पश्यैतां पाण्डुपुत्राणाम्...
भगवद्गीतायाः श्लोकः १.३
(०१.०३ पश्यैतां पाण्डुपुत्राणाम्... इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
पश्यैतां पाण्डुपुत्राणाम् आचार्य महतीं चमूम् ।
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य तृतीयः ( ३) श्लोकः ।
पदच्छेदः
सम्पादयतुपश्य, एताम्, पाण्डुपुत्राणाम्, आचार्य, महतीम्, चमूम् । व्यूढाम्, द्रुपदपुत्रेण, तव, शिष्येण, धीमता ॥
अन्वयः
सम्पादयतुआचार्य ! तव धीमता शिष्येण द्रुपदपुत्रेण व्यूढां पाण्डुपुत्राणां महतीम् एतां चमूं पश्य ।
शब्दार्थः
सम्पादयतु- आचार्य = भो द्रोणाचार्य !
- तव = भवतः,
- धीमता = बुद्धिमता,
- शिष्येण = छात्त्रेण,
- द्रुपदपुत्रेण = धृष्टद्युम्नेन,
- व्यूढाम् = व्यूहरूपेण स्थापिताम्,
- पाण्डुपुत्राणाम् = पाण्डवानाम्,
- एताम् = एनाम्,
- महतीम् = बृहतीम्,
- चमूम् = सेनाम्,
- पश्य = वीक्षस्व ।
अर्थः
सम्पादयतुभोः आचार्य ! चतुरेण तव शिष्येण धृष्टद्युम्नेन पाण्डवानां महत् सैन्यमिदम् व्यूहरूपेण स्थापितम् अस्ति । इदं पश्य ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in