सदस्यः:Meghana N Reddy/प्रयोगपृष्ठम्
आन्ध्रप्रदेशस्य सागतरतीराणी | |
---|---|
विशाखपट्टणस्य सागतरतीराणी |
[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्ये]] विशाखपट्टणप्रदेशे सुन्दराणि सागरतीराणि सन्ति । एतेषु सागरतीरेषु रामकृष्णबीच्, लासन्सबे , ऋषिकोण्ड (८ कि.मी) अतिप्रसिद्धानि सन्ति । भीमुनिपट्टणम् बीच् (२५ कि.मी) विशाखापट्टणतः एतावत्पर्यन्तं विस्तृतम् अतीवदीर्घं तीरम् अस्ति । पार्श्वे एव २५ कि.मी.यावत् सागरतीरे वाहनमार्गोऽप्यस्ति । अत्र सागरस्य गभीरता अल्पास्ति । अतः जनानां अतीव आनन्दः भवति । शार्कमीनानां वासः अपि अत्र नास्ति । नगरवाहनस्य सम्पर्कः अस्ति । मछलीपट्टणसमीपे माङ्गिनपुडि बीच् (२३ कि.मी) वोडरेवु बीच नेल्लूरुसमीपे मैपाडबीच अतीवकर्षकाणि सागरतीराणि सन्ति । आन्ध्रप्रदेशे पूर्वभागे उत्तरतः दक्षिणं प्रति बहूनि सागरतीराणि सन्ति ।
आपत्कालः | |
---|---|
आपत्कालनिर्णयार्थं (Emergency Powers) राष्ट्रपतिः समर्थः । अस्योल्लेखः भारतीयसंविधानस्य ३५२ अनुच्छेदे प्राप्यते । भारतस्य मन्त्रिमण्डलं लिखितरूपेण आपत्कालस्य कारणं राष्ट्रपतये यच्छेत् । तत एव राष्ट्रपतिः आपत्कालस्य घोषणां कुर्यात् । मन्त्रिमण्डलद्वारा उक्तानि कारणानि यदि राष्ट्रपतिना अवगतानि, तर्हि तेन आपत्कालस्य घोषणा क्रीयते । आपत्कालस्य प्रकारत्रयम् अस्ति –१. राष्ट्रियापत्कालः, २. प्रादेशिकापत्कालः ३. आर्थिकापत्कालः राष्ट्रियापत्कालः
सम्पूर्णभारतस्योपरि युद्ध-सैन्यविद्रोह-सुरक्षासङ्कटाः आपतन्ति चेत्, राष्ट्रियापत्कालस्य घोषणां कर्तुं शक्नोति राष्ट्रपतिः । भारते वारत्रयं राष्ट्रियापत्कालस्य घोषणा कृता अस्ति । प्रप्रथमा आपत्कालघोषणा १९७२ तमे वर्षे प्रधानमन्त्रेः जवाहरलाल नेहरू इत्यस्य काले अभूत् । तस्मिन् वर्षे चीन-देशेन भारतस्योपरि आक्रमणं कृतमासीत् । अतः डा. सर्वपल्ली राधाकृष्णन् आपत्कालं अघोषयत् । द्वितीया आपत्कालघोषणा १९६५ तमे वर्षे भारत-पाकिस्थानयोः युद्धकाले अभूत् । तृतीयापत्कालघोषणायै १९७५ तमे वर्षे प्रधानमन्त्रिपदारूढा इन्दिरा गान्धि आन्तरिकसुरक्षायाः कारणं दत्त्वा आपत्कालस्य याचनाम् अकरोत् । फखरुद्दीन अली अहमद तदा राष्ट्रपतिः आसीत् । सः राष्ट्रियापत्कालस्य घोषणामकरोत् ।
आपत्काले व्यक्तेः स्वतन्त्रतायाः अधिकारस्तु समाप्तः न भवति । परन्तु भारतीयसंविधानस्य एकोनविंशततमे (१९) अनुच्छेदे लिखिताः नागरिकस्य षडाधिकाराः निलम्बिताः भवन्ति । ते षण्णियमाः यथा – • अभिव्यक्तेः स्वतन्त्रता • शान्तिपूर्वकं, निःशस्त्रं सम्मेलनम् • परिषदः, सङ्घस्य वा रचनायाः स्वतन्त्रता • भारते, भारतस्य राज्येषु च स्वातन्त्र्येण परिभ्रमणस्य स्वतन्त्रता • भारतस्य राज्येषु स्थानानतरं कृत्वा आवासस्य स्वतन्त्रता • वृति-उपजीविका-व्यापारादीनां स्वतन्त्रता राष्ट्रियापत्काले संसदः सत्रम् एकवर्षं यावत् स्थगयितुं शक्नुमः । परन्तु आपत्कालसमाप्त्यन्तरं संसदं षण्मासादधिकं स्थगयितुं न शक्यते । प्रादेशिकापत्कालः
