प्रमुखा विकल्पसूचिः उद्घाट्यताम्

अरुणाचलप्रदेशराज्यम्

(अरुणाचलप्रदेशः इत्यस्मात् पुनर्निर्दिष्टम्)

अरुणाचलप्रदेशः (Arunachal Pradesh) भारते विद्यमानेषु राज्येषु अन्यतमं राज्यम्। अयं प्रदेशः ईशान्य भारते अस्ति। अरुणाचलप्रदेशः दक्षिणास्सां तथा नागाल्याण्ड राज्ययोः सीमायाम् अस्ति । एवं पश्चिमे भूतान्, पूर्वे म्यान्मार् तथा उत्तरे चीना पीपल् रिपब्लिक् एतैः सह विभजितम् एवम् अन्ताराष्ट्रीय सीमासु अरुणाचलप्रदेशः अस्ति। इटानगरम् अरुणाचलप्रदेशस्य राजधानी अस्ति। अरुणाचलप्रदेशः “उषःकालस्य लिट् पर्वताणां भूमिः” इत्यर्थः । “आफ् दि रैसिङ्ग् सन्” इति अस्य प्रदेशस्य प्रसिद्धिरस्ति । अरुणाचलप्रदेशे विद्यमानाः ईशान्य भारतस्य, टिबेट प्रदेशस्य एवं बर्मन् देशस्यच जनाः भवन्ति । अस्य प्रदेशस्य मुख्यभाषे ’हिन्दी’ तथा असमिया च भवतः।

अरुणाचलप्रदेशराज्यम्
Arunachal Pradesh
—  राज्यम्  —
भारतस्य मानचित्रे अरुणाचलप्रदेशराज्यस्य स्थितिः
अरुणाचलप्रदेशराज्यस्य मानचित्रम्
Coordinates (Itanagar): २७°०४′उत्तरदिक् ९३°२२′पूर्वदिक् / 27.06°उत्तरदिक् 93.37°पूर्वदिक् / २७.०६; ९३.३७निर्देशाङ्कः : २७°०४′उत्तरदिक् ९३°२२′पूर्वदिक् / 27.06°उत्तरदिक् 93.37°पूर्वदिक् / २७.०६; ९३.३७
देशः  India
स्थापना २० फरवरी १९८७
राजधानी इटानगरम्
बृहत्तमं नगरम् इटानगरम्
मण्डलानि २०
सर्वकारः
 • राज्यपालः ज्योति प्रसाद राजखोवा
 • मुख्यमन्त्री कलिखो पुल
 • विधानमण्डलम् एकसदनात्मकम् (६० स्थानानि)
 • संसदीयनिर्वाचनक्षेत्राणि
 • उच्चन्यायालयः गुवाहाटी उच्चन्यायालयः - इटानगरम्
विस्तीर्णता
 • संहतिः <
क्षेत्रविस्तारः पञ्चदशः
जनसङ्ख्या (2011)
 • संहतिः १३,८२,६११
 • रैङ्क् षड्विंशतितमः
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-AR
HDI increase 0.617 (medium)
HDI rank 18th (2005)
साक्षरतामानम् ६६.९५%
राजभाषा आङ्ग्लभाषा
जालस्थानम् arunachalpradesh.nic.in अधिकृतजालम्


अन्तर्विषयाः

भूगोलम्सम्पाद्यताम्

अरुणाचलप्रदेशस्य अधिकः भागः हिमालये अस्ति । किन्तु लोहित,चाङ्गलाङ्ग, तिरपपतकाई इत्यादयाः प्रदेशाः पर्वतप्रदेशेषु सन्ति । काङ्ग्तो, न्येगीकाङ्गसाङ्ग, मुख्यगोरीचन चोटी तथा पूर्व गोरीचन चोटी इत्यादि क्षेत्रेषु हिमालयस्य उन्नत शिखराणि सन्ति । ४४ वर्षाणाम् अनन्तरं, प्रप्रथमवारं २००६ तमे संवत्सरे तवाङ्गे स्थित बुम्लापास् प्रदेशम् उद्घाटितवन्तः । उभयप्रदेशेषु विद्यमानेभ्यः व्यापारार्थम् अवकाशं कल्पितवन्तः। हिमालयस्य पर्वतमालाः चिनादेशात् विभागं कुर्वन्ति । अत्र विद्यमानाः पर्वताः हिमालयस्यापेक्षया कुब्जाः भवन्ति ।

वायुमण्डलम्सम्पाद्यताम्

अरुणाचलप्रदेशस्य वायुमण्डलस्य व्यत्यासः उन्नतप्रदेशेषु भवति । हिमालये स्थित टिबेट् प्रदेशस्य निकटक्षेत्रेषु अल्वैन् उत कर्सर् प्रकारयोः वातावरणं भवति । मध्यहिमालयस्य क्षेत्रेषु वातावरणं समशीतोष्णं भवति । अत्र सेब,नारङ्ग इत्यादि फलानां वृक्षाणि सन्ति । अरुणाचलप्रदेशे ८०तः १६०(२००० तः ४००० मि.मी.) अङ्गुलपरिमितवृष्टिः भवति । मे तथा सेप्टम्बरमासयोः अधिकवृष्टिः भवति । अत्र ओक्, फैन्, मेपल्, फर्, साल् तथा जुनिपर् इत्यादि वृक्षाः सन्ति।

इतिहासःसम्पाद्यताम्

अरुणाचलप्रदेश-राज्यस्य ऐतिह्यविषयिणी काऽपि चर्चा न प्राप्यते । अस्य राज्यस्य इतिहासः केवलं कथारूपेण एव श्रूयते । इतः परम् तत्र ध्वंसावशेषाः अपि सन्ति । ते पर्वतीयक्षेत्रे प्राप्यन्ते । यदा पर्वतीयक्षेत्रे उत्खननम् अभवत्, तदा ज्ञातं यत् – “ते ध्वंसावशेषाः ख्रीष्टब्दात् पूर्वम् एव स्थिताः सन्ति । ऐतिहासिकप्रमाणैः ज्ञायते यत् – जनाः तत्र निवसन्ति स्म । भारतस्य समीपस्थैः राज्यैः सह तेषां जनानां सम्पर्कः अपि आसीत् ।

प्राप्तभग्नावशेषैः अनुमीयते यत् – ये जनाः ब्रह्मपुत्रा-नद्याः उत्तरीतटे निवसन्ति स्म, ते राजनैतिकक्षेत्रे, सांस्कृतिकक्षेत्रे, अन्यक्षेत्रेषु च प्रगतिशीलाः आसन् । प्रारम्भिकाभिलेखेषु अरुणाचलप्रदेश-असमराज्ययोः सम्बन्धः अपि आसीत् । पुरा अस्मिन् राज्ये अहोम-वंशजानां राज्ञां शासनम् आसीत् । तथापि स्वतन्त्रतायाः अनन्तरम् एव तत्र सुप्रशासनस्य आरम्भः जातः । ई. स. १८२६ तमस्यवर्षस्य फरवरी-मासस्य २४ तमे दिनाङ्के (२४ फरवरी १८२६) यण्डाबूसन्धिः समाप्तः जातः । तदनन्तरम् असम-राज्ये ब्रिटिश्-शासनम् आरब्धम् । तावदेव अरुणाचलप्रदेश-राज्यस्य आधुनिकेतिहासः आरब्धः ।

