निमित्तानि च पश्यामि...
भगवद्गीतायाः श्लोकः १.३१
(१.३१ निमित्तानि च… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतु- निमित्तानि च पश्यामि विपरीतानि केशव ।
- न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य एकत्रिंशत्तमः (३१) श्लोकः ।
पदच्छेदः
सम्पादयतुनिमित्तानि, च, पश्यामि, विपरीतानि, केशव । न, च, श्रेयः, अनुपश्यामि, हत्वा, स्वजनम्, आहवे ॥
अन्वयः
सम्पादयतुकेशव ! विपरीतानि च निमित्तानि पश्यामि । आहवे स्वजनं हत्वा श्रेयः च न अनुपश्यामि ।
शब्दार्थः
सम्पादयतु- विपरीतानि = प्रतिकूलानि
- निमित्तानि च = शकुनानि अपि
- पश्यामि = ईक्षे
- आहवे = युद्धे
- स्वजनम् = बन्धुम्
- हत्वा = संहत्य
- श्रेयः च = शुभं च
- न = नहि
- अनुपश्यामि = भावयामि
अर्थः
सम्पादयतुहे केशव ! अहं बहूनि दुश्शकुनानि पश्यामि । युद्धे स्वीयान् बान्धवान् हत्वा किञ्चिदपि श्रेयः न प्राप्नोमि ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in