात् भगवान् महावीरः किमपि न वदति स्म । तेन खिन्नाः युवकाः महावीराय कष्टं ददति स्म । इतः परं वनस्थाः युवत्यः अपि महावीरस्य सौन्दर्येण, बलवच्छरीरेण च आकृष्टाः भवन्ति स्म । किन्तु भगवतः काऽपि प्रतिक्रिया नासीत् । अतः ताः अपि महावीराय कष्टं ददति स्म । तथापि महावीरस्य साधनायाः भङ्गः न भवति स्म ।
साधनायाः प्रथमवर्षम्
सम्पादयतुसमयान्तरे भगवान् कोल्लाग-सन्निवेशतः मोराक-सन्निवेशम् आगतवान् । तत्र एकः आश्रमः आसीत् । तस्य कुलपतिः राज्ञः सिद्धार्थस्य मित्रम् आसीत् । महावीरं दृष्ट्वा आश्रमस्य कुलपतिः स्वागतं चकार । कुलपतिना चातुर्मास्यपर्यन्तम् आश्रमे एव निवसितुं महावीरः प्रार्थितः । महावीरः कुलपतेः प्रार्थनां स्वीकृतवान् । आश्रमे बहवः तपस्विनः आसन् । वर्षाकाले वृष्टेः अभावात् सर्वे जनाः, प्राणिनः च क्षुधाग्रस्ताः आसन् । अतः प्राणिनः पर्णकुटीराणां पर्णानि खादन्ति स्म । भगवान् महावीरः ध्यानस्थः आसीत् । अतः सः पर्णकुटीरस्य रक्षणं न करोति स्म । तेन अन्ये तपस्विनः महावीरात् खिन्नाः भवन्ति स्म । तपस्विनां दुर्व्यवहारं दृष्ट्वा महावीरः आश्रमं त्यक्तवान् ।
यक्षोपद्रवः
सम्पादयतुभगवान् मोराक-सन्निवेशतः अस्थिग्रामं प्राप्तवान् । तस्मिन् ग्रामे शूलपाणियक्षस्य एकं मन्दिरम् आसीत् । तस्मिन् मन्दिरे भगवान् निवासं कर्तुम् इच्छति स्म । यक्षस्य स्वभावः क्रूरः आसीत् । सः रात्रौ उत्पातं करोति स्म । तस्यां रात्रौ भगवान् ध्यानस्थः आसीत् । तदा यक्षः आगत्य महावीराय विविधप्रकारकाणि कष्टानि अददात् । तथापि महावीरः विचलितः न अभवत् । महावीरस्य प्रभावात् यक्षः भयभीतः जातः । अन्ते भगवन्तं नमस्कृत्य यक्षः ततः निर्गतवान् । ततः परं सम्पूर्णा रात्रिः उपसर्गरहीता व्यतीता ।
साधनायाः द्वितीयवर्षम्
सम्पादयतुअस्थिग्रामतः भगवान् वाचाला-क्षेत्रं प्राप्तवान् । वाचालाक्षेत्रस्य सन्निवेशद्वयम् आसीत् । उत्तरवाचाला, दक्षिणवाचाला च । द्वयोः सन्निवेशयोः मध्ये द्वे नद्यौ वहतः स्म । इन्द्रेण महावीराय प्रदत्तं वस्त्रं तस्मिन् मार्गे एव निपतितम् आसीत् ।
भगवान् उत्तरवाचाला-सन्निवेशं प्रति गच्छन् आसीत् । मार्गे बहवः अवरोधाः आगताः । मार्गे चण्डकौशिक-नामकः एकः सर्पः निवसन् आसीत् । सः सर्पः भयानकः आसीत् । स्वस्य दृष्टिपातेन एव जनं भस्मीकरोति स्म । अतः जनाः तस्मिन् मार्गे न गच्छन्ति स्म । किन्तु महावीरः तस्मिन् मार्गे एव गच्छन् आसीत् । मार्गे चण्डकौशिकसर्पस्य निवासक्षेत्रे भगवान् ध्यानारूढः अभवत् । सांयकाले यदा चण्डकौशिकः सर्पः भ्रमणं कृत्वा पुनः स्वस्थानं प्रापत्, तदा तेन एकः ऋषिः दृष्टः । ऋषिं दृष्ट्वा चण्डकौशिकः क्रुद्धः जातः । सर्पेण महावीराय विषदृष्ट्या कष्टम् अदीयत । किन्तु भगवति सर्पस्य विषदृष्ट्याः प्रभावः एव न अभवत् । अनन्तरं तेन भगवान् दंशितः । तथापि भगवतः ध्यानावस्थायाम् एव आसीत् । यदा सर्पः पादे दंशितवान्, तदा पादात् श्वेतरक्तधारा प्रस्फुटिता । रक्ते दुग्धस्य आस्वादनेन चण्डकौशिकसर्पः आश्चर्यचकितः जातः । महावीरेण प्रभावितः चण्डकौशिकः सर्पः महावीरस्य पूजां कृतवान् । चण्डकौशिकः ततः निर्गतवान् । स्वस्य अपराधान् स्मृत्वा चण्डकौशिकः पाश्चात्तापं कृतवान् ।
साधनायाः तृतीयचतुर्थवर्षे
सम्पादयतुचातुर्मास्यस्य समाप्त्यनन्तरं भगवान् महावीरः कोल्लाग-सन्निवेशं प्राप्तवान् । किञ्चित्समयं यावत् सः तत्र तपस्यां चकार । अनन्तरं ततः चम्पानगरं गतवान् । तत्र तृतीयः चतुर्थश्च चातुर्मास्यस्य व्यतीतः जातः ।
साधनायाः पञ्चमवर्षम्
सम्पादयतुभगवान् चम्पा-नगरतः क्यङ्गलानगरीं, श्रावस्तीनगरीं च प्राप्तवान् । श्रावस्ती-नगर्याः वने कस्यचिद् हलिदुग-नामकस्य वृक्षस्याधः भगवान् ध्यानावस्थः अभवत् । वने अग्निः दह्यमाना आसीत् । तेन अग्निना हलिदुगवृक्षः अपि दह्यमानः आसीत् । अग्निना भगवतः पादौ अपि दग्धौ जातौ । अतः भगवान् तत्स्थानं त्यक्तवान् । अनन्तरं भगवान् कलम्बुआ-सन्निवेशं प्राप्तवान् । तत्र मेघः, कालहस्ती च नामकौ अधिकारिणौ आस्ताम् । तौ भूमिपती आस्ताम्, तथापि जनान् लुण्ठयतः स्म । यदा भगवान् महावीरः कलम्बुआ प्राप्तवान् आसीत्, तदा तौ अधिकारिणौ जनान् लुण्ठयन्तौ आस्ताम् । कालहस्ती महावीरं दृष्ट्वा तस्मै प्रश्नाः पृष्टवान् । महावीरेण किमपि उत्तरं न प्रदत्तम् । तेन क्रुद्धः कालहस्ती महावीरं ताडितवान् । तथापि महावीरः किमपि न उक्तवान् । यदा महावीरस्य मेलनं मेघेन सह अभवत्, तदा मेघः स्मृतवान् यत् – ’अयं तपस्वी अस्ति” इति । मेघः महावीरस्य सत्कारं चकार, क्षमां ययाच च ।
भगवान् महावीरः विचारितवान् यत् – “मया बहूनां कर्मणां नाशः कर्त्तव्यः अस्ति” अत्र परिचिताः जनाः मिलन्ति । अतः मया अज्ञातप्रदेशः गन्तव्यः । तदा सः लाढ-देशं प्रति प्रस्थितवान् । लाढ-देशस्य भागद्वयम् आसीत् । व्रजभूमिः, शुभभूमिः च । लाढ-देशे भगवतः साधनायां बहवः उपसर्गाः समुद्भूताः । यथा –
- भगवते निवासार्थं सानुकूलः आवासः न प्राप्तः । अतः भगवता वने एव निवासः कृतः । तेन तत्रैव साधना कृता आसीत् ।
- आहारार्थम् अपि भगवते भोजनं न लभ्यते स्म । शुष्कान्नमपि न प्राप्यते स्म ।
- यदा कदापि सः ग्रामं गच्छति स्म, तदा जनाः तं ताडयन्ति स्म, मार्गम् अवरोधयन्ति स्म च ।
एतादृशाः उपसर्गाः तस्मिन् देशे समुद्भूताः आसन् । तेन भगवता महती कर्मनिर्जरा कृता । यदा महावीरः आर्यप्रदेशं प्रति गच्छन् आसीत्, तदा सः पूर्णकलश-नामिकाम् आर्यरहितां नगरीं प्राप्तवान् । मार्गे गमने सति चौराः मिलितवन्तः । यदा महावीरं दृष्ट्वा चौराः शस्त्रैः ताडयितुं प्रयासं कृतवन्तः, तदा इन्द्रेण आगत्य चौराः अवरोधिताः । अनन्तरं भगवान् महावीरः आर्यदेशस्य मलय-क्षेत्रस्य भद्दिला-नामिकां नगरीं प्रापत् । तत्र महावीरेण चातुर्मास्यम् अनुष्ठितम् ।