राज्यस्य स्थापनासम्पाद्यताम्

ई. स. १९६२ तमवर्षात् पूर्वम् अरुणाचलप्रदेश-राज्यं “पूर्वोत्तर सीमान्त एजेन्सी (North-East Frontier Agency - NEFA)” इति नाम्ना ज्ञायते स्म । यतः अस्य पश्चिमदिशि भूटान्-देशः, उत्तरपूर्वदिशि तिब्बत्-देशः, चीनदेशः च, पूर्वदिशि म्यान्मार-देशः, दक्षिणदिशि नागालैण्ड-राज्यम्, असम-राज्यं च स्थितम् अस्ति । संवैधानिकरूपेण अरुणाचलप्रदेश-राज्यम् असम-राज्यस्य भागः एव आसीत् । तथापि ई. स. १९६५ तमवर्षपर्यन्तम् अरुणाचलप्रदेश-राज्यस्य प्रशासनं विदेशमन्त्रालयस्य आधीन्ये आसीत् । ततः परम् असम-राज्यस्य राज्यपालस्य आदेशानुसारम् अस्य राज्यस्य प्रशासनं गृहमन्त्रालयस्य अधीने अभवत् । तदैव अस्य अरुणाचलप्रदेशः इति नामकरणं जातम् ।

ई. स. १९८७ तमे वर्षे फरवरी-मासस्य २० तमे दिनाङ्के (२० फरवरी १९८७) अरुणाचलप्रदेशेन भारतीयसङ्घस्य चतुर्विंशतितमं राज्यत्वं प्राप्तम् ।

मण्डलानिसम्पाद्यताम्

अरुणाचलप्रदेशः १७ जनपदेषु (विभागेषु) विभक्तोऽस्ति। तेषु तेषु जनपदेषु जनपदाधिकारि एव मुख्यः भवति । जनपदेषु जनापेक्षित अंशान् सः एव पूरयति । सीमाप्रदेशेषु भारतीय सेनायाः रक्षणाकार्यम् अहर्निशं भवति । अन्तः आगन्तुकानां सर्वविधपरीक्षणं कुर्वन्ति।

अरुणाचलप्रदेशस्य मण्डलानि
तिरप् मण्डलम्
अञ्जावमण्डलम्
चङ्लङ् मण्डलम्
पूर्वकमेङ्गमण्डलम्
पूर्वसियाङ्गमण्डलम्
कुरुङ्गकुमेमण्डलम्
लोहितमण्डलम्
दक्षिणदिबाङ्गव्यालीमण्डलम्
दक्षिणसुबनसिरीमण्डलम्
पपुम्पारेमण्डलम्
तवाङ्गमण्डलम्
उत्तरदिबाङ्गव्यालीमण्डलम्
उत्तरसुबनसिरीमण्डलम्
उत्तरसियाङ्गमण्डलम्
पश्चिमसियाङ्गमण्डलम्
पश्चिमकामेङ्गमण्डलम्
लोन्गडिङ्गमण्डलम्

महानगराणिसम्पाद्यताम्

ईटानगरम्सम्पाद्यताम्

ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानी अपि अस्ति । इदं नगरं हिमालयपर्वतस्य तले स्थितम् अस्ति । नगरमिदं पापुमपरेमण्डलस्य प्रशासनिकाधिकारक्षेत्रं वर्तते । ई. स. १९७४ तमस्य वर्षस्य अप्रैल-मासस्य विंशतितमे (२०) दिनाङ्के (२० अप्रैल १९७४) ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानीत्वेन उद्घोषितम् । अरुणाचलप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति ईटानगरम् । ईटानगरं लघुभारतत्वेन अपि ख्यातम् अस्ति । यतः भारतदेशस्य प्रत्येकराज्यस्य जनाः तत्र निवसन्ति । अस्य नगरस्य बौद्धमन्दिरं यात्रिकाणाम् आकर्षकं केन्द्रं विद्यते | ईटानगरम् अरुणाचलप्रदेश-राज्यस्य राजधानी अस्ति अतः भूमार्गेण, वायुमार्गेण, धूमशकटमार्गेण वा ईटानगरं प्राप्तुं शक्यते । असम-राज्यस्य हरमूती-रेलस्थानकम् ईटानगरस्य निकटतमं रेलस्थानकम् अस्ति [१]

तवाङ्गसम्पाद्यताम्

तवाङ्ग-नगरम् अरुणाचलप्रदेशस्य पश्चिमदिशि स्थितम् अस्ति । नगरमिदम् अतीव सुन्दरं विद्यते । तवाङ्ग-नगरं स्वस्य अलौकिकसौन्दर्याय विख्यातम् अस्ति । अस्य उत्तरदिशि तिब्बत-देशः, दक्षिणपूर्वदिशि भूटान-देशः, पूर्वदिशि पश्चिमकमेङ्गमण्डलस्य सेलापर्वतशृङ्खला च विद्यते । तवाङ्ग-शब्दस्य व्युत्पत्तिः तवाङ्गमठाधारिता अस्ति । “ता” इत्युक्ते अश्वः, वाङ्ग इत्युक्ते चितः । अर्थात् “अश्वेन चितः” इत्यर्थः भवति ।

पौराणिककथानुसारं प्राप्यते यत् – “मेराग लामा लोड्रे ग्यामत्सो” इत्याख्यः मठं निर्मातुं योग्यस्थानम् अन्विषन् आसीत् । किन्तु सः तावत् योग्यं स्थलं न प्राप्तवान् । अन्ते तेन दिव्यशक्त्याः मार्गदर्शनं प्राप्तुं निर्णयः कृतः । अतः सः प्रार्थनां चकार । प्रार्थनं समाप्य यदा तेन नेत्रे उद्घाटिते, तदा तस्य अश्वः तत्र नासीत् । सः अश्वम् अन्वेष्टुं सर्वत्र भ्रमणं कृतवान् । पर्वतशिखरे तेन स्वस्य अश्वः प्राप्तः । तत्रैव तेन मठः निर्मितः । तदा एव “तवाङ्ग” इति शब्दस्य आविर्भावः जातः । प्राकृतिकसौन्दर्यदृष्ट्या तवाङ्ग-नगरं महत्समृद्धं वर्तते । अस्य सौन्दर्यं दृष्ट्वा जनाः मुग्धाः भवन्ति । सूर्यस्य प्रथमः किरणः सर्वप्रथमं तत्रैव निपतति । तद्दृश्यं दृष्टव्यं भवति । तवाङ्ग-नगरस्य वातावरणं सामान्यम् एव भवति । तथापि मार्च-मासतः अक्टूबर-मासपर्यन्तं तत्र गन्तव्यम् । तस्मिन् समये वातावरणं विशिष्टं भवति । भूमार्गेण, वायुमार्गेण, धूमशकटमार्गेण वा तवाङ्ग-नगरं प्राप्तुं शक्यते । असम-राज्यस्य गुवाहाटी-नगरं तवाङ्ग-नगरस्य निकटतमं नगरं वर्तते । गुवाहाटी-नगरस्य विमानस्थानकं समीपस्थं वर्तते ।

