गाण्डीवं स्रंसते हस्तात्...
भगवद्गीतायाः श्लोकः १.३०
(१.३० गाण्डीवं स्रंसते… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।
- न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य त्रिंशत्तमः (३०) श्लोकः ।
पदच्छेदः
सम्पादयतुवेपथुः, च, शरीरे, मे, रोमहर्षः, च, जायते ॥ गाण्डीवम्, स्रंसते, हस्तात्, त्वक्, च, एव, परिदह्यते । न, च, शक्नोमि, अवस्थातुम्, भ्रमति, इव, च, मे, मनः ॥
अन्वयः
सम्पादयतुरोमहर्षः वेपथुश्च मे शरीरे जायते । हस्तात् गाण्डीवं स्रंसते । त्वक् च एव परिदह्यते । अवस्थातुं न शक्नोमि । मे मनः भ्रमति इव । ।
शब्दार्थः
सम्पादयतु- रोमहर्षः = रोमाञ्चः
- मे = मम
- शरीरे = देहे
- वेपथुः = कम्पनम्
- जायते = उवति
- हस्तात् = करात्
- गाण्डीवम् = गाण्डीवनामकं धनुः
- स्रंसते = भ्रश्यति
- त्वक् च एव = चर्म च
- परिदह्यते = सन्तप्यते
- अवस्थातुम् = स्थातुम्
- न शक्नोमि = नहि प्रभवामि
- मनः = चित्तम्
- भ्रमति इव = भ्राम्यति इति मन्ये ।
अर्थः
सम्पादयतुमम शरीरे कम्पः जायते । अहं रोमाञ्चम् अनुभवन् अस्मि । गाण्डीवं धनुः मम हस्तात् स्रंसते । मम त्वक् दग्धा इव भवति । अहं सम्यक् स्थातुं न शक्नोमि । मम मनः भ्रमति इव ।।
श्लोकवैशिष्ट्यम्
सम्पादयतुविषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in