साधनायाः षष्ठवर्षम्
सम्पादयतुभद्दिला-नगरीतः भगवान् महावीरः तम्बाय-सन्निवेशं प्राप्तवान् । अनन्तरं ततः सः कूपिय-सन्निवेशं सम्प्रापत् । महावीरेण सह कश्चन गोशालकः अपि विचरन् आसीत् । यदा तौ कूपिय-सन्निवेशं प्राप्तवन्तौ, तदा सर्वे जनाः तौ गुप्तचरौ ज्ञात्वा ताडितवन्तः । कूपिय-सन्निवेशे पार्श्वनाथस्य परम्परा प्रचलन्ती आसीत् । तस्याः परम्परायाः विजया, प्रगल्भा इति नामिके परिव्राजके आगत्य सर्वान् बोधितवत्यौ । ताभ्यां महावीरस्य परिचयः प्रदत्तः । तदा सर्वे जनाः महावीराय मुक्तिम् अददुः ।
अनन्तरं गोशालकेन महावीरः त्यक्तः । यतो हि महावीरः सर्वदा मौनम् एव भजति स्म । महावीरः मौनवशात् गोशालकस्य रक्षणम् अपि कर्तुं न शक्नोति स्म । अतः गोशालकः महावीरं त्यक्त्वा राजगृह-नगरं प्रति प्रस्थितवान् । भगवान् महावीरः वैशाली-नगरं गतवान् । वैशाली-नगरे कस्यचित् लोहकारस्य कार्यशाला आसीत् । भगवान् महावीरः तस्य लोहकारस्य अनुमतिं प्राप्य कार्यशालां प्राविशत् । कार्यशालायां महावीरः ध्यानावस्थां प्रापत् । तस्याः कार्यशालायाः एकः लोहकारः रुग्णः आसीत् । अतः तस्मिन् स्वस्थे सति यदा कार्यशालां गतवान्, तदा सः महावीरं दृष्ट्वा क्रुद्धः अभवत् । तेन मुद्गरेण महावीरं हन्तुं प्रयासः कृतः । किन्तु सहसा एव तस्य लोहकारस्य हस्तौ स्थिरौ अभवताम् । तेन तस्य प्रहारः निष्फलः जातः । भगवान् महावीरः वैशाली-नगरम् अत्यजत् ।
महावीरः वैशाली-नगरानन्तरं ग्रामक-सन्निवेशं, शालिशीर्ष-ग्रामस्योद्यानं, भद्दिया-नगरीं च गतवान् । भद्दिया-नगर्यां भगवता चातुर्मास्यतपः अनुष्ठितम् । गोशालकः अपि पुनः महावीरेण सह सम्मिलितवान् ।
साधनायाः सप्तमवर्षम्
सम्पादयतुभद्दिया-नगरीतः महावीरः मगध-देशं यावत् विचरितवान् । अनन्तरम् आलम्भिया नगरे तेन चातुर्मास्यतपः कृतम् । साधनायाः सप्तमं वर्षम् उपसर्गरहितम् आसीत् ।
साधनायाः अष्टमवर्षम्
सम्पादयतुअष्टमे वर्षे भगवान् महावीरः लोहार्गल-सन्निवेशं प्राप्तवान् । जितशत्रुः तत्रत्यः राजा आसीत् । “महावीरः शत्रुः अस्ति” इति विचिन्त्य सैनिकैः महावीरः बद्धः । तत्र अस्थिग्रामस्य ज्योतिषाचार्यः अपि आसीत् । तेन आचार्ये महावीरः ज्ञातः । अनन्तरं ज्योतिषाचार्यः महावीरस्य परिचयम् अददात् । ततः भगवान् राजगृह-नगरं गतवान् । राजगृह-नगरे महावीरेण चातुर्मास्यं तपः कृतम् ।
साधनायाः नवमवर्षम्
सम्पादयतुनवमे वर्षे भगवान् पुनः आर्यरहितेषु प्रदेशेषु साधनां कर्तुं प्रस्थितवान् । अनार्यप्रदेशं प्राप्य तत्र तेन साधना आरब्धा । तत्रत्याः जनाः भगवते बहूनि कष्टानि ददति स्म । भगवता विचारितं यत् – “एतत् स्थानं चातुर्मास्यं कर्तुं योग्यं नास्ति” इति । अतः तेन चलन् एव चातुर्मास्यस्य तपः पूर्णं कृतम् ।
साधनायाः दशमवर्षम्
सम्पादयतुदशमे वर्षे भगवान् पुनः आर्यप्रदेशं प्राप्तवान् । गोशालकः अपि महावीरेण सह एव आसीत् । तत्र कूर्म-नामकः ग्रामः आसीत् । तस्मिन् ग्रामे वैशम्पायनः – इत्याख्यः तपस्वी आसीत् । गोशालकं दृष्ट्वा तपस्वी क्रुद्धः अभवत् । वैशम्पायनेन गोशालकं ताडयितुं तेजोलेश्यायाः प्रयोगः कृतः । किन्तु महावीरेण शीतललेश्यया तेजोलेश्या पराजिता । तद्दृष्ट्वा वैशम्पायनः चकितः अभवत् । अन्ते वैशम्पायनः भगवतः शक्तिम् अवगतवान् । वैशम्पायनः भगवते क्षमां ययाच । ततः परं भगवान् श्रावस्ती-नगरीं प्राप्तवन् । तत्र महावीरेण चातुर्मास्यस्य तपः कृतम् ।
साधनायाः एकादशवर्षम्
सम्पादयतुभगवतः एकादशवर्षं सानुलठ्ठीय-सन्निवेशे व्यतीतम् । तत्र भगवता नैकेषु स्वरूपेषु साधना कृता । “आनन्द गाथापति” इत्याख्यस्य सेविका उच्छिष्टम्, अवशिष्टम् च अन्नं क्षिप्तवती । तत्क्षिप्तेन अन्नेन भगवता भोजनं कृतम् ।
एकदा देवलोके इन्द्रः भगवतः महावीरस्य अचलतपस्यायाः प्रशंसां कुर्वन् आसीत् । सर्वे देवाः इन्द्राय समर्थनं प्रदत्तवन्तः । किन्तु संयम-नामकेन देवेन विरोधः कृतः । संयमः महावीरस्य तपस्यां विचालयितुं विचारितवान् । संयमेन साधनां विचालयितुं षण्मासात्मकः समयः याचितः । अनन्तरं सः मृत्युलोकं प्रापत् । षण्मासान् यावत् संयमेन महावीराय बहूनि असहनीयानि कष्टानि प्रदत्तानि । तथापि भगवतः साधना विचलिता न अभवत् । षण्मासानाम् अन्ते इन्द्रः मृत्युलोकं प्राप्तवान् । इन्द्रः संयमात् क्रुद्धः आसीत् । यतः संयमेन महावीराय बहूनि कष्टानि प्रदत्तानि । अतः इन्द्रेण देवलोकात् संयमः निष्कासितः ।
तेषाम् उपसर्गाणाम् अन्ते भगवान् महावीरः वज्र-नामके ग्रामे क्षीरान्नं भुक्तवान् । अनन्तरं सः पुनः वैशाली-नगरं प्राप्तवान् । तत्र तेन चातुर्मास्यं तपः कृतम् ।
साधनायाः द्वादशवर्षम्
सम्पादयतुवैशाली-नगरे चातुर्मासान् समाप्य भगवान् सुंसुमार-नगरं प्रापत् । तत्र अशोकवृक्षस्याधः महावीरः ध्यानावस्थां प्राविशत् । किञ्चित्समयान्तरे भगवान् महावीरः सुंसुमार-नगरतः कौशाम्बी-नगरीं प्राप्तवान् । कौशाम्बी-नगर्याम् एव चन्दना-नामिका भगवतः महावीरस्य प्रथमा शिष्या आसीत् । चन्दना कौशाम्बी-नगर्याः कस्यचित् धनिकस्य पत्नी आसीत् । चन्दनां सम्मिल्य भगवतः महावीरस्य अभिग्रहः पूर्णः अभवत् ।
साधनायाः त्रयोदशवर्षम्
