तस्मान्नार्हा वयं हन्तुं...
भगवद्गीतायाः श्लोकः १.३७
(१.३७ तस्मान्नार्हाः… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
- स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य सप्तत्रिंशत्तमः (३७) श्लोकः ।
पदच्छेदः
सम्पादयतुतस्मात्, न, अर्हाः, वयम्, हन्तुम्, धार्तराष्ट्रान्, स्वबान्धवान् । स्वजनम्, हि, कथम्, हत्वा, सुखिनः, स्याम, माधव ॥
अन्वयः
सम्पादयतुमाधव ! तस्मात् वयं स्वबान्धवान् धार्तराष्ट्रान् हन्तुं न अर्हाः । स्वजनं हि हत्वा कथं सुखिनः स्याम ?
शब्दार्थः
सम्पादयतु- माधव = हे रमापते !
- तस्मात् = तस्मात् कारणात्
- स्वबान्धवान् = निजबन्धून्
- धार्तराष्ट्रान् = कौरवान्
- वयम् = वयम्
- हन्तुम् = विनाशयितुम्
- न = नहि
- अर्हाः = योग्याः
- हि = यस्मात्
- स्वजनम् = निजजनम्
- हत्वा = विनाश्य
- कथम् = केन प्रकारेण
- सुखिनः = सन्तुष्टाः
- स्याम = भवेम ।
अर्थः
सम्पादयतुअतः स्वबान्धवान् धृतराष्ट्रपुत्रान् एतान् कौरवान् हन्तुं वयं न अर्हाः । स्वबान्धवान् एव हत्वा वयं कथं वा सुखिनः भवेम ?
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in