द्रुपदो द्रौपदेयाश्च...
भगवद्गीतायाः श्लोकः १.१८
(१.१८ दृपदो द्रौपदेयाः… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
- सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य अष्टादशः (१८) श्लोकः ।
पदच्छेदः
सम्पादयतुद्रुपदः, द्रौपदेयाः, च, सर्वशः पृथिवीपते । सौभद्रः, च, महाबाहुः, शङ्खान्, दध्मुः, पृथक्, पृथक् ॥
अन्वयः
सम्पादयतुपृथिवीपते ! परमेष्वासः काश्यः, महारथः शिखण्डी, धृष्टद्युम्नः, विराटः, अपराजितः सात्यकिः, द्रुपदः, द्रौपदेयाः, महाबाहुः सौभद्रः च सर्वशः पृथक् पृथक् शङ्खान् दध्मुः ।
शब्दार्थः
सम्पादयतुअर्थः
सम्पादयतुहे पृथिवीपते धृतराष्ट्र ! युद्धार्थम् उपस्थितः काशिराजः महान् धनुर्धरः अस्ति । तादृशः काशिराजः, महारथः द्रुपदपुत्रः धृष्टद्युम्नः, विराटराजः, अपराजितः सात्यकिः, द्रुपदमहाराजः, द्रौपद्याः पुत्राः उपपाण्डवाः, महाबाहुः अभिमन्युश्चेति सर्वेऽपि पृथक् पृथक् शङ्खान् अधमन् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in