सम्पादयतुइदं भगवतः साधनायाः अन्तिमं वर्षम् एव आसीत् । किन्तु त्रयोदशे वर्षे भीषणोपसर्गं प्राप्तवान् महावीरः । त्रयोदशवर्षे भगवान् महावीरः छम्माणी-ग्रामं प्राप्तवान् । किन्तु ग्रामस्य बहिः एव ध्यानावस्थां प्राविशत् । यत्र भगवान् ध्यानावस्थायाम् आसीत्, तत्र कश्चन गोपालकः आगत्य स्वस्य वृषभान् तत्रैव त्यक्त्वा ग्रामं गतवान् । यदा सः गोपालकः पुनरागतवान्, तदा तेन वृषभाः न दृष्टाः । तेन वृषभाणां विषये भगवान् पृष्टः । किन्तु महावीरः मौनम् एव अतिष्ठत् । तेन गोपालकः क्रुद्धः जातः । क्रुद्धे सति गोपालकेन काष्ठकीलाः भगवतः कर्णयोः अवपातिताः । मन्यते यत् – “अष्टादशे भवे त्रिपृष्ठनामकः वासुदेवः आसीत् । त्रिपृष्ठः महावीरस्य एव जीवः आसीत् । त्रिपृष्ठेन यस्य जनस्य कर्णयोः सीसं (Lead Metal) विस्थापितम् आसीत्, सः एव अस्मिन् जन्मनि गोपालकस्य स्वरूपेण आसीत् ।
छम्माणी-ग्रामात् भगवान् मध्यमा-ग्रामं गतवान् । तस्मिन् ग्रामे सः सिद्धार्थ-नामकस्य वणिजः गृहं प्राप्तवान् । तदा सिद्धार्थः स्वमित्रेण खरकेण सह वार्तालापं कुर्वन् आसीत् । भगवन्तं दृष्ट्वा सिद्धार्थः नमस्कृतवान् । सिद्धार्थस्य मित्रं खरकः वैद्यः आसीत् । अतः खरकेण भगवतः उपचारः कृतः । यदा खरकेण भगवतः कर्णाभ्यां काष्ठकीलाः निष्कासिताः, तदा महावीरः उच्चस्वरेण परिगर्जितवान् । तेन गर्जनेन उद्यानम् अपि अनुगर्जितम् । अयं महावीरस्य अन्तिमः उपसर्गः आसीत् । अनन्तरं भगवता कैवल्यज्ञानं सम्प्राप्तम् ।
केवलज्ञानम्
सम्पादयतुभगवता महावीरेण त्रयोदशवर्षाणि यावत् साधना कृता । त्रयोदशेषु वर्षेषु महावीरः बहूनाम् उपसर्गानां कष्टम् अन्वभवत् । त्रयोदशवर्षाण्यन्तरं भगवान् महावीरः विचरन् जम्भिय-ग्रामं प्राप्तवान् । तस्य ग्रामस्य समीपम् ऋजुबालुका-नदी आसीत् । तस्यां नद्यां घोषे एकं क्षेत्रम् (Farm) आसीत् । श्यामक-नामकः कश्चन गाथापतिः तस्य क्षेत्रस्य स्वामी आसीत् । तस्मिन् क्षेत्रे शालवृक्षस्याधः एव भगवान् ध्यानावस्थां गतः ।
वैशाख-मासस्य शुक्लपक्षस्य दशम्यां तिथौ उत्तराफाल्गुनी-नक्षत्रे महावीरः कैवल्यज्ञानं प्रापत् । भगवतः रहस्यकालस्य अवधिः द्वादशवर्षाणि षण्मासानि पञ्चदशदिवसानि च आसन् । तस्मिन् दिवसे चतुष्षष्टिः इन्द्राः, लोकान्तिकदेवाः चापि समुपस्थिताः आसन् । सर्वे मिलित्वा भगवतः महावीरस्य कैवल्यमहोत्सवम् आचरितवन्तः । अनन्तरं देवैः समवसरणं रचितम् । देवैः भगवतः प्रवचनस्य प्रशंसा अपि कृता ।
कैवल्यज्ञानस्य प्राप्त्यनन्तरम् ऋजुबालुका-नद्याः तटे भगवान् महावीरः प्रथमं प्रवचनं चकार । किन्तु प्रवचनं वने आसीत्, अतः जनाः गन्तुम् असमर्थाः आसन् । यद्यपि कैवल्यज्ञानानन्तरं प्रथमप्रवचने एव चतुर्विधसङ्घस्य स्थापना भवति स्म, किन्तु महावीरस्य प्रथमे प्रवचने जनाः एव नासन् । तेन सङ्घस्य स्थापना एव न जाता । इदमेकम् आश्चर्यं मन्यते । बहवः आचार्याः मन्यन्ते यत् – “प्रथमे प्रवचने जनाः आगतवन्तः आसन्, किन्तु केनचिदपि व्रतं न स्वीकृतम् [११]।
गणधराणां दीक्षा
सम्पादयतुजम्भिय-ग्रामात् भगवान् महावीरः मध्यमपावा-नामकं ग्रामं प्राप्तवान् । तस्मिन् ग्रामे कश्चन सोमिल-नामकः ब्राह्मणः निवसति स्म । सोमिलेन विशालयज्ञस्य आयोजनं कृतम् आसीत् । तस्मिन् यज्ञे बहवः विद्वांसः समागताः आसन् । तत्रापि एकादशपण्डिताः शिष्यपरिवारेण सह आगतवन्तः आसन् । तस्मिन् दिवसे देवैः अपि मध्यमपावा-ग्रामे महावीरस्य समवसरणं रचितम् । तत्र बहवः नगरजनाः, देवाः, इन्द्राः च समुपस्थिताः आसन् । यत्र सोमिलस्य यज्ञः जायमानः आसीत्, ततः एव देवाः, इन्द्राः च आकाशमार्गेण आगतवन्तः आसन् । विशालयज्ञस्य एकादशाचार्येषु प्रथमः इन्द्रभूतिः गौतमः आसीत् । “महावीरः पाषण्डी अस्ति” इति मत्वा इन्द्रभूतिः गौतमः महावीरस्य समवसरणं प्रापत्[१२] ।
इन्द्रभूतिः मन्यते स्म यत् - “मम समकक्षः कोऽपि विद्वान् नास्ति” । किन्तु यदा सः समवसरणं प्राप्य महावीरास्य समीपं गतवान्, तदा महावीरेण इन्द्रभूतिः नाम्ना सम्बोधितः । इन्द्रभूतिः अहङ्कारेन परिपूर्णः आसीत् । यदा महावीरेण इन्द्रभूतेः मनसः शङ्का उक्ता, तदा इन्द्रभूतिः आश्चर्यचकितः अभवत् । यतः महावीरः इन्द्रभूतेः मनसः इच्छां ज्ञातवान् । “आत्मनः अस्तित्त्वम्” इति इन्द्रभूतेः शङ्का आसीत् । महावीरः तस्याः शङ्कायाः निदानं कृतवान् । महावीरस्य प्रभावेण इन्द्रभूतिः स्वस्य पञ्चशतेन शिष्यैः सह महावीरात् दीक्षाम् अङ्गीकृतवान्, महावीरस्य शिष्यत्वं स्वीकृतवान् च । अन्यैः दशभिः आचार्यैः अपि महावीरस्य शिष्यत्वं प्राप्तम् । ते एकादश आचार्याः एव महावीरस्य इन्द्रभूत्यादयः एकादश गणधराः अभवन् ।
महावीरस्य मुख्यसिद्धान्ताः
सम्पादयतुभगवान् महावीरः सर्वज्ञः आसीत् । सः सर्वं जानाति स्म । तथापि सः तत्कालीनस्य प्रचलितानां कुप्रथानां विरोधं करोति स्म । तेन बहव्यः कुप्रथाः अवरोधिताः । सः सिद्धान्तवादी आसीत् । तस्य जीवने बहवः सिद्धान्ताः आसन् । तेषु केचन सिद्धान्ताः अधः निरूपिताः सन्ति [१३]।
जातिवादविरोधः
सम्पादयतुयद्यपि महावीरः धनाढ्यवंशेन सह सम्पर्कः अस्ति, तथापि सः जातिवादस्य विरोधं कुर्वन् आसीत् । “जातिवादः तत्वहीनः विषयः अस्ति” इति महावीरः कथयति स्म । महावीरस्य वैचारिकी क्षमता उच्चस्तरीया आसीत् । सः कथयति स्म यत् – “मनुष्यः जन्मनः कदापि उच्चः नीचः वा न भवति । कर्ममात्रेण एव मनुष्यः श्रेष्ठत्वं प्राप्नोति ।
स्वस्य तीर्थेषु अपि महावीरः शूद्रान् अपि सम्मेलयति स्म । जनाः तद्दृष्ट्वा विचारग्रस्ताः अभवन् । किन्तु महावीरेण उक्तं यत् – “कोऽपि जनः जन्मनः नीचः न भवति, अतः ये जनाः नीचः इति मन्यन्ते, ते हिंसां कुर्वन्ति” इति । भगवता प्रदत्तेन सन्देशेन लक्षाधिकाः पीडिताः, दलिताः, शूद्राः च आशान्विताः जाताः । भगवतः समवसरणे सर्वे जनाः भेदभावं विना एव प्रवचनं श्रोतुं गच्छन्ति स्म ।
