कथं न ज्ञेयमस्माभिः...
भगवद्गीतायाः श्लोकः १.३९
(१.३९ कथं न ज्ञॆयम्… इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
- कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥
अयं भगवद्गीतायाः प्रथमोध्यायस्य अर्जुनविषादयोगस्य नवत्रिंशत्तमः (३९) श्लोकः ।
पदच्छेदः
सम्पादयतुकथम्, न, ज्ञेयम्, अस्माभिः, पापात्, अस्मात्, निवर्तितुम् । कुलक्षयकृतम्, दोषम्, प्रपश्यद्भिः, जनार्दन ॥
अन्वयः
सम्पादयतुजनार्दन ! यद्यपि एते लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे पातकं च न पश्यन्ति (तथापि) कुलक्षयकृतं दोषं प्रपश्यिः अस्माभिः अस्मात् पापात् निवर्तितुं कथं न ज्ञेयम् ?
शब्दार्थः
सम्पादयतु- कथम् = केन प्रकारेण
- न ज्ञेयम् = न अवगन्तव्यम्
- अस्माभिः = अस्माभिः
- पापात् = दोषात्
- अस्मात् = एतस्मात्
- निवर्तितुम् = निवारयितुम्
- कुलक्षयकृतम् = वंशनाशजन्यम्
- दोषम् = अनर्थम्
- प्रपश्यद्भिः = अवलोकयद्भिः
- जनार्दन = हे कृष्ण
अर्थः
सम्पादयतुयद्यपि एते तृष्णाविष्टचिताः युद्धात् जायमानं वंशनाशं मित्रद्रोहं च अनर्थं न जानन्ति तथापि तत्सर्वं जानन्तः वयं किमर्थम् अस्मात् युद्धरूपात् पापकार्यात् विमुखाः न भवेम ? वैमुख्ये सत्येव अस्य अनर्थस्य निवारणं शक्यमिति तदेव युक्तम् इति मे मतिः ।
श्लोकवैशिष्ट्यम्
सम्पादयतुविषयस्य सुबोधाय मिलित्वा दत्तम् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुhttp://www.gitasupersite.iitk.ac.in