जनसङ्ख्यासम्पाद्यताम्

अरुणाचलप्रदेशे १९ प्रमुखजातीयाः तथा ८५ उपजातीयाः जनाः भवन्ति । प्रायशः अधिकाः जनाः टिबेट्-बर्मी उत ताई-बर्मी तः प्रव्रज्यागताः भवन्ति । प्रायः ३५% प्रतिशतं जनाः बङ्गालः, बोडो, हजोन्ग, बाङ्ग्लादेशादिभिः आगताः सन्ति । एवम् अस्साम्, नागाल्याण्ड तथा भारतस्य अन्येभ्यः राज्येभ्यः आगताः यात्रिकाः अपि भवन्ति । प्रसिद्धजातिषु आदि, गालो, निशि, खम्ति, मोंपा तथा अपातनि मुख्याः भवन्ति । अरुणाचलप्रदेशे १९९१ तमे संवत्सरे ४१.५९% प्रतिशतं जनाः साक्षराः आसन् । ४८७७९६ व्यक्तयः साक्षराः आसन् । २००१ तमे संवत्सरे कृत भारतसार्वकारस्य गणनानुसारं २०% प्रतिशतं प्रकृतिधर्मीयाः अर्थात् डोन्यी-पोलो तथा रङ्गफ्राह योः पालनं कुर्वाणाः जनाः सन्ति इति । मिरि तथा नोक्ते जनयोः मिलित्वा प्रायः ३५% प्रतिशतं जानाः हैन्दवः सन्ति । १३% प्रतिशतं जनाः बौद्धाः सन्ति । टिबेट् बौद्धधर्मः मुख्यतया तवाङ्ग, पश्चिम कामेङ्ग तथा टिबेट् पार्ष्वस्थ प्रदेशेषु प्रचलितम् अस्ति । थेरावादबौद्धधर्मः बर्मी सीमायाः समीपे विद्यमानैः जनैः पालितम् अस्ति। प्रायः १९% प्रतिशतं यवनाः सन्ति।

भाषाःसम्पाद्यताम्

अरुणाचलप्रदेशराज्ये विभिन्नानि क्षेत्राणि सन्ति । अतः राज्ये भाषाः अपि विविधानि सन्ति । यथा – निशिङ्ग, मोनपा, मिजी, अङ्का, शेरदुकपेन, अपतानी, तगिन, हिलमिरी, अदी गैलोङ्ग, दिगारू मिशमी, इदु-मिशमी, मिजु मिशमी, खामटी, नोकटे, तङ्गसा, वांचू च एताः भाषाः अरुणाचलप्रदेशराज्ये प्रचलिताः सन्ति ।

शिक्षणम्सम्पाद्यताम्

ई. स. २०११ तमस्य वर्षस्य जनगणनानुसारम् अरुणाचलप्रदेश-राज्यस्य साक्षरतामानं ६६.६३ प्रतिशतं वर्तते । पुरुषाणां साक्षरतामानं ७३.६९ प्रतिशतं, महिलानां च साक्षरतामानं ५९.५७ अस्ति । “अरुणाचलविश्वविद्यालयः”, अरुणाचलप्रदेश-राज्यस्य प्रमुखं शैक्षणिकसंस्थानं विद्यते । अयं विश्वविद्यालयः ईटानगरे स्थितः अस्ति । “नॉर्थ्-ईस्टर्न् रीजनल् इंस्टीट्यूट् ऑफ् साइन्स् एण्ड् टेक्नोलॉजी” इतीयं संस्था अपि अरुणाचलप्रदेशे शैक्षणिकसंस्थासु प्रमुखतमा वर्तते । इयम् अपि ईटानगरे स्थिता अस्ति ।

राजनीतिःसम्पाद्यताम्

अरुणाचलप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्ये विधानसभायाः षष्ठीः (६०) स्थानानि (Seats), लोकसभायाः द्वे (२) स्थाने (Seats), राज्यसभायाः एकं (१) स्थानम् (Seat) एव अस्ति । ई. स. १९७५ तमे वर्षे विधानसभायाः, मन्त्रिपरिषदः व्यवस्था जाता । ई. स. १९८६ तमे वर्षे सर्वकारेण अस्मै राज्याय विशेषराज्यत्वेन स्थानं प्रदत्तम् आसीत् । यत्र जनसङ्ख्याघनत्वं न्यूनं भवेत्, यत्र आर्थिकविकासः अपि न स्यात्, यत्र पर्वतीयक्षेत्राणि भवेयुः, तादृशेभ्यः राज्येभ्यः विशेषराज्यस्य स्थानं प्रदीयते । तत्र प्रमुखाः त्रयः राजनैतिकपक्षाः सन्ति । ते - राष्ट्रीय कॉङ्ग्रेस्-पक्षः, अरुणाचल कॉङ्ग्रेस्-पक्षः, भारतीयजनतापक्षः च ।

अर्थव्यवस्था, कृषिःसम्पाद्यताम्

अरुणाचलप्रदेशराज्यस्य अर्थव्यवस्थायाः मूलाधारः कृषिः एव अस्ति । अस्य राज्यस्य अशीतिः प्रतिशतं जनाः कृष्या सह संलग्नाः सन्ति । राज्ये पर्वतरोधसि स्थानान्तरणकृषिः क्रियते । कुत्रचित् सोपानात्मिका कृषिः अपि क्रियते । पूर्वोत्तरपरिषदः साहाय्येन कृषिसम्बद्धानां गतिविधीनां प्रोत्साहनार्थं राज्ये तवाङ्ग-नगरे “रीजनल् सीड् फाउण्डेशन् पोटेटो फार्म्”, दीराङ्ग-नगरे “क्षेत्रीय सेब नर्सरी”, शेरगाँव इत्यत्र “राज्य बागबानी फार्म्” च उद्घाटितम् अस्ति ।

राज्येऽस्मिन् तण्डुलानां, लवेटिका (Corn), गोधूमः, लङ्गुरा (Millet) च इत्यादीनि सस्यानि प्रमुखाणि सन्ति । इतः परं निर्यासस्य (Rubber), कॉफी (Coffee), चाय (Tea) चेत्येतेषाम् अपि उत्पादनं भवति । राज्ये कदलीफलं, हरिद्रा, नारिङ्गफलं, द्राक्षाफलम्, अक्षोटं (Walnut), बीजपूरं (Guava) चापि उत्पाद्यन्ते । अरुणाचलप्रदेशीयाः जनाः कृषिमवलम्बैव जीवनं यापयन्तः सन्ति। अत्रत्य अर्थव्यवस्था “झूम” कृष्याश्रिता अस्ति। उन्नतपर्वतादिषु विद्यमानानां जनानां “झूम” कृषिप्रकारस्य पारंपरिकविधिः भवति। अस्य कृषिप्रकारस्य मुख्य फलचयाः तण्डुलम्,यावानलः,आर्द्रकः,तिलं तथा इक्षु इत्यादि भवन्ति। अद्यत्वे आलू एवं सेब,नारङ्गं तथा पनसादि फलानि अत्रत्य फलचयाः भवन्ति।