धर्माधिकारः
सम्पादयतुएकदा कैश्चित् जनैः भगवान् महावीरः पृष्टः यत् – “भवता यस्य धर्मस्य स्थापना कृता, तस्य धर्मस्याधिकारः कस्मै अस्ति ? कः तस्य धर्मस्य स्वीकारं कर्तुं शक्नोति ?” तदा भगवता उक्तं यत् – “मया यस्य धर्मस्य स्थापना कृता अस्ति, तद्धर्मं कोऽपि जनः स्वीकर्तुं शक्नोति । धर्मस्य स्वीकरणे काऽपि बाधा नास्ति । धर्मस्य स्वीकरणे केवलं हृदयस्य शुद्धत्वम् आवश्यकं वर्तते । अशुद्धहृदयेन धर्मपालनं न क्रियते । धर्मस्य स्थायित्वाय पवित्रता आवश्यकी भवति” ।
अनेन प्रकारेण महावीरेण स्थापिते धर्मे सर्वेषां वर्गाणां जनाः सम्मिलिताः आसन् । यतो हि सः जातिभेदं न मन्यते स्म । अतः शूद्राः अपि तस्य धर्मस्य पालनं कुर्वन्ति स्म ।
पशुबलिविरोधः
सम्पादयतुअस्माकं भारतीयसंस्कृतिः प्राचीनयुगाधारिता वर्तते । ऋषिमुनिभिः यज्ञादिक्रियाणां मार्गाः उपदिष्टाः आसन् । किन्तु जनाः धर्मस्य दुरूपयोगं कुर्वन्तः आसन् । यज्ञादिकर्मसु पशूनां बलिः दीयते स्म । एतानि हिन्सात्मकानि कर्माणि न भवेयुः । अतः महावीरः यज्ञादिषु कर्मसु पशुबलेः विरोधं कृतवान् । महावीरः उक्तवान् यत् – “हिंसात्मकं कर्म पापम् इव भवति । हिंसया विना एव धर्मस्य पालनं कर्तुं शक्यते” इति ।
स्त्रीसमानता
सम्पादयतुमहावीरः स्त्रीपुरुषयोः भेदं न करोति स्म । सः स्त्रीपुरुषौ समानदृष्ट्या एव पश्यति स्म । तस्मिन् समये जनाः स्त्रीभ्यः महत्त्वं न ददति स्म । अतः महावीरः स्त्रीभ्यः सर्वान् अधिकारान् अयच्छत् । महावीरः कथयति स्म यत् – “केवलं लिङ्गमात्रेण एव स्त्रीपुरुषयोः भेदः वर्तते । आत्मविकासे तु स्त्रीपुरुषौ समानौ एव स्तः । स्त्री मातृशक्तिः अस्ति । अतः अस्माकं धर्मे तस्य स्थानम् उच्चतमं वर्तते” इति ।
लोकभाषाप्रयोगः
सम्पादयतुभगवान् महावीरस्य लोकभाषा “अर्धमागधी” इति आसीत् । अतः तेन तस्य लोकभाषायामेव सर्वत्र प्रवचनं कृतम् आसीत् । मगधक्षेत्रस्य, मगधसमीपस्थक्षेत्राणां च जनाः अर्धमागधी-भाषायाः प्रयोगं कुर्वन्ति स्म । महावीरः व्यवहारे अपि अर्धमागधी-भाषायाम् एव वदति स्म । अतः जैनधर्मस्य मूलागमेषु अपि अर्धमागधी-भाषा एव प्राप्यते ।
दासप्रथाविरोधः
सम्पादयतुमहावीरेण सामान्यव्यक्तये अपि स्वतन्त्रतायाः अधिकारः प्रदत्तः आसीत् । सः दासप्रथायाः विरोधी आसीत् । सः दासप्रथां धर्मविरुद्धं गणयति स्म । तस्मिन् काले धनिकाः स्वकार्येभ्यः निर्धनानां क्रयणं कुर्वन्ति स्म । यस्य क्रयणं भवति सः दासः कथ्यते स्म । दासः धनिकानां सर्वाणि कार्याणि करोति स्म । दासः धनिकस्य आधीन्ये भवति स्म । इदं हिंसात्मकं कर्म अस्ति । अतः महावीरः अस्य विरोधं करोति स्म । महावीरेण उक्तं यत् – “अस्माकं सङ्घे सर्वे समानाः सन्ति । कोऽपि दासः नास्ति । सर्वैः जनैः निस्वार्थभावेन परस्परं कार्याणि करणीयानि सन्ति ।
अपरिग्रहः
सम्पादयतु“अपरिग्रहः” इति महावीरस्य महदुपदेशः आसीत् । सः धनम् अनर्थस्य मूलम् इति कथयति स्म । अर्थः धार्मिकप्रगतौ बाधकोऽस्ति । अतः “मुनिचर्यायाम् अर्थस्य त्यागः करणीयः” इति महवीरः उपदेशं ददाति स्म । श्रावकधर्मे अपि तस्य नियन्त्रणम् आवश्यकम् अस्ति ।
भगवता महावीरेण अपि बहुमात्रायां परिग्रहस्य त्यागः कृतः आसीत् । श्रावकैः आवश्यकतानुसारम् एव परिग्रहस्य सङ्ग्रहः करणीयः । शेषपरिग्रहस्य दानं त्यागः वा करणीयः भवति । सः कथयति स्म यत् – “धनसङ्ग्रहेण समस्याः उद्भवन्ति । परिग्रहस्य मोहवशात् धार्मिकजनः अध्यात्मिकः भवितुं न शक्नोति । अध्यात्मिकः भवितुं परिग्रहस्य त्यागः आवश्यकं भवति ।
महावीरस्य प्रभावः
सम्पादयतुभगवतः महावीरस्य विहारक्षेत्रं मर्यादितम् आसीत् । अङ्ग, मगध, काशी, कौशल, सावत्थी, वत्स इत्यादिषु जनपदेषु सः विचरन् आसीत् । भगवतः महावीरस्य दीर्घतमः विहारः सिन्धुदेशात् तः सौवीरदेशपर्यन्तम् आसीत् ।
महावीरस्य काले बहवः धर्मप्रवर्तकाः आसन् । सर्वे प्रवर्तकाः साधनाज्ञानमाध्यमेन जनेषु स्वस्य प्रभावं स्थापयितुं प्रयासान् कुर्वन्तः आसन् । तदा अन्ये षडाचार्याः आसन्, ये तीर्थङ्कराः कथ्यन्ते स्म । तथापि तेषु आचार्येषु महावीरस्य प्रभावः विशिष्टः आसीत् [१४]।
वैशाली-राज्यस्य गणपतिः चेटकः, मगधसम्राट् श्रेणिकः, अङ्गसम्राट् कोणिकः, सिन्धुनरेशः उदाई, उज्जयिनीनरेशः चन्द्रप्रद्योतनः इत्यादयः गणनायकाः, राजानः च भगवतः महावीरस्य उपासकाः आसन् ।
तस्मिन् काले आनन्दः, कामदेवः, शकडालः, महाशतकः इत्यादयः धनाढ्याः, समाजसेवकाः च आसन् । ते अपि आगार, अणगार च धर्मस्य पालनं कुर्वन्ति स्म । आर्यजनपदे अपि भगवतः महावीरस्य अत्यधिकः प्रभावः आसीत् । यतः तेन सामजिककुप्रथानां विरोधं कृत्वा तासां कुप्रथानां निवारणं कृतम् आसीत् । अतः सर्वत्र भगवतः प्रभावः दृश्यते स्म ।
तीर्थस्थापना
सम्पादयतुभगवतः समवसरणे एकादशगणधरैः सह ४४११ ब्राह्मणैः अपि मुनिदीक्षा स्वीकृता आसीत् । भगवता एकादशगणधराय त्रिपद्याः ज्ञानं प्रदत्तम् आसीत् । अनेन त्रिपद्याः ज्ञानेन तेभ्यः गणधरेभ्यः चतुर्दशपूर्वेण सह द्वादशाङ्ग्याः ज्ञानम् अभवत् । अतः ते गणधराः कथ्यन्ते [१५]।
बहवः जनाः श्रावकाश्राविकयोः धर्मं स्वीकृतवन्तः । बहुभिः जनैः साध्वीसाध्वोः धर्मः चापि स्वीकृतः । अनेन प्रकारेण वैशाख-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ महावीरः चतुर्विधतीर्थस्य स्थापनां चकार । तेन सः “तीर्थङ्करः” इति पदं प्रापत् । अनन्तरं भगवान् राजगृह-नगरं प्राप्तवान् । तस्मिन् वर्षे सः राजगृह-नगरे एव चातुर्मास्यव्रतं चकार ।