संविधानविरोधीनि कार्याणि राज्ये चलन्ती सन्ति, शासकः संविधानानुसारं राज्ये शासनं कर्तुम् असमर्थः अस्ति वा । एतादृषं यदि राष्ट्रपतिः राज्यपालस्य सूचनेन, अन्यरीत्या वा जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां कर्तुं शक्नोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशतम् (३५६) अनुच्छेदानुसारं संसदः स्वीकृत्या सह षण्मासावधेः वर्षत्रयं यावत् राष्ट्रपतिशासनं भवितमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं शासनं करोति । भारते बहुषु राज्येषु प्रादेशिकापत्कास्य घोषणाः अभवन् । अस्य षड्पञ्चाशदधिकत्रिशतस्य (३५६) अनुच्छेदस्य बहुवारं दूरुपयोगः जातः अस्ति । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः विपक्षस्य यस्मिन् राज्ये शासनम् अस्ति , तस्मिन् राज्ये शासकात् सत्ताम् अपकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । आर्थिकाप्तकालः
भारते, भारतस्य राज्ये वा आर्थिकस्थायित्वस्य, आर्थिकप्रत्ययस्य (Financial Credit) च सङ्कटः प्रत्यक्षः भवेत् चेत्, राष्ट्रपतिः आर्थिकाप्तकालस्य घोषणां कर्तुं शक्नोति । भारतीयसंविधानस्य षष्ठ्यधिकत्रिशतम् (३६०) अनुच्छेदानुसारं आपत्कालघोषणायाः मासद्वये एव आपत्कालप्रस्तावाय संसदः समर्थनम् आवश्यकम् । एतस्मिन् आर्थिकाप्तकाले राष्ट्रपतिः सर्वोच्चन्यायालयस्य, उच्चन्यायलयस्य च न्यायाधीशानां वेतनं न्यूनं कर्तुं शक्नोति । सर्वकाराऽऽधीनानां कार्यकतॄणां वेतनमपि न्यूनं कर्तुं समर्थः राष्ट्रपतिः । निश्चितसिद्धान्तस्य अनुकरणार्थम् अपि राष्ट्रपतिः आदेशं दातुम् अर्हति ।
भारते एतादृशस्य आपत्कालस्य घोषणा नाभवत् । परन्तु एकवारम् आर्थिकसङ्कटस्य स्थितिः आपतिता । तदा भारतस्य सुवर्णं विक्रीय आपत्कालस्थितिः अपाकृता ।
विस्तीर्णम् | 3,02,21,532 किमी2 (1,16,68,599 वर्ग मील)2nd |
---|---|
जनसङ्ख्या | 1.1 billion(2013, 2nd) |
जनसङ्ख्यासान्द्रता | 30.51/km2 (about 80/sq mi) |
राष्ट्रीयता | African |
देशाः | 54 (and 2 disputed) (देशानाम् आवली) |
अवलम्बिताः |
External (3) Internal (4) |
भाषाः | List of languages |
समयवलयानि | UTC-1 to UTC+4 |
बृहत्तमनगराः |
List of metropolitan areas in Africa List of cities in Africa फलकम्:Country data Nigeria Lagos Cairo फलकम्:Country data Democratic Republic of the Congoफलकम्:Country data Republic of the Congo Kinshasa-Brazzaville Johannesburg फलकम्:Country data Somalia Mogadishu फलकम्:Country data Sudan Khartoum-Omdurman फलकम्:Country data Tanzania Dar es Salaam Alexandria फलकम्:Country data Ivory Coast Abidjan फलकम्:Country data Morocco Casablanca |
