सेनयोरुभयोर्मध्ये रथं...
भगवद्गीतायाः श्लोकः १.२१
(१.२१ हृषीकेषं तदा… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः सम्पादयतु
अर्जुन उवाच
- सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकविंशतितमः (२१) श्लोकः ।
पदच्छेदः सम्पादयतु
सेनयोः, उभयोः, मध्ये, रथम्, स्थापय, मे, अच्युत ॥
अन्वयः सम्पादयतु
अच्युत ! सेनयोः उभयोः मध्ये मे रथं स्थापय ।
शब्दार्थः सम्पादयतु
- अच्युत = हे कृष्ण !
- सेनयोः = सैन्ययोः
- उभयोः = द्वयोः
- मध्ये = अन्तरे
- मे = मम
- रथम् = स्यन्दनम्
- स्थापय = नीत्वा स्थापय ।
अर्थः सम्पादयतु
हे कृष्ण ! अनयोः कौरव पाण्डवसेनयोः मध्यभागे मम रथं स्थापय ।
बाह्यसम्पर्कतन्तुः सम्पादयतु
http://www.gitasupersite.iitk.ac.in