यदा भगवान् महावीरः राजगृह-नगरं प्राप्तवान्, तदा तत्रत्यः राजा श्रेणिकः परिवारेण सह भगवतः दर्शनार्थं गतवान् आसीत् । तस्मिन् चातुर्मासे राजकुमारेण मेघेन, राज्ञा नन्दीषेणेन च दीक्षा अङ्गीकृता आसीत् ।
द्वितीयवर्षम्
सम्पादयतुराजगृहनगरात् भगवान् ब्राह्मणकुण्ड-ग्रामं गतवान् । ऋषभदत्तः इत्याख्यः ब्राह्मणकुण्ड-ग्रामस्य प्रमुखः वर्तते स्म । तस्य पत्नी देवानन्दा आसीत् । द्वावेव श्रावकौ आस्ताम् । तौ द्वौ भगवतः महावीरस्य दर्शनार्थं गतवन्तौ । महावीरं दृष्ट्वा देवानन्दा प्रसन्ना अभवत् । तस्याः हृदयं मातृवात्सल्येन परिपूर्णं जातम् । देवानन्दायाः स्तनाभ्यां दुग्धधारा वहन्ती आसीत् । एतत्सर्वं दृष्ट्वा इन्द्रभूतिना महावीरः पृष्टः यत् – “किमस्य कारणम्” ?
महावीरः उक्तवान् यत् - “सा मम माता अस्ति । पुत्रस्नेहकारणात् एतत्सर्वं भवदस्ति । अनन्तरं भगवान् महावीरः प्रवचनं कृतवान् । प्रवचनानन्तरम् ऋषभदेवेन, देवानन्दया च साधुत्वं स्वीकृतम् । ब्राह्मणकुण्ड-नगरस्य पश्चिमे क्षत्रियकुण्ड-नगरम् आसीत् । तत्र अपि भगवान् प्रवचनं प्रदत्तवान् । तेन प्रवचनेन बहुभिः जनाः साधुत्वं प्राप्तवन्तः । अनन्तरं भगवान् ततः वैशाली-नगरं प्राप्तवान् । तस्मिन् नगरे भगवान् महावीरः चातुर्मास्यं कृतवान् [१६]।
तृतीयवर्षम्
सम्पादयतुचातुर्मास्यं समाप्य भगवान् महावीरः वत्सभूमि-नगरं गतवान् । ततः कौशाम्बी-नगरं प्राप्तवान् । उदयन-नामकः तत्रत्यः राजा आसीत् । भगवतः आगमनसन्देशं प्राप्य उदयनः परिवारेण सह महावीरस्य दर्शनार्थं गतवान् । प्रवचने जनैः प्रश्नाः पृष्टाः । महावीरेण सर्वेषां प्रश्नानां सन्तोषकारकाणि उत्तराणि प्रदत्तानि आसन् । तत्रापि बहवः जनाः दीक्षां स्वीकृतवन्तः । अन्ते तेषां जनानां निर्वाणम् अभवत् । ततः महावीरः वाणिज्य-ग्रामं गतवान् । भगवता तत्रैव चातुर्मास्यं कृतम् ।
चतुर्थवर्षम्
सम्पादयतुवाणिज्यग्रामात् विचरन् भगवान् महावीरः राजगृहं प्राप्तवान् । श्रेणिकः तत्रत्यः राजा आसीत् । श्रेणिकः भगवतः महावीरस्य दर्शनार्थं गतवान् । राजगृह-नगरे धन्ना, शालीभद्रः इत्याख्यौ धनिकौ आस्ताम् । तौ अपि महावीरात् दीक्षां प्राप्तवन्तौ । दीक्षानन्तरं धन्ना इत्याख्यस्य धनिकस्य निर्वाणम् अभवत् । अपरः धनिकः शालीभद्रः सिद्धविमाने देवः अभवत् । भगवता महावीरेण राजगृह-नगरे एव चातुर्मास्यं कृतम् ।
पञ्चमवर्षम्
सम्पादयतुकैवल्यज्ञानान्तरं पञ्चमे वर्षे भगवान् महावीरः राजगृहात् चम्पा-नगरीं प्राप्तवान् । चम्पानगर्याः राजा दत्तः आसीत् । राज्ञः दत्तस्य पुत्रः महचन्दः अपि महावीरात् दीक्षां प्रापत् । भगवान् महावीरः चम्पा-नगरीं त्यक्त्वा वीतभय-नगरीं गतवान् । इयं भगवतः दीर्घतमा यात्रा आसीत् । अस्यां यात्रायां बहवः साधवः जलान्नाभावेन दिवङ्गताः । वीतभय-नगर्याः राजा उदाई इत्याख्यः आसीत् । उदाई इत्याख्यः भगवन्तं दृष्ट्वा प्रसन्नः जातः । उदाई इत्याख्येन स्वस्य केशीकुमार इत्याख्याय भागिनेयाय राज्यस्य दायित्वं प्रदत्तम् । स्वयम् उदाई इत्याख्यः दीक्षां स्वीकृतवान् । किञ्चित् समयानन्तरं भगवान् महावीरः मगध-देशस्य वाणिज्य-ग्रामं गतवान् आसीत् । तत्र तेन चातुर्मास्यं कृतम् ।
षष्ठवर्षम्
सम्पादयतुवाणिज्य-ग्रामे चातुर्मास्यं समाप्य भगवान् वाराणसी-नगरीं गतवान् । तत्र तेन प्रवचनं कृतम् आसीत् । ततः सः आलम्भिया-नगरं गतवान् । आलम्भिया-नगरस्य राजा जितशत्रुः आसीत् । सः भगवतः दर्शनार्थं गतवान् । तस्मिन् नगरे कश्चन युद्गल इत्याख्यः परिव्राजकः निवसति स्म । तेन परिव्राजकेण घोरतपस्या कृता । अतः सः अवधिज्ञानं प्रापत् । तेन एका घोषणा कृता यत् – “देवानां जघन्यायुष्यं दशसहस्रं वर्षाणि, उत्कृष्टायुष्यं दशसागरमात्रात्मकं च अस्ति । महावीरस्य प्रथमः गणधरः इन्द्रभूतिः अपि तस्मिन् ग्रामे एव आसीत् । युद्गलस्य घोषणा यदा इन्द्रभूतिना श्रुता, तदा सः महावीरस्य समीपं गतवान् । इन्द्रभूतेः मनसि शङ्का उद्भूता । अतः इन्द्रभूतिना महावीरस्य समक्षे सा शङ्का उपस्थापिता । तदा महावीरः उक्तवान् यत् - “देवानाम् उत्कृष्टायुष्यं त्रयस्त्रिंशत्सागरमात्रात्मकं भवति । इन्द्रभूतिमहावीरयोः संवादं युद्गलः प्राप्तवान् । तदा सः महावीरस्य प्रवचनं श्रुतवान् । अनन्तरं युद्गलेन महावीरात् दीक्षा सम्प्राप्ता । दीक्षायाः परं युद्गलः एकादशाङ्गानि अधीतवान् । किञ्चित् समयान्तरे तस्य निर्वाणम् अभवत् । महावीरः आलम्भिया-नगरतः राजगृह-नगरं गतवान् । तत्र महावीरेण चातुर्मास्यं कृतम् ।
सप्तमवर्षम्
सम्पादयतुराजगृहे चातुर्मास्यं कृत्वा भगवान् तत्र एव निवसन् आसीत् । तदा राजगृह-नगरस्य बहवः मुख्यनागरिकाः श्रमणधर्मं, श्रावकधर्मं च स्व्यकुर्वन् । तस्मिन्वर्षे भगवतः वर्षावासः राजगृह-नगरे एव अतीतः ।
अष्टमवर्षम्
सम्पादयतुराजगृह-नगरात् भगवान् पुनः आलम्भिया-नगरं गतवान् । ततः कौशाम्बी-नगरीं गतवान् । तस्मिन् समये उज्जयिनी-नगर्याः राजा चण्डप्रद्योतः आसीत् । सः कौशाम्बी-नगरीं जेतुम् इच्छति स्म । कौशाम्बी-नगर्याः राज्ञी मृगावती आसीत् । तस्य उदयन-नामकः अवयस्कः पुत्रः अपि आसीत् । चण्डप्रद्योतः मृगावत्या आकृष्टः अभवत् । अतः सः तया सह विवाहं कर्तुम् इच्छति स्म ।
