अयनेषु च सर्वेषु...
भगवद्गीतायाः श्लोकः १.११
(१.११ अयनेषु च सर्वेषु इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
- भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकादशः (११) श्लोकः ।
पदच्छेदः
सम्पादयतुअयनेषु च सर्वेषु यथाभागम् अवस्थिताः । भीष्मम् एव अभिरक्षन्तु भवन्तः सर्व एव हि ॥
अन्वयः
सम्पादयतुसर्वेषु अयनेषु यथाभागम् अवस्थिताः भवन्तः सर्वे भीष्मम् एव अभिरक्षन्तु ।
शब्दार्थः
सम्पादयतु- सर्वेषु = सकलेषु
- अयनेषु = व्यूहानां द्वारेषु
- यथाभागम् = स्वस्वभागे
- अवस्थिताः = स्थिताः
- भवन्तः सर्वे = समस्ताः भवन्तः
- भीष्मम् एव = भीष्माचार्यम् एव
- अभिरक्षन्तु = संरक्षन्तु ।
अर्थः
सम्पादयतुभवन्तः सर्वेऽपि व्यूहानां द्वारदेशेषु स्वस्वस्थाने तिष्ठन्तु । सेनाधिपतिं भीष्मं च रक्षन्तु ।
रामानुजभाष्यम्
सम्पादयतुदुर्योधनं स्वयमेव भीमाभिरक्षितं पाण्डवानां बलम्, आत्मीयं च भीष्माभिरक्षितं बलमवलोक्य आत्मविजये तस्य बलस्य पर्याप्ततामात्मीयस्य बलस्य तद्विजये चापर्याप्ततामाचार्याय निवेद्य, अन्तर्विषण्णोऽभवत॥१.११ ॥
सम्बद्धसम्पर्कतन्तुः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in/