उद्योगाः, खानिजश्चसम्पाद्यताम्

अरुणाचलप्रदेश-राज्ये कुटीरोद्योगः प्रसिद्धः वर्तते । कुटीरोद्योगः वनाधारितः भवति । इतः परं फलनिर्माणं, सिक्थवर्तिकानिर्माणम् (Candle), काष्ठकार्याणि, चायकृषिश्च प्रमुखोद्योगाः सन्ति । राज्ये शिल्पस्य, वयनस्य च बहूनि केन्द्राणि सन्ति । तेषु केन्द्रेषु दैनिकोपयोगीवस्तूनि सज्जीकर्तुं प्रशिक्षणं प्रदीयते । राज्ये प्रायः अष्टादश औद्योगिकघटकानि मध्यमस्तरीयानि सन्ति । ई. स. १९९१ तमे वर्षे “खनिज विकास और व्यापार निगम लिमिटेड्” इत्यस्याः संस्थायाः स्थापना अभवत् । राज्ये वज्रचूर्णस्य यन्त्रागारः अपि अस्ति । राज्ये प्रौद्योगिकशिक्षणसंस्थानद्वयम् अस्ति । तत्र यन्त्रसम्बन्धिनं शिक्षणं प्रदीयते । ये स्थानीयाः सन्ति, तेभ्यः चायस्य उद्यानाय प्रोत्साहनं प्रदीयते । तयोः एकं संस्थानं रोहङ्ग-नगरे, अपरं च तबीरीजो-नगरे च स्थितम् अस्ति । अरुणाचलप्रदेशस्य विशालस्य खनिजस्य रक्षणार्थं १९९१ तमे संवत्सरे “अरुणाचलप्रदेश खनिजविकासः तथा व्यापार निगम लिमिटेड्” इति संस्था सार्वकारेण स्थापिता । सार्वकारस्य पक्षतः “सार्वकार औद्योगिक प्रशिक्षण संस्थाः” सन्ति । क्रयविक्रयणप्रशिक्षणम्, रोयिङ्ग, टबारीजो, दिरांग, युपैया तथा मैओ इत्यादि प्रशिक्षणकेन्द्राणि सन्ति ।

सिञ्चनं, विद्युदुत्पादनं चसम्पाद्यताम्

ई. स. १९९८ तमवर्षपर्यन्तं राज्ये ८७,५७८ हेक्टेयर् परिमितायाः भूमेः सिञ्चनाय व्यवस्था जाता । अरुणाचलप्रदेश-राज्ये विद्युदुत्पादनस्य क्षमता अपि अधिका अस्ति । अरुणाचलप्रदेश-राज्यस्य विद्युदुत्पादनक्षमता ३०,७३५ मेगावाट् परिमिता जाता । सम्पूर्णे राज्ये ३,६४९ ग्रामाः सन्ति, तेषु २,५९७ ग्रामेषु विद्युतः व्यवस्था कृता ।

कला, संस्कृतिः चसम्पाद्यताम्

अरुणाचलप्रदेशे बह्वीनां जनजातीनां जनाः निवसन्ति । सर्वासां जनजातीनां भिन्नाः नृत्यशैल्यः सन्ति । अरुणाचलप्रदेश-राज्यस्य अधिकतमानि लोकनृत्यानि समूहे क्रियन्ते । अस्य राज्यस्य वस्त्राभूषणानि, सामाजिकस्थितिः, धर्मः, भाषाः च तिब्बत-देशेन प्रभाविताः सन्ति । तिब्बत-देशीयानां महत्त्वपूर्णः मठः ल्हासा-नगरे स्थितः अस्ति । अपरः महत्त्वपूर्णः मठः अरुणाचलप्रदेश-राज्यस्य तवाङ्ग-नगरे स्थितः अस्ति । अयं विश्वस्य बृहत्तमः मठः अस्ति । अरुणाचलप्रदेश-राज्ये बह्व्यः जातयः सन्ति । तासु ताङ्गसा-जातिः अपि अन्यतमा अस्ति । तस्यां जातौ विविधाः प्रथाः प्रचलिताः सन्ति । तासु प्रथासु एकस्याः प्रथायाः अनुसारं प्रत्येकस्य गृहस्य द्वितीयः पुत्रः भगवते बुद्धाय समर्प्यते । अस्मिन् राज्ये काष्ठकार्याणि, हस्तशिल्पकार्यं, मृत्पात्रनिर्माणकार्यम् इत्यादिकार्याणि प्रचलितानि सन्ति ।

उत्सवाःसम्पाद्यताम्

अरुणाचलप्रदेश-राज्ये बहवः उत्सवाः आचर्यन्ते । तेषु उत्सवेषु परशुरामकुण्डमेला-उत्सवः, मालीनीयानमेला-उत्सवः च प्रमुखः वर्तते । इतः परम् अपि बहवः उत्सवाः सन्ति । यथा – सी-डोनची, सोलङ्ग, न्योकुम, बुरी-बूट, चालो-लोकु, सङ्गकोन, मोपीन, ओरिआ चेत्यादयः ।



वीक्षणीयस्थलानिसम्पाद्यताम्

अरुणाचलप्रदेश-राज्ये बहूनि वीक्षणीयस्थलानि सन्ति । यतः इदं राज्यं पर्वतीयक्षेत्रं वर्तते । अपि च इदं सूर्यस्य प्रथमः किरणः अस्य राज्यस्य भूमौ एव निपतति । अतः एव अस्य राज्यस्य नामकरणम् अपि तथैव कृतम् । तेन जनाः पर्वतीयक्षेत्रस्य विहारार्थं तत्र गच्छन्ति ।

तेजूसम्पाद्यताम्

अरुणाचलप्रदेश-राज्यस्य लोहित-मण्डले तेजू-नामकः लघुग्रामः स्थितः अस्ति । इदं स्थलं सौन्दर्याय, नदीभ्यः च प्रसिद्धमस्ति । तत्र मिशमि-जनाजातेः जनाः निवसन्ति । इयं जनजातिः प्राचीना अस्ति । महाभारतकालादेव अस्य अस्तित्त्वं विद्यमानम् अस्ति । कथ्यते यत् – भगवतः कृष्णस्य राज्ञी रुक्मिणी मिशमि-जनजातेः युवती आसीत् । तेजू-ग्रामस्य जनैः मिशमि-उत्सवः आचर्यते । सः उत्सवः तमलाडू-पूजा इति ज्ञायते । अयमुत्सवः मिशमिजनजातेः प्रमुखोत्सवः अस्ति । प्रतिवर्षं फरवरी-मासस्य १५ दिनाङ्के अयमुत्सवः आचर्यते । उत्सवेऽस्मिन् प्रत्येकस्य समुदायस्य जनाः समुपस्थिताः भवन्ति । तेजू-ग्रामे प्रतिवर्षं जनवरी-मासे मेला-उत्सवः आयोज्यते । वायुमार्गेण, भूमार्गेण, धूमशकटमार्गेण च इदं स्थलं प्राप्तुं शक्यते । तिनसुकया-रेलस्थानकं तेजू-ग्रामस्य समीपस्थः रेलस्थानकं वर्तते । जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति । तत्र बहूनि वीक्षणीयस्थलानि सन्ति । तेषु ‘ग्लो झील’, ‘हवा कैम्प’, ‘उष्णजलप्रपातः’, ‘परशुरामकुण्डः’ च प्रसिद्धः अस्ति ।