पृष्ठभूमिका
सम्पादयतुबहोः कालतः अन्धकारखण्डः इति प्रसिद्धः अयम् आफ्रिकाखण्डः अद्यत्वे अपि अन्ये खण्डाः इव आधुनिकप्रगतिं न प्राप्नोत् । बहु विशालतया व्याप्ता 'सहरामरुभूमिः', समुद्रतरङ्गैः निरन्तरं ताड्यमानं समुद्रतीरम् अनानुकूलाः नद्यः नौकाश्च अस्याः परिस्थितेः कारणीभूतानि स्युः । विशेषः नाम आस्ट्रालोपिथेकस्नामकस्य मनुष्यसदृशप्राणिनः अवशेषाः अस्य खण्डस्य छिद्रखातासु (इथियोपिया, कीन्या, ताञ्जानिया इत्यादिषु प्रदेशेषु) प्राप्ताः । अत्र मानवस्य समीपबन्धोः 'होमो एरेक्टस्' इत्येतस्य साक्ष्यं लभ्यते । अयमेव २५,००० वर्षाणाम् अनन्तरं होमो सेपियन् जातः । मध्यकालीने क्रैस्तधर्मयुद्धसमये अरबजनैः उत्तराफ्रिकाविषयः क्रमशः ज्ञातः । १५ शतमाने पोर्चुगल्-राजकुमारस्य प्रिन्स् हेन्रेः समुद्रयानप्रयत्नैः आफ्रिकाविषये अधिकं ज्ञानं प्राप्तम् । आफ्रिका विशेषप्राणिभिः पक्षिभिः खनिजैः युक्तः विपरीतवातावरणैः युक्तः वनवासिभिः युक्तः भूभागः विद्यते ।
परिसरः
सम्पादयतुनित्यहरिद्वर्णता, समशीतोष्णशाद्वलम्, मरुभूमेः वातावरणैश्च युक्तः खण्डः अस्ति अयम् । काभिश्चित् श्रेणिभिः युक्तः उत्तरभागः ४५० मीटर्मितम् उन्नतं वर्तते । पूर्वप्रदेशेषु अनेकाः पर्वतश्रेण्यः वर्तन्ते । दक्षिणभागः ९०० मीटर्मितस्य अपेक्षया उन्नतः अस्ति । मोरोक्को-अल्जीरियाप्रदेशेषु अट्लास्-श्रेण्यः विद्यन्ते (ट्यूबल्शिखरम् - ४०७० मी)। अल्जीरियायाम् अहग्गर् (तहत्-शिखरम् २८५० मी), सुदानौ जेब्-मर्राशैले च स्तः । इथियोपियाप्रदेशे १८०० मीटर्मितस्य अपेक्षया उन्नताः श्रेण्यः सन्ति (ट्यूब्कल्शिखरम् - ४०७० मी) । कीन्या-ताञ्जानियाप्रदेशयोः छिद्रखातपर्वतश्रेण्यः सन्ति (हिमाच्छादितः किलिमञ्जारोशिखरम् - ५८९५ मी, रुवेञ्झेरिशिखरम् - ५१२० मी, कीन्याशिखरं ५१०९ मी) । मध्यताङ्गानिकायाः उपत्यकायां ताञ्जानिया तिष्ठति । जाम्बियायां मुचिङ्गा-लुवाङ्ग्वा च विद्यते । जिम्बाब्वेप्रदेशे मोटोपोपर्वताः, दक्षिण-आफ्रिकायां ड्रेकन्स्बर्ग्-श्रेण्यः विद्यन्ते । मिटुम्बश्रेण्यः जैरेप्रदेशे विद्यत्ने । कर्कवृत्तस्य उत्तर-दक्षिणप्रदेशेषु २०,६५,००० च कि मी विस्तृता सहारामरुभूमिः, दक्षिणमकरवृत्तस्य परिसरे कलहारिमरुभूमिः विद्यते । नमीबियासमुद्रतीरे अपि मरुभूमिः विद्यते । सहरामरुभूमेः पार्श्वे लिबिया, पूर्वमरुभूमिश्च विद्यते । समभाजकवृत्ते स्थितेषु जैरे-लिबेरिया-गबान्-प्रदेशेषु सदा वृष्टिः, हरिद्वर्णसस्यानि भवन्ति । सहारा-कलहारि इत्यादिषु मरुभूमिषु शुष्कवातावरणस्य सस्यानि विद्यन्ते । दक्षिणाफ्रिका-मोरोक्कोप्रदेशेषु मेडिटरेनियन्-वातावरणस्य फलवृक्षाः सन्ति । अवशिष्टेषु भागेषु उष्णवलयस्य तृणशाद्वलानि सन्ति ।