महावीरस्य आगमनेन मृगावती प्रसन्ना जाता । एकदा महवीरस्य प्रवचने मृगावती, चण्डप्रद्योतश्च समुपस्थितः आसीत् । तस्मिन् समये एव मृगावती महावीरात् दीक्षां सम्प्रापत् । लोकलज्जायाः कारणात् चण्डप्रद्योतः किमपि वक्तुम् असमर्थः आसीत् । चण्डप्रद्योतस्य अन्याभिः अङ्गारवती-इत्यादिभिः राज्ञीभिः अपि दीक्षा स्वीकृता । अनन्तरं भगवान् वैशाली-नगरं प्राप्तवान् । तत्र भगवता महावीरेण चातुर्मास्यं कृतम् ।
नवमवर्षम्
सम्पादयतुवैशाली-नगरे चातुर्मास्यं समाप्य भगवान् काकन्दी-नगरीम् अगच्छत् । जितशत्रुः नामकः तस्याः नगर्याः राजा आसीत् । सः अपि भगवतः दर्शनार्थं गतवान् । भगवान् ततः पोलासपुर-ग्रामं प्राप्तवान् । पोलासपुर-ग्रामे सद्दालपुत्र-नामकः कश्चन धनिकः कुम्भकारः आसीत् । तस्य पत्नी अग्निमित्रा आसीत् । तौ श्रमणधर्मं स्वीकृतवन्तौ । अनन्तरं भगवान् महावीरः पोलासपुर-ग्रामतः वाणिज्य-ग्रामं गत्वा चातुर्मासस्यं चकार ।
दशमवर्षम्
सम्पादयतुतदनन्तरं भगवान् राजगृह-नगरं प्राप्तवान् । राजगृह-नगरे महाशतकः नामकः कश्चन गाथापतिः आसीत् । तेन श्रावकधर्मः स्वीकृतः । अपरं च ये पार्श्वपरम्पराम् अनुसरन्ति स्म, तैः अपि श्रमणधर्मः, श्रावकधर्मश्च स्वीकृतः । तस्मिन् वर्षे भगवान् महावीरः तत्रैव चातुर्मास्यं कृतवान् ।
एकादशवर्षम्
सम्पादयतुभगवान् राजगृहतः कृतङ्गला-नगरीं गतवान् । कृतङ्गला-नगर्याः समीपं श्रावस्ती-नगरी आसीत् । तस्यां नगर्यां कात्यायनगोत्रीयः कश्चन स्कन्दक-नामकः परिव्राजकः निवसति स्म । पिङ्गलेन सह तस्य मेलनम् अभवत् । तयोः चर्चा जाता । चर्चायां पिङ्गलेन बहवः प्रश्नाः पृष्टाः । किन्तु स्कन्दकः तेषां प्रश्नानाम् उत्तराणि दातुं नाशक्नोत् । यतः प्रश्नेषु शङ्काः समुद्भूताः । अतः सः शङ्काः समाधातुं महावीरस्य समीपं गतवान् । यदा भगवता शङ्कानां समाधानं कृतं, तदा स्कन्धकेन दीक्षा अङ्गीकृता । अनन्तरं भगवान् महावीरः वाणिज्य-नगराय प्रस्थितवान् । तत्र गत्वा भगवता महावीरेण चातुर्मास्यं कृतम् ।
द्वादशवर्षम्
सम्पादयतुवाणिज्य-नगरे चातुर्मास्यं समाप्य भगवान् महावीरः ब्राह्मणकुण्ड-नामकं नगरं गतवान् । तत्र बहुशाल-नामकम् उद्यानम् आसीत् । तस्मिन् उद्याने भगवान् निवसति स्म । अनन्तरं ततः कौशाम्बी-नगरीं गतवान् । तत्र सूर्यचन्द्रमसौ भगवतः दर्शनार्थं समागतौ । भगवान् महावीरः पुनः ततः राजगृहं गत्वा चातुर्मास्यं कृतवान् ।
त्रयोदशवर्षम्
सम्पादयतुत्रयोदशे वर्षे भगवान् चम्पा-नगरीं प्राप्तवान् । किञ्चित् कालात् प्राक् मगध-देशस्य राज्ञः श्रेणिकस्य मृत्युः जातः । तेन कारणेन कोणिकः मगध-देशस्य राजधानी चम्पा-नगरीम् अकरोत् । यदा भगवान् चम्पा-नगरीं प्राप्तवान्, तदा कोणिकः परिवारेण सह भगवतः दर्शनार्थं गतवान् आसीत् । चम्पा-नगर्यां भगवतः महावीरस्य प्रवचनम् अभवत् । भगवतः प्रवचनं श्रुत्वा श्रेणिकस्य दशपुत्रैः मुनिधर्मः अङ्गीकृतः । नगर्याः बहुभिः धनिकैः अपि श्रावकधर्मः स्वीकृतः । अनन्तरं भगवान् मिथिला-नगरीं गतवान् । तत्र भगवता चातुर्मास्यं कृतम् ।
चतुर्दशवर्षम्
सम्पादयतुभगवान् पुनः चम्पा-नगरीं प्रापत् । तस्मिन् समये वैशाली मगध इत्येतयोः युद्धं प्रचलत् आसीत् । वैशाली-नगरस्य राजा चेटकः, मगध-देशस्य राजा कोणिकः च आसीत् । अन्ते कोणिकः विजयी अभवत् । किन्तु कोणिकस्य कालादयः दशपुत्राः चेटकेन हताः । अतः काली इत्यादिभिः राज्ञीभिः विलापः कृतः । अन्ते ताभिः राज्ञीभिः अपि दीक्षा अङ्गीकृता । अनन्तरं भगवान् महावीरः पुनः मिथिला-नगरीं प्राप्तवान् ।
पञ्चदशवर्षम्
सम्पादयतुपञ्चदशे वर्षे भगवान् मिथिला-नगरीतः श्रावस्ती-नगरीं गतवान् । तस्यां नगर्यां गोशालकः निवसति स्म । भगवतः महावीरस्य रहस्यकाले गोशालकः षड्वर्षाणि यावत् महावीरेण सह एव विचरन् आसीत् । तेन भगवतः एव तेजोलेश्यायाः उपायः प्राप्तः । अनन्तरं सः महावीरात् पृथक् अभवत् । तस्य पार्श्वे तेजोलेश्याज्ञानम्, अष्टाङ्गनिमित्तज्ञानं च आसीत् । अतः “अहं तीर्थङ्करः, सर्वज्ञः, केवलज्ञानी च अस्मि” इति गोशालकः मन्यते स्म । सर्वत्र तस्य विषये चर्चा भवन्ती आसीत् । तस्मिन् समये गौतमः अपि तत्र भिक्षार्थं गतवान् । गोशालकस्य चर्चां श्रुत्वा गौतमः चकितः अभवत् । गौतमेन महावीरः पृष्टः यत् – “ एषः गोशालकः कः ? तदा महावीरेण वास्तविकता कथिता ।
गौतममहावीरयोः संवादं गोशालकः श्रुतवान् । तदा सः क्रुद्धः जातः । अतः सः विवादं कर्तुं महावीरस्य निवासस्थलं प्राप्तवान् । तत्र गत्वा गोशालकः अभद्रव्यवहारं कृतवान् । किन्तु भगवता महावीरेण गोशालकः भद्रतया अवबोधितः । तथापि गोशालकः न अवगतः । ततः अपि अधिकः क्रुद्धः अभवत् गोशालकः । गोशालकेन भगवति महावीरे तेजोलेश्यायाः प्रयोगः कृतः । किन्तु सा तेजोलेश्या भगवतः परिक्रमां कृत्वा गोशालकं प्रति प्रत्यागत्य तस्यैव शरीरं प्राविशत् । तया तेजोलेश्यया गोशालकस्य शरीरं दह्यमानम् आसीत् । भगवान् महावीरः गोशालकाय उक्तवान् यत् – “भवान् सप्तदिवसानन्तरं मृत्युं प्राप्स्यति” इति । भगवतः महावीरस्य वचनानुसारं सप्तदिवसानन्तरं गोशालकः दिवङ्गतः । मरणसमये गोशालकः पश्चात्तापं कृतवान् । तेन सः देवलोके देवः अभवत् ।
अनन्तरं भगवान् श्रावस्ती-नगर्याः मेण्ढिय-ग्रामं गतवान् । तत्र भगवतः शरीरे तेजोलेश्यायाः प्रभावः अभवत् । तेजोलेश्यायाः प्रभावेण भगवतः शरीरं दुर्बलम् अभवत् । तदा सिंहमुनिना आग्रहेण भगवाता महावीरेण ओषधिः सेविता । तेन भगवान् स्वस्थः अभवत् । सः पुनः मेण्ढिय-ग्रामतः मिथिला-नगरीं गतवान् । तस्यां नगर्यां भगवान् महावीरः चातुर्मास्यं कृतवान् ।
षोडशवर्षं, सप्तदशवर्षं च
सम्पादयतुषोडशे वर्षे मिथिला-नगरीतः भगवान् पुनः श्रावस्ती-नगरीं प्राप्तवान् । ततः भगवान् हस्तिनापुरं गतवान् । पुनः भगवान् ततः वाणिज्यग्रामं गत्वा चातुर्मास्यं कृतवान् । सप्तदशे वर्षे महावीर राजगृह-नगरं गतवान् । तत्र सः चातुर्मास्यं कृतवान् ।