परशुरामकुण्डःसम्पाद्यताम्

इदं स्थलं कोठार इति नाम्ना अपि ज्ञायते । अरुणाचलप्रदेश-राज्यस्य लोहित-मण्डले स्थितमिदं स्थलम् । तेझु-नगरात् २४ किलोमीटर्मितं दूरे स्थितम् अस्ति इदं वीक्षणीयस्थलम् । अयं कुण्डः परशुरामेण सह सम्बद्धः अस्ति । एकदा जमदग्नेः पत्नी रेणुका पतये स्नानार्थं जलमानेतुं गतवती आसीत् । कारणवशात् सा जलम् नीत्वा विलम्बेन आगतवती । तस्मात् खिन्नेन जमदग्निना परशुरामः मातुः वधाय आदिष्टः । पितुः आज्ञया परशुरामेण मातुः रेणुकायाः शिरः अच्छिद्यत । अनन्तरं परशुरामेण पापात् मुक्त्यर्थम् अस्मिन् कुण्डे स्नानं कृतम् आसीत् । ततः प्रभृतिः अयं कुण्डः परशुरामकुण्डः इति विख्यातः अस्ति ।

समयान्तरे इदं वीक्षणीयस्थलं प्रसिद्धं जातम् । साम्प्रतम् इदं स्थलं लोहित-मण्डलस्य परिचयत्वेन ज्ञायते । प्रतिवर्षं जनाः जनवरी-मासस्य १४ दिनाङ्के मकरसङ्क्रान्तौ स्नानार्थं तत्र गच्छन्ति । अतः अरुणाचलप्रदेश-राज्यस्य सर्वकारेण यात्रिकेभ्यः निवासाय धर्मशालायाः, भोजनाय भोजनशालायाः च व्यवस्था कृता अस्ति ।

दुर्गःसम्पाद्यताम्

अरुणाचलप्रदेशस्य राजधानी ईटानगरम् अस्ति । तस्मिन् नगरे ईटा-दुर्गः अस्ति । तेन एव अस्य नगरस्य नाम ईटानगरम् इत्यभवत् । चतुर्दशशताब्द्याम् ईटा-दुर्गस्य निर्माणं जातम् आसीत् । दुर्गेऽस्मिन् बहूनि प्राकृतिकदृश्यानि सन्ति । तानि दृष्टुम् आत्मानं नन्दयितुं च जनाः तत्र गच्छन्ति ।

पौराणिकगङ्गाद्रुहःसम्पाद्यताम्

इदं स्थलम् ईटानगरात् ६ किलोमीटर्मितं दूरे स्थितम् अस्ति । तस्य समीपं वनम् अपि वर्तते । इदं वनम् अतीव सुन्दरम् अस्ति । वने सुन्दराः वृक्षाः, पादपाः, वन्यजीवाः, पुष्पाणि, उद्यानानि च सन्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति ।

बौद्धमन्दिरम्सम्पाद्यताम्

इदं मन्दिरं प्राचीनं वर्तते । बौद्धधर्मस्य गुरुणा दलाई लामा इत्याख्येन अपि अस्य मन्दिरस्य यात्रा कृता अस्ति । अस्य मन्दिरस्य छदिः पीतवर्णीया अस्ति । मन्दिरस्यास्य निर्माणं तिब्बतीयशैलिभिः कृतम् अस्ति । अस्मिन् मन्दिरे एकः सङ्ग्रहालयः अपि अस्ति । तस्य नाम “जवाहरलालनेहरू-सङ्ग्रहालयः” अस्ति । इदं मन्दिरम् आकर्षणकेन्द्रम् अस्ति । यतः इतः सम्पूर्णस्य ईटानगरस्य सुन्दराणि दृश्यानि दृष्टुं शक्यन्ते ।

पापुम पारेसम्पाद्यताम्

अरुणाचलप्रदेश-राज्ये पापुमपारेमण्डलं स्थितम् अस्ति । तस्मिन् मण्डले पापुमपारे-नगरं विद्यते । इदं नगरम् ईटानगरात् २० किलोमीटर्मितं दूरे स्थितम् अस्ति । इदं स्थलम् अत्यन्तं सुन्दरम् अस्ति । हिमालय-पर्वतस्य तले स्थितम् अस्ति इदं रमणीयस्थलम् । अतः वीक्षकाः पर्वतस्य शिखराणि दृष्टुं शक्यन्ते । इतः परं वनानि, नद्यः चापि सन्ति । तत्र निशीजातीयाः जनाः निवसन्ति । सम्पूर्णे राज्ये ते जनाः वीरतायै प्रसिद्ध्यन्ति ।

भीष्मकनगरम्सम्पाद्यताम्

इदं नगरं दिबाङ्गवेलीमण्डले स्थितम् अस्ति । नगरमिदम् अरुणाचलप्रदेश-राज्यस्य लोकप्रियं, ऐतिहासिकं च स्थलं वर्तते । नगरेऽस्मिन् एकः दुर्गः अस्ति । सः दुर्गः राइङ्ग-नगरात् ३० किलोमीटर्मितं दूरे स्थितः अस्ति । अयं दुर्गः प्राचीनपुरातात्त्विकेषु दुर्गेषु अन्यतमः अस्ति । अष्टमशताब्द्यां पक्वेष्टिकाभिः अस्य दुर्गस्य निर्माणम् कृतम् आसीत् । इदं स्थलम् अरुणाचलप्रदेश-राज्यस्य “इदु मिस्मीस्” इति जनजातेः पवित्रतमं तीर्थस्थलम् अस्ति । यदा अत्र उत्खननं कृतम् आसीत्, तदा ततः कलाकृतयः, मृद्वस्तूनि, मृत्प्रतिमाः, मृत्पात्राणि च प्राप्तानि [२]

आकाशीगङ्गासम्पाद्यताम्

इदं स्थलं पौराणिकं स्थलं वर्तते । उच्यते यत् – “भगवान् शिवः सत्याः मृतशरीरं निधाय आकाशे भ्रमणं कुर्वन् आसीत् । अतः भगवता विष्णुना सुदर्शनचक्रेण सत्याः मृतशरीराङ्गानि छेदितानि । तत्र एकः कुण्डः अस्ति । सः कुण्डः अद्भुतः वर्तते । तस्य कुण्डस्य वस्तूनि शनैः शनैः अदृश्यानि भवन्ति । यदि स्नानं करणीयं चेत् १०० मीटर् मितम् अधः गत्वा कर्तुं शक्यते । इदं स्थलं ब्रह्मपुत्रा-नद्याः तटे स्थितम् अस्ति ।