वृष्टिः औष्ण्यञ्च
सम्पादयतु१५ अक्षांशतः (उत्तरगोलार्धे) उत्तरभागे वृष्टिः नास्ति । मोरोक्को, अल्जीरिया, ट्युनिसियप्रदेशमात्रे २५०-१००० मि मि परिमिता वृष्टिः भवति । १५ अक्षांशतः दक्षिणभागेषु सर्वत्र वृष्टिः भवति । किन्तु सोमालिया, नमीबिया, अङ्गोलाकरावलीप्रदेशेषु सम्पूर्णशुष्कता दृश्यते । बाञ्जुल्तः किंषासां यावत् १००० मि मी अपेक्षया अधिका वृष्टिः भवति । फ्रीटौन्, मून्रोविया, लिब्रेविलेप्रदेशेषु वृष्टिः ३००० मि मी अपेक्षया अधिका भवति । अस्मिन् भागे समभाजकवृत्तस्य नित्यहरिद्वर्णयुक्तारण्यानि विद्यन्ते । दक्षिणाफ्रिकायाः पश्चिमभागे वृष्टिः २५० मि मी अपेक्षया न्यूना । अस्मिन् खण्डे तद्विरिद्धऋतवः समानकाले भवन्ति । जनवरिमासे उत्तरभागे शैत्यकालः यदा स्यात् तदा दक्षिणभागे औष्ण्यं भवति २५० सेल्शियस्मितम् । जुलैमासे सहाराप्रदेशे औष्ण्यं भवति ३५० सेल्शियस् अपेक्षया अधिकम् । सस्यानि न विद्यन्ते इत्यतः इदं वातावरणम् असहनीयं वर्तते । अस्मिन् काले दक्षिणाफ्रिकायाम् औष्ण्यं १०० अपेक्षया न्यूनं भवति । जनवरिमासे मोरोक्कोप्रदेशः नितरां शीतलतायुक्तः भवति -५० सेल्शियस्मितमं भवति ।
सागरप्रवाहः
सम्पादयतुपश्चिमे सहारासमुद्रतीरे केनरिशीतप्रवाहः, घाना, कमेरून्, गिनिसमुद्रे गिनि-उष्णप्रवाःअः, सोमालियायाः दक्षिणे पूर्वे च नैऋत्य-मास्नून्-ड्रिफ्ट्-उष्णप्रवाहाः च विद्यन्ते । समभाजकवृत्तप्रदेशेषु तन्नाम नैजीरिया, मालि, छाड, नमीबिया, दक्षिणाफ्रिकायाः पश्चिमभागेषु अरण्यनाशः दुर्भिक्षा च अधिकप्रमाणेन दृश्यते । अस्य परिहारः प्राप्तव्यः अस्ति ।
जलसम्पत्तिः
सम्पादयतुनैल्नदी जगति विद्यमानासु नदीषु अति दीर्घा ६६९५ कि मी मितयुता च वर्तते । अस्याः उपनद्यः स्६०३ कि मी दूरे सुदानिप्रदेशे विद्यन्ते । जैरेप्रदेशे प्रवहन्त्याः दीर्घायाः जैरेनद्याः अपि अनेकाः उपनद्यः सन्ति । ४१०० कि मी मितदीर्घयुक्ता नैजर्-नदी नैजीरिया, नैजर्, मालि इत्यादिषु देशेषु प्रवहति । अस्मिन् खण्डे विद्यमानाः अन्याः नद्यः सन्ति - जाम्बेजि, आरेञ्ज्, लिम्पूपो, जुब, शिबेलि च ।
अत्र विद्यमानेषु सरोवरेषु विक्टोरिया-ताङ्गानिका च मुख्ये स्तः । मलावि, अल्पर्ट्, बङ्ग्वेल, रुडाल्फ्, करिबा, छाड्, टना, नासेर् इत्यादयः साधारणप्रमाणयुक्ताः सरोवराः सन्ति । जाम्बेजिनद्याः १०० मी औन्नत्ययुतः विक्टोरियानामकः जलपाताः विद्यते । अयं खण्डः जलविद्युच्छक्तेः उत्पादने अग्रेसरः अस्ति । आस्वान् (नैल्), जवेन् (नैल्), वोल्टा, करिबा (जाम्बेजि) कोहोरा (जाम्बेजि) इत्यादीनि विद्युच्छक्त्युत्पादनकेन्द्राणि उद्यमानुकूलाः सन्ति । ताञ्जानिया इथियोपियाप्रदेशेषु जलप्रवाहसमस्या अधिका वर्तते । दक्षिणाफ्रिकाप्रदेशे झाञ्झावातः, मोजाम्बिक्समुद्रप्रदेशेषु उष्णवलयस्य झञ्झावातस्य भयं विद्यते ।
