अपर्याप्तं तदस्माकं...
भगवद्गीतायाः श्लोकः १.१०
(१.१० अपर्याप्तं तत्… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः सम्पादयतु
- अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
- पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ।
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य दशमः (१०) श्लोकः ।
पदच्छेदः सम्पादयतु
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥१०॥
अन्वयः सम्पादयतु
अस्माकं भीष्माभिरक्षितं तद् बलम् अपर्याप्तम् । इदं तु एतेषां भीमाभिरक्षितं बलं पर्याप्तम् (अस्ति) ।
शब्दार्थः सम्पादयतु
अर्थः सम्पादयतु
यद्यपि अस्माकं सैन्यस्य रक्षकः भीष्मः तथापि सैन्यमिदम् असमर्थम् । पाण्डवानां सैन्यस्य रक्षकः यद्यपि भीमः तथापि तत्सैन्यम् अत्यन्तं समर्थम् इति मम प्रतिभाति ।
बाह्यसम्पर्कतन्तुः सम्पादयतु
http://www.gitasupersite.iitk.ac.in/