अष्टदशवर्षम्
सम्पादयतुचातुर्मास्यं समाप्य भगवान् महावीरः चम्पा-नगरीं प्राप्तवान् । चम्पा-नगर्याः राजा शालः आसीत् । महाशालः-नामकः तस्य अनुजः आसीत् । राज्ञा शालेन स्वस्मै भागिनेयाय गाङ्गली-इत्याख्याय राज्यस्य दायित्वं प्रदत्तम् आसीत् । अनन्तरं शालः, महाशालश्च महावीरात् दीक्षां प्राप्तवन्तौ ।
भगवान् चम्पा-नगर्याः दशार्णपुरं प्रापत् । दशार्णपुरस्य राजा दशार्णभद्रः आसीत् । सः अहङ्कारेण सह भगवतः दर्शनार्थं गतवान् आसीत् । किन्तु इन्द्रेण तस्य अहङ्कारः नाशितः । दशार्णभद्रः महावीरात् दीक्षाम् अङ्गीकृतवान् । तस्मिन् वर्षे भगवता महावीरेण वाणिज्यग्रामे एव चातुर्मास्यं कृतम् आसीत् ।
एकोनविंशतितमवर्षं, विंशतितमवर्षं च
सम्पादयतुएकोनविंशतितमे वर्षे भगवान् काम्पिल्यपुरं प्राप्तवान् । ततः पुनः सः वैशाली-नगरं गतवान् । तत्रैव भगवता चातुर्मास्यं कृतम् । विंशतितमे वर्षे वाणिज्य-ग्रामं गत्वा पुनः वैशाली-नगरं प्राप्तवान् । तत्र सः चातुर्मास्यं कृतवान् ।
- एकविंशतितमे वर्षे भगवान् वैशाली-नगरीतः राजगृह-नगरं प्रस्थितवान् । तत्र भगवान् चातुर्मास्यं कृतवान् ।
- द्वाविंशतितमे वर्षे भगवता महावीरेण नालन्दा-जनपदि चातुर्मास्यं कृतम् आसीत् ।
- त्रयोविंशतितमे वर्षे भगवान् वैशाली-नगर्यां चातुर्मास्यं कृतवान् आसीत् ।
- चतुर्विंशतितमे वर्षे महावीरः कौशल-देशस्य साकेत-नामिकां नगरीं गतवान् । तस्याः नगर्याः राजा किरात आसीत् । सः भगवतः दर्शनं कृत्वा विरक्तः जातः । अनन्तरं तेन महावीरात् दीक्षा सम्प्राप्ता । अनन्तरं भगवान् विचरन् मिथिला-नगरीं प्रापत् । तत्रैव भगवता चातुर्मास्यं कृतम् आसीत् ।
- पञ्चविंशतितमे वर्षे भगवान् राजगृह-नगरं गत्वा चातुर्मास्यं कृतवान् । भगवतः एकादशगणधरेषु प्रभास-नामकः अन्यतमः गणधरः एकमासं यावत् अनशनं चकार । अनन्तरं सः निर्वाणं प्रापत् ।
- षड्विंशतितमे वर्षे भगवान् नालन्दा-जनपदं प्राप्तवान् । तस्मिन् वर्षे अचलभ्राता, मेतार्यः इत्याख्यौ गणधरौ मोक्षं प्राप्तवन्तौ ।
- सप्तविंशतितमे वर्षे भगवान् महावीरः मिथिला-नगर्यां चातुर्मास्यं कृतवान् ।
- अष्टाविंशतितमे वर्षे अपि महावीरेण मिथिला-नगर्याम् एव चातुर्मास्यं कृतम् आसीत् ।
- एकोनत्रिंशत्तमे वर्षे भगवान् राजगृह-नगरं गतवान् । तत्र गत्वा तेन चातुर्मास्यं कृतम् । अग्निभूतिः, वायुभूतिः इत्याख्यौ गणधरौ अनशनं चक्रतुः । अनन्तरं तयोः निर्वाणम् अभवत् ।
अन्तिमं त्रिंशत्तमवर्षम्
सम्पादयतुचातुर्मास्यानन्तरं भगवान् राजगृह-नगरे एव निवसन् आसीत् । तस्मिन् वर्षे अव्यक्तः, मण्डितः, मौर्यपुत्रः, अकम्पितः इत्याख्याः गणधराः अनशनपूर्वकं निर्वाणं प्राप्तवन्तः । अनन्तरं भगवान् पावा-नगरं गतवान् । तत्र भगवतः अन्तिमं चातुर्मास्यम् आसीत् ।
अन्तिमप्रवचनम्
सम्पादयतुभगवता महावीरेण सम्पूर्णभूमण्डले बहूनि प्रवचनानि कृतानि । सः सार्धैकोनत्रिंशत् वर्षाणि यावत् सर्वत्र विचरणं कुर्वन् आसीत् । तेन बहूनां जनानां मार्गदर्शनं कृतम् आसीत् । सम्पूर्णे आर्यजनपदे भगवतः महावीरस्य प्रभावः विशिष्टः आसीत् । तस्य प्रवचनैः अन्यानि दर्शनानि अपि प्रभावितानि जातानि । अतः पशुबलेः, दासप्रथायाः च अपि शनैः शनैः शमनम् अभवत् ।
सर्वे जनाः स्वधर्मेषु अहिंसाधारितानि कर्माणि कुर्वन्ति स्म । महावीरस्य काले जनाः तत्त्वज्ञानं प्रापन् । भगवता महावीरेण स्वस्य अन्तिमवर्षावासः लिच्छवी, मल्लि इत्यादिषु गणराज्येषु व्यतीतः । जनाः जानन्ति स्म यत् – “इदं भगवतः अन्तिमवर्षम् अस्ति । अतः दर्शनसेवाप्रवचनानां लाभः स्वीकर्त्तव्यः ।
आश्विन-मासस्य कृष्णपक्षस्य त्रयोदश्यां तिथौ रात्रौ भगवता अन्तिमम् अनशनं कृतम् । भगवतः सेवायां बहवः श्रद्धालवः, चतुर्विधससङ्घजनाः इत्यादयः समागताः आसन् । महावीरेण सर्वे अवबोधिताः । आश्विन-मासस्य कृष्णपक्षस्य अमावस्यायां तिथौ भगवतः महावीरस्य अन्तिमं प्रवचनम् आसीत् । प्रवचने बहवः जनाः, राजानः च आसन् । सर्वे महावीरस्य उपासकाः आसन् । तस्मिन् दिवसे भगवतः महावीरस्य षष्ठतपः आसीत् ।
प्रवचने महावीरः पञ्चपञ्चाशत् अध्ययनपुण्यफलविपाकविषये, पञ्चपञ्चाशत् अध्ययनपापफलविपाकविषये च अवबोधितवान् । प्रवचने जनैः प्रश्नाः अपि कृताः । अनन्तरं भगवता षड्त्रिंशत् अध्ययनानि उक्तानि । तानि साम्प्रतम् “उत्तराध्ययन” इति नाम्ना प्रसिद्धम् अस्ति । भगवता महावीरेण षोडशप्रहरात्मकं प्रवचनं कृतम् आसीत् [१८]।
धार्मिकः परिवारः
सम्पादयतुयदा भगवान् महावीरः चतुर्विधतीर्थस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा महावीरेण धार्मिकपरिवारस्य अपि रचना कृता[१९]।
- ११ गणधराः
- ७०० केवलज्ञानिनः
- ५०० मनःपर्यवज्ञानिनः
- १,३०० अवधिज्ञानिनः
- ७०० अवैक्रियलब्धिधारिणः
- ३०० चतुर्दशपूर्विणः
- ४०० चर्चावादिनः
- १४,००० साधवः
- ३६,००० साध्व्यः
- १,५९,००० श्रावकाः
- ३,१८,००० श्राविकाः
अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रिचत्वारिंशत् गणधरेषु “गौतम-इन्द्रभूतिः” इत्याख्यः प्रथमः गणधरः आसीत् ।
एकादश गणधराः
सम्पादयतुभगवतः महावीरस्य धार्मिकपरिवारे एकादश (११) गणधराः सन्ति [१५]। ते -
- गौतम-इन्द्रभूतिः = अस्य ५०० शिष्याः आसन् । “आत्मनः अस्तित्वम्” मिति इन्द्रभूतेः शङ्का आसीत् ।
- अग्निभूतिः = अस्य ५०० शिष्याः आसन् । “पुरुषाद्वैतम्” इति अग्निभूतेः शङ्का आसीत् ।
