भीष्मद्रोणप्रमुखतः...
श्लोकः
सम्पादयतु- भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् ।
- उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ २५ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य पञ्चविंशतितमः (२५) श्लोकः ।
पदच्छेदः
सम्पादयतुभीष्म द्रोणप्रमुखतः, सर्वेषाम्, च, महीक्षिताम् । उवाच, पार्थ, पश्य, एतान्, समवेतान्, कुरून्, इति ॥
अन्वयः
सम्पादयतुभारत ! एवं गुडाकेशेन उक्तः हृषीकेशः सेनयोः उभयोः मध्ये भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षितां (प्रमुखतः) रथोत्तमं स्थापयित्वा पार्थ ! एतान् समवेतान् कुरून् पश्य' इति उवाच ।
शब्दार्थः
सम्पादयतु- भीष्मद्रोणप्रमुखतः = भीष्म द्रोणादीनां सम्मुखे
- सर्वेषाम् च = अखिलानाम्
- महीक्षिताम् = राज्ञां च
- उवाच = अब्रवीत्
- पार्थ = अर्जुन !
- पश्य: = अवलोकय
- एतान् = इमान्
- समवेतान् = संमिलितान्
- कुरून् = कुरुवंशीयान्
- इति = एवम्
अर्थः
सम्पादयतुअर्जुनः भगवन्तं श्रीकृष्णं यदा एवम् उक्तवान् तदा श्रीकृष्णः तयोः सेनयोः मध्ये रथं स्थापितवान् । भीष्मस्य द्रोणस्य अन्येषां राज्ञां च सम्मुखे रथं संस्थाप्य सः अर्जुन ! युद्धं कर्तुम् उपस्थितान् एतान् कौरवपक्षीयान् पश्य'’ इति अवदत् ।
रामानुजभाष्यम्
सम्पादयतुस च तेन चोदितस्तत्क्षणादेव भीष्मद्रोणादीनां सर्वेषामेव महीक्षितां पश्यतां यथा चोदितमकरोत। ईदृशी भवदीयानां विजयस्थितिरिति चावोचत॥१.२५॥
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in