मालिनीथानसम्पाद्यताम्

“मालिनीथान” इदं स्थलं पुरातनं विद्यते । इदं स्थलम् असम-अरुणाचलप्रदेशराज्ययोः सीमायां स्थितम् अस्ति । इदं सियाङ्ग-नगरस्य पर्वतक्षेत्रे अस्ति । तत्र उत्खनने चतुर्दशशताब्द्यां निर्मिताः दुर्गामन्दिरस्य अवशेषाः प्राप्ताः । अपि च विभिन्नदेवतानां पाषाणप्रतिमाः, वनस्पतयः, पशूनां प्रतिरूपाणि चापि प्राप्तानि । इदं स्थलं पवित्रं मन्यते । अतः बहवः दर्शनार्थिनः तत्र गच्छन्ति । इदं स्थलं पौराणिककथया सह सम्बद्धं वर्तते । कथ्यते यत् – “ विवाहात्पूर्वमेव भगवता कृष्णेन रुक्मिणी आनीता। अनन्तरं पार्वत्या तयोः पुष्पमालाभिः स्वागतं कृतम् आसीत्” । तदा कृष्णेन पार्वत्यै “सुचारू मालिनी” इति नाम प्रदत्तम् । तन्नाम्ना एव अस्य स्थलस्य नामकरणम् अभवत् । इदं स्थलम् आलोङ्ग-नगरात् १५० किलोमीटर्मितम् दूरे स्थितम् अस्ति ।

रोइङ्गसम्पाद्यताम्

रोइङ्ग-नगरम् अरुणाचलप्रदेश-राज्यस्य दियाङ्गवैली-मण्डलस्य मुख्यालयः वर्तते । इदम् अरुणाचलप्रदेश-राज्यस्य पूर्वभागस्य अंशः वर्तते । रोइङ्ग-नगरस्य उत्तरभागः दिबाङ्गपर्वतेन, नदिभिः च आश्लिष्टम् अस्ति । अस्य पूर्वदिशि लोहितमण्डलं, पश्चिमदिशि मैकमोहनरेखा च वर्तते । हिमाच्छादितानि शिखराणि, अशान्तनद्यः, रहस्यमयः पर्वतः, जीवजन्तवः, वनस्पतयः, जनजातयः, प्राचीनपुरातत्त्विकस्थलानि च इत्यादीनि रोइङ्ग-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । तत्र वन्यजीवाभयारण्यम् अपि विद्यते । रोइङ्ग-नगरं मिस्मीपर्वतस्य तले स्थितम् अस्ति । तत्र जनाः मैत्रीपूर्णं निवसन्ति । रोइङ्ग-नगरे प्रमुखत्वेन मिस्मीजनजातेः, अदिजनजातेः च जनाः निवासं कुर्वन्ति । मिस्मी-जनजातेः जनैः प्रतिवर्षं फरवरी-मासे रेह-उत्सवः आचर्यन्ते । अदि-जनजातेः जनाः प्रतिवर्षं सितम्बर-मासे सोलाङ्ग-उत्सवम् आचरन्ति । शीतर्तौ अक्टूबर-मासे, जनवरी-मासे च जनाः तत्र भ्रमणार्थं गच्छन्ति । जनाः तत्रत्यैः मनोहरदृश्यैः आकृष्टाः भवन्ति । असम-राज्यस्य तिनसुकिया-रेलस्थानकात् रोइङ्ग-नगरं गन्तुं शक्यते । यतः रोइङ्ग-नगरे परिवनाय रेलस्थानकं, विमानस्थानकं च नास्ति ।

मियाओसम्पाद्यताम्

अरुणाचलप्रदेशस्य चाङ्गलाङ्ग-मण्डालस्य उपसम्भागः अस्ति मियाओ-नगरम् । मियाओ-नगरे उत्तरपूर्वभारतस्य राज्यापेक्षया सर्वाधिकी वृष्टिः जायते । इदं नगरम् अरुणाचलप्रदेश-राज्यस्य प्रगतिशीलनगरेषु अन्यतमं वर्तते । नोआ-दिहिङ्ग-नदी ततः एव वहति । इयं नदी बृहत्तमासु नदीषु अन्यतमा अस्ति । तस्मिन् नगरे “पटकाई बुम” इत्याख्या पर्वतशृङ्खला अपि अस्ति । तत्र वातावरणं शीतलं भवति । वनानि अपि सघनानि सन्ति । अतः एव इदं नगरम् अरुणाचलप्रदेशराज्यस्य लोकप्रियवीक्षणीयस्थलं वर्तते । तत्र ‘नमदाफा बाघ परियोजना’, लघुप्राणीसङ्ग्रहालयः, सङ्ग्रहालयः च अस्ति । अतः जनाः भ्रमणार्थं तत्र गच्छन्ति । मियाओ-नगरे बहूनि हिन्दुमन्दिराणि, ख्रिस्त्-उपासनागृहाणि (Church) च सन्ति ।

मियाओ-नगरस्य समीपे अपि बहूनि दर्शनीयस्थलानि सन्ति । तानि – बोरदुमसा, नमसाई, नामपोङ्ग जैरमपुरं च । मियाओ-नगरं समीपस्थैः बृहन्नगरैः सह सम्बद्धम् अस्ति । अतः सरलतया तत्र गन्तुं शक्यते । वायुमार्गेण, धूमशकटमार्गेण भूमार्गेण वा मियाओ-नगरं प्राप्यते ।

नमदाफा-राष्ट्रियोद्यानम्सम्पाद्यताम्

नमदाफा-राष्ट्रियोद्यानम् अरुणाचलप्रदेशस्य आकर्षणकेन्द्रं वर्तते । इदम् उद्यानं चाङ्गलाङ्ग-मण्डले स्थितम् अस्ति । हिमालयस्य पूर्वभागः जैवविविधतायै विख्यातः अस्ति । नमदाफा पूर्वभागस्य संरक्षितं क्षेत्रं विद्यते । क्षेत्रफलदृष्ट्या अपि इदं भारतदेशस्य द्वितीयं बृहत्तमम् उद्यानं वर्तते । अतः इदं राष्ट्रियोद्यानत्वेन उद्घोषितम् । उद्याने बहूनि सुघनानि वनानि सन्ति । उद्यानं परितः मिश्मी-पर्वतशृङ्खला, पाटकी-पर्वतशृङ्खला च अस्ति । नमदाफा-स्थलं मियाओ-नगरस्य समीपे एव अस्ति । इदं राष्ट्रियोद्यानं भारतस्य १५१ तमं व्याघ्राभयारण्यं वर्तते । इदम् अभयारण्यं १९८५ चतुरस्रकिलोमीटर् मितं विस्तृतम् अस्ति । उद्याने नमदाफा-नदी वहति । अतः एव अस्य उद्यानस्य नाम नमदाफा-राष्ट्रियोद्यानम् अस्ति । येभ्यो जनेभ्यः वन्यजीवनं रोचते, तेभ्यः वीक्षणार्थम् इदं स्थलम् उत्तमं वर्तते । अस्मिन् उद्याने विविधाः पशवः, वनस्पतयः च प्राप्यन्ते । औषधयः अपि विविधप्रकारकाणि प्राप्यन्ते । उद्याने अपि काश्चन जनजातयः प्राप्यन्ते । यथा – चकमा, तङ्ग्सा, सिङ्ग्फो च ।