- वायुभूतिः = अस्य ५०० शिष्याः आसन् । “तज्जीवं, तच्छरीरवादश्च” इति वायुभूतेः शङ्का आसीत् ।
- व्यक्तः = अस्य ५०० शिष्याः आसन् । “ब्रह्ममयं जगत्” इति व्यक्तस्य शङ्का आसीत् ।
- सुधर्मा = अस्य ५०० शिष्याः आसन् । “जन्मान्तरम्” इति सुधर्मणः शङ्का आसीत् ।
- मण्डितः = अस्य ३५० शिष्याः आसन् । “आत्मनः संसारित्वम्” इति मण्डितस्य शङ्का आसीत् ।
- मौर्यपुत्रः = अस्य ३५० शिष्याः आसन् । “देवः, देवलोकश्च” इति मौर्यपुत्रस्य शङ्का आसीत् ।
- अकम्पितः = अस्य ३०० शिष्याः आसन् । “नरकं, नारकीयः जीवश्च” इति अकम्पितस्य शङ्का आसीत् ।
- अचलभ्राता = अस्य ३०० शिष्याः आसन् । “पुण्यं, पापं च” इति अचलभ्रातुः शङ्का आसीत् ।
- मेतार्यः = अस्य ३०० शिष्याः आसन् । “पुनर्जन्म” इति मेतार्यस्य शङ्का आसीत् ।
- प्रभासः = अस्य ३०० शिष्याः आसन् । “मुक्तिः” इति प्रभासस्य शङ्का आसीत् ।
इन्द्रस्य आयुष्यप्रार्थना
सम्पादयतुभगवतः निर्वाणसमयः समीपे आसीत् । भगवतः समीपे सर्वे जनाः, देवाः च आसन् । तदा इन्द्रेण पृष्टं यत् – “भवतः जन्मकाले उत्तराफाल्गुनी-नक्षत्रम् आसीत् । तस्य उपरि इदानीं भस्मग्रहसङ्क्रान्तः भविष्यति । सः सङ्क्रान्तः भवतः जन्मनक्षत्रे द्विसहस्रं वर्षाणि यावत् भविष्यति । अतः भवान् स्वस्य आयुष्यकालं वर्धयतु । तेन तस्य सङ्क्रान्तस्य प्रभावः न भविष्यति” ।
भगवता उक्तं यत् – “इन्द्र ! न कोऽपि आयुष्यं वर्धयितुम् अल्पीकर्तुं वा शक्नोति । ग्रहाः, नक्षत्राणि च केवलं सूचकानि भवन्ति” । अनेन प्रकारेण भगवता इन्द्रस्य शङ्कासमाधानं कृतम् [२०]।
निर्वाणम्
सम्पादयतुभगवान् महावीरः त्रिकालज्ञानी आसीत् । अतः पूर्वमेव तस्मै निर्वाणसमयस्य ज्ञानम् अभवत् । अनन्तरं तेन सिद्धत्वं प्राप्तम् आसीत् ।
आश्विन-मासस्य कृष्णपक्षस्य अमावस्यां तिथौ स्वाति-नक्षत्रे पावापुरी-नामके नगरे भगवतः महावीरस्य निर्वाणम् अभवत् । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् [२१]।
महावीरेण कौमारावस्थायां त्रिंशद्वर्षाणां, दीक्षायां द्वाचत्वारिंशद्वर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने द्विसप्ततिवर्षाणि भुक्तानि आसन् ।
पार्श्वनाथस्य निर्वाणानन्तरं सार्धद्विशतं वर्षाण्यनन्तरं भगवतः महावीरस्य मोक्षः अभवत् ।
गौतम-इन्द्रभूतेः केवलज्ञानम्
सम्पादयतुभगवतः निर्वाणस्य चर्चा सर्वत्र भवन्ती आसीत् । तां चर्चां श्रुत्वा इन्द्रभूतये भगवतः महावीरस्य निर्वाणस्य ज्ञानम् अभवत् । इन्द्रभूतिः त्वरितमेव पावापुरी-नगरं प्राप्तवान् । भगवतः पार्थिवं शरीरं दृष्ट्वा इन्द्रभूतिः मूर्च्छितो जातः । किञ्चित्क्षणानन्तरं यदा तेन चैतन्यं प्राप्तं, तदा सः विललाप । सः भगवतः विषये विचारं कुर्वन् आसीत् । तदा तस्मिन् क्षणे एव इन्द्रभूतिना कैवल्यज्ञानं प्रापत् ।
भगवतः महावीरस्य निर्वाणं, इन्द्रभूतेः कैवल्यज्ञानं च एकस्मिन् दिवसे (आश्विन कृष्ण अमावस्या) एव अभवत् । अतः जैनधर्मे आश्विन-मासस्य कृष्णपक्षस्य अमावस्या तिथिः ऐतिहासिकपर्वत्वेन मन्यते आचर्यते च ।
अग्निसंस्कारः
सम्पादयतुभगवतः निर्वाणसमये देवाः, इन्द्राः, सहस्राधिकजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा भगवतः शरीरस्य अग्निसंस्कारः कृतः आसीत् । पावापुरी-नगरस्य राज्ञा हस्तिपालेन कार्यक्रमस्य विशेषव्यवस्था कृता । कार्यक्रमे उपस्थितानाम् अतिथीनां व्यवस्था अपि हस्तिपालेन एव कृता आसीत् । देवगणाः अपि विभिन्नासु व्यवस्थासु संलग्नाः आसन् । भगवतः महावीरस्य अग्निसंस्कारानन्तरं जनाः भगवतः उपदेशान् संस्मृत्य गृहं गतवन्तः । यदा भगवतः निर्वाणम् अभवत्, तदा चतुर्थयुगस्य आरम्भाय सार्धाष्टमासोत्तरत्रिवर्षाणि एव अवशिष्टानि आसन्[२२] ।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये महावीरः सम्बन्धिताः सञ्चिकाः सन्ति। |
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – महावीरः
- श्री महावीर भगवान Archived २०१७-१२-०३ at the Wayback Machine
सन्दर्भाः
सम्पादयतु- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३७
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९२
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. १६४
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९१
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १७८-१८९
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९३
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९४
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९४-१९५
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९७
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १९७-२१५
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१५
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१६
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३३-२३५
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३३
- ↑ १५.० १५.१ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१८
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २१९-२३०
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २२८-२२९
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३०
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३६
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३१
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. २४४
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. २३२