बोमडिलासम्पाद्यताम्

बोमडिला-स्थलम् अरुणाचलप्रदेश-राज्यस्य कामेङ्ग-मण्डले स्थितम् एकं रमणीयं स्थलं वर्तते । इदं कामेङ्ग-मण्डलस्य मुख्यालयः अस्ति । समुद्रतलात् इदं स्थलं ८००० पादपरिमिते औन्नत्ये अस्ति । हिमालस्य पूर्वभागस्य पर्वतशृङ्खलासु बोमडिला-स्थलं विद्यमानम् अस्ति । प्राकृतिकसौन्दर्याय, बौद्धमठेभ्यः इदं स्थलं प्रसिद्धम् अस्ति । पुरा मध्यकालीनयुगे बोमडिला तिब्बत-देशस्य राज्यम् आसीत् । कथ्यते यत् – भूटान-देशस्य शासकाः अपि अस्मिन् राज्ये शासनं कृतवन्तः । इदं स्थलं महत्वपूर्णं वीक्षणीयस्थलं वर्तते । अस्य नगरस्य प्राकृतिकं सौन्दर्यम् आश्चर्यमयम् अस्ति । अस्मिन् नगरे केचन बौद्धमठाः अपि सन्ति । बहवः यात्रिणः दर्शनार्थं तत्र गच्छन्ति । बोमडिला-नगरे दर्शनार्थिनः तिब्बत-देशीयानि मोमोस, थूपा इत्यादीनि व्यञ्जनानि खादन्ति । इदं स्थलं पारम्परिकहस्तशिल्पकलायाः कृते प्रसिद्धम् अस्ति । अतः जनाः स्मृतिचिह्नानि अपि क्रीणन्ति । बोमडिला-नगरे “सेसा आर्किड् अभयारण्यम्”, “ईगलनेस्ट् वन्यजीवाभयारण्यं”, “कामेङ्ग् गजाभयारण्यं” च अस्ति । बोमडिला-नगरं तेजपुर-नगरात् ८० किलोमीटरपरिमिते, तवाङ्ग-नगरात् १६० किलोमीटरपरिमिते च दूरे स्थितम् अस्ति । अतः तेजपुर-नगरात्, तवाङ्ग-नगरात् च बस-यानेन बोमडिला-नगरं प्राप्तुं शक्यते ।

पेके टाईगर् रिजर्व्सम्पाद्यताम्

इदं स्थलम् अरुणाचलप्रदेश-राज्यस्य पूर्वीकामेङ्गमण्डले स्थितम् अस्ति । इदम् अभयारण्यं ८६२ चतुरस्रकिलोमीटर मितं विस्तृतम् अस्ति । पुरा इदं खेलाङ्गवनविभागस्य क्षेत्रम् आसीत् । ई. स. १९७७ तमे वर्षे खेल-अभयारण्यत्वेन उद्घोषितम् आसीत् । तदनन्तरम् ई. स. २००२ तमे वर्षे टाईगर् रिजर्व् इति नाम्ना उद्घोषितम् । अस्मिन् अभयारण्ये बहवः वन्यपशवः निवसन्ति । अस्य अभयारण्यस्य वायुः प्रदुषणमुक्तः अस्ति । तथापि अक्टूबर-मासतः मार्च-मासपर्यन्तं यात्रायै वातावरणम् अनुकूलं भवति ।

अलोङ्गसम्पाद्यताम्

अलोङ्ग इति एकः लघुग्रामः वर्तते । अयं ग्रामः अरुणाचलप्रदेशस्य पश्चिमसियाङ्ग-मण्डले स्थितः अस्ति । अयम् अतीव सुन्दरः ग्रामः विद्यते । योमगो, सीपू इत्यनयोः नद्योः तटे स्थितः अयं ग्रामः । समुद्रतलात् अयं ग्रामः ३०० मीटर मितम् औन्नत्ये वर्तते । तत्र पर्वतशृङ्खला विद्यते । अस्मिन् ग्रामे बह्व्यः जनजातयः सन्ति । तासां जनजातीनां जनाः विभिन्नान् उद्योगान् कुर्वन्ति । तत्र काफीपेयम् अत्यधिकं लोकप्रियं वर्तते । अलोङ्ग-ग्रामस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । यथा – पातुम ब्रिज्, हैङ्गिग् ब्रिज्, मेचुका की घाटी, आकाशीगङ्गा-मन्दिरं, डोनियो-मन्दिरं, मिथुन और जर्सी क्रॉस् ब्रीडिङ्ग् फर्म्, पुवकघाट, मालिनीथान, रामकृष्णाश्रमः, कमकी हाइड्रोपावर् डैम् चेत्यादयः । अलोङ्ग-ग्रामस्य जलवायुः उपोष्णकटिबन्धीयः अस्ति । शीतर्तौ अस्य ग्रामस्य वातावरणम् अपि आकर्षकं भवति । अतः जनाः शीतर्तौ भ्रमणार्थं तत्र गच्छन्ति ।

पासीघाटसम्पाद्यताम्

पासीघाट-नगरं पूर्वसियाङ्ग-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् अरुणाचलप्रदेशस्य प्राचीनतमं नगरं विद्यते । ई. स. १९११ तमे वर्षे इदं नगरम् आङ्ग्लैः स्थापितम् आसीत् । इदं नगरम् अरुणाचलप्रदेशस्य प्रवेशद्वारं विद्यते । नगरमिदं सियाङ्ग-नद्याः तटे स्थितम् अस्ति । समुद्रतलात् १५२ मी. उन्नतम् अस्ति इदं नगरम् । पासीघाट-नगरस्य जनानां मुख्यव्यवसायः कृषिः अस्ति । तत्र विशेषतः चायस्य कृषिः क्रियते । पासीघाट-नगरे डी एरिङ्ग् अभयारण्यं, केकर् मोइङ्ग्, कोंसिङ्ग्, पनगिन इत्यादीनि वीक्षणीयस्थलानि सन्ति । तत्रत्याः जनाः सोत्साहम् उत्सवम् आचरन्ति । मोपिन, सोलुङ्ग् इत्येतौ प्रमुखोत्सवौ स्तः । मोपिन्-उत्सवः दुष्टात्मानां निवारणार्थम् आचर्यते । सोलुङ्ग्-उत्सवः अगस्त-मासे पञ्चदिवसात्मकः आचर्यते । अस्य नगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । तत्र प्रत्येकमपि संवत्सरे सर्वाधिकी वृष्टिः भवति ।

जाइरोसम्पाद्यताम्

अयं ग्रामः अरुणाचलप्रदेशस्य प्राचीनतमेषु स्थलेषु अन्यतमः वर्तते । अयं ग्रामः पर्वतीयवीक्षणीयस्थलं वर्तते । तत्र व्रीहेः कृषिः क्रियते । जाइरो-ग्रामं परितः खलिद्रुमाः (Palm Tree) सन्ति । अयं ग्रामः समुदतलात् १५०० मीटरमितम् उन्नतः अस्ति । तत्र विविधप्रकारकाः पादपाः, जन्तवश्च सन्ति । अतः ये प्रकृतिप्रेमिणः सन्ति, ते तत्र उत्साहपूर्वकं भ्रमणं कुर्वन्ति । जाइरो-ग्रामे “अपा टनी”-इत्याख्याः आदिवासिनः सन्ति । ते प्रकृतिं देवं मत्वा पूजयन्ति । तत्र कृषिः अपि क्रियते । इतः परम् अपि हस्तकलाकृतीनाम् उद्योगः क्रियते । जाइरो-ग्रामस्य समीपे अपि बहूनि वीक्षणीयस्थलानि सन्ति । यथा – टैली घाटी, जाइरो पुटु, तरीन मछली केन्द्र, कर्दो का शिवलिङ्ग चेत्यादीनि आकर्षणस्य केन्द्राणि सन्ति । “अपा टनी”-आदिवासिभिः बहवः उत्सवाः आचर्यन्ते । तेषु उत्सवेषु म्योको, मुरुङ्ग, द्री च प्रमुखाः उत्सवाः सन्ति । म्योको-उत्सवः मार्च-मासे, मुरुङ्ग-उत्सवः जनवरी-मासे, द्री-उत्सवः जुलाई-मासे च आचर्यते । जाइरो-ग्रामे वातावरणानुसारं जलवायुपरिवर्तनं भवति ।

दिबाङ्ग घाटीसम्पाद्यताम्

“दिबाङ्ग घाटी” इत्येतत् स्थलम् अरुणाचलप्रदेश-राज्यस्य पर्वतीयक्षेत्रं विद्यते । इदं क्षेत्रं हिमालयपर्वतशृङ्खलायां स्थितम् अस्ति । अस्य क्षेत्रस्य उत्तरदिशः, पूर्वदिशः च क्षेत्रं तिब्बत-देशे अस्ति । अस्याः पर्वतशृङ्खलायाः औन्नत्यं ४,५०० मीटरमितम् अस्ति । अस्मिन् क्षेत्रे दिबाङ्ग-नदी प्रवहति । अतः अस्य क्षेत्रस्य नाम “दिबाङ्ग घाटी” इति अभवत् । दिबाङ्ग-नदी दक्षिणदिशि प्रवहति । अनन्तरं ब्रह्मपुत्रा-नद्यां मिलति । मिशमी, मिजू, इदू, खामती, सिङ्गफो इत्यादयः जनजातयः अस्मिन् क्षेत्रे निवसन्ति । अस्मिन् क्षेत्रे सोपानकृषिः क्रियते । यतः अस्मिन् राज्ये बहूनि पर्वतीयक्षेत्राणि सन्ति । तण्डुलाः, आलूकः, कार्पासः इत्यादयः अरुणाचलप्रदेश-राज्यस्य प्रमुखाणि सस्यानि सन्ति । अस्मिन् क्षेत्रे स्निग्धमृत्तिकायाः, चूर्णपाषाणस्य, ताम्रधातोः उत्खननं क्रियते । अनन्तरम् एतेषां वस्तूनां व्यापारः क्रियते । अस्मिन् क्षेत्रे जनाः भ्रमणार्थं गच्छन्ति । “दिबाङ्ग घाटी” इत्येतत् स्थलं स्वस्य सुन्दरायाः कारणेन जनान् आकर्षति । प्राकृतिकसौन्दयस्य परिपूर्णतायै इदं स्थलं अरुणाचलप्रदेशस्य वीक्षणीयस्थलेषु अन्यतमम् अस्ति ।

परिवहनम्सम्पाद्यताम्

भूमार्गःसम्पाद्यताम्

अरुणाचलप्रदेशराज्यं परिवहनदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये द्वौ राष्ट्रियराजमार्गौ स्तः । तयोः ५२ क्रमाङ्कस्य राष्ट्रियराजमार्गः अस्ति । अयं मार्गः ३३६ किलोमीटरमितः दीर्घः अस्ति । अस्य ई. स. १९९८ तमे वर्षे अस्य मार्गस्य निर्माणकार्यं सम्पन्नम् । अयं जोनाई-नगरं दिराक-नगरेण सह सञ्योजयति । अपरः राजमार्गः तेजपुर-नगरं तवाङ्ग-नगरेण सह सञ्योजयति । केन्द्रियसर्वकारस्य साहाय्येन ई. स. २००७ तमे वर्षे अरुणाचलप्रदेशस्य सर्वे ग्रामाः भूमार्गेण सह सम्बद्धाः जाताः । प्रत्येकस्मिन् नगरे बस-स्थानकम् अस्ति । ततः नियमितरूपेण बसयानानि प्रचलन्ति । अरुणाचलप्रदेशास्य प्रत्येकं स्थलम् असम-राज्येन सह सलंग्नम् अस्ति । अरुणाचलप्रदेशस्य प्रमुखनगराणि राष्ट्रियराजमार्गेण सह सम्बद्धानि सन्ति । अरुणाचलप्रदेश-राज्यं भारतस्य सर्वैः राज्यैः सह श्रेष्ठतया सम्बद्धम् अस्ति ।

धूमशकटमार्गःसम्पाद्यताम्

अरुणाचलप्रदेश-राज्यं धूमशकटमार्गेण अपि भारतस्य कैश्चित् नगरैः सह सम्बद्धम् अस्ति । यद्यपि अरुणाचलप्रदेश-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अतः रेलमार्गनिर्माणाय काठिन्यं भवति । तथापि ई. स. २०१५ तमे वर्षे भारतस्य प्रधानमन्त्रिणः नरेन्द्रमहोदयस्य आदेशानुसारं दीर्घमार्गाय धूमशकटयानं प्रचालितम् आसीत् । शनैः शनैः अस्मिन् राज्ये अपि धूमशकटमार्गाः समृद्धाः भविष्यन्ति ।

वायुमार्गःसम्पाद्यताम्

अरुणाचलप्रदेश-राज्ये षड्विमानस्थानकानि प्रमुखाणि सन्ति । डापोरिजो-नगरे, ईटानगरे, तेजू-नगरे, अलोङ्ग-नगरे, पासीघाट-नगरे, जाइरो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि देहली-महानगरेण, मुम्बई-महानगरेण, बेङ्गळूरु-महानगरे, चेन्नै-महानगरेण इत्यादिभिः भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अरुणाचलप्रदेशराज्यं वायुमार्गेण भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति ।


वीथिकासम्पाद्यताम्

बाह्यानुबन्धःसम्पाद्यताम्

सन्दर्भाःसम्पाद्यताम्