सस्यानि फलोदयश्च
सम्पादयतुइथियोपिया, दक्षिणाफ्रिका, सोमालिया, मोजाम्बिक्, जिम्बाब्वे प्रदेशेषु यावानलः उत्पाद्यते । ऐवरिकोस्ट्, घाना, नैजीरिया, कमेरून् प्रदेशेषु कोको वर्धन्ते । लिबेरिया, सियेरा लियोन्, नमीबिया, मध्याफ्रिका, काङ्गो, अङ्गोल, ताञ्जानियादिषु काफी उत्पद्यते । बिसावो, ताञ्जानिया, जिम्बाब्वे, नैजीरिया, गिनि, मोरोक्कोप्रदेशेषु फलानि वर्धन्ते । सुदानिप्रदेशे कलायः वर्धते । ईजिप्ट्, छाड, नैजर्, मारिटेनिया, कीन्यादिषु ओट्स् वर्धते । दक्षिणाफ्रिका मोरोक्कोप्रदेशे लिम्बूकसदृशफलानि, ताञ्जानियायां कदली, दक्षिणाअफ्रिका, मोरोक्कोप्रदेशे द्राक्षा, अङ्गोल, गबान्, कमेरून्, काङ्गो, लिबिया, नैजीरिया, बेनिन्भागेषु खर्जूरं, कीन्या, ताञ्जानियादिषु चायं, कमेरून्, ऐवरिकोस्ट्, लिबेरिया, नैजीरियादिषु रब्बर्-वृक्षः, ताञ्जानियायां सीसल्वृक्षः, दक्षिणाफ्रिका, मोजाम्बिक्, जिम्बाब्वे, ताञ्जानियादिषु तमाखुः च वर्धते ।
प्राणिपक्षिणः
सम्पादयतुओष्ट्रः, विशिष्टजातेः गजाः, खड्गमृगः, झीब्रा, चिम्पाञ्जि, सर्पाः, गोरिल्ला, उष्ट्रपक्षी, ओरिङ्क्स्, सिंहश्च अत्रत्याः प्रमुखाः वन्यप्राणिनः ।
खनिजाः
सम्पादयतुखनिजाः | देशाः |
---|---|
अयः | लिबिया, मारिटानिया, अल्जीरिया, दक्षिणाफ्रिका |
अस्बेस्टास् | स्वाजिलेण्ड् |
क्रोम | दक्षिणाफ्रिका, जिम्बाब्वे |
वेनेडियम् | दक्षिणाफ्रिका |
मेङ्गनीस् | गबान्, मोरोक्को, घाना, दक्षिणाफ्रिका |
निक्केल् | जिम्बाब्वे |
फास्फेट् | टोगो, सेनेगल्, सहारायाः अरब् प्र ग राज्यम्, मोरोक्को, ट्युनिसिया, ईजिप्ट् |
वज्रम् | दक्षिणाफ्रिका, नमीबिया, काङ्गो, बोट्स्वाना, अङ्गोल, मध्याफ्रिकागणराज्यम्, घाना, सियेरा लियोन्, लिबेरिया, गिनि |
बाक्सैट् | गिनि |
रजतम् | जिम्बाब्वे, अल्जेरिया, काङ्गो |
सुवर्णम् | दक्षिणाफ्रिका, घाना, जाम्बिया |
ताम्रम् | काङ्गो, दक्षिणाफ्रिका |
पारदः | अल्जीरिया |
आण्टिमनि | दक्षिणाफ्रिका |
प्लाटिनम् | दक्षिणाफ्रिका |
लेड् | मोरोक्को, नमीबिया, काङ्गो |
टिन् | दक्षिणाफ्रिका, नैजीरिया, काङ्गो |
युरेनियम् | गबान्, नमीबिया, नैजर् |
खनिजाङ्गारम् | ईजिप्ट्, दक्षिणाफ्रिका |
अनिलः | अल्जीरिया |
इन्धनतैलम् | नैजीरिया, अल्जीरिया, अङ्गोल, गबान्, लिबिया, ईजिप्ट् |
उद्यमाः
सम्पादयतुउद्यमक्षेत्रे दक्षिणाफ्रिका, नैजीरिया, मोरोक्को प्रदेशाः अधिकां प्रगतिं साधितवन्तः । तृणचारणं, पशुपालनं, कृषिः, उद्यानाभिवृद्धिः इत्यादयः अत्र अधिकप्रमाणकाः उद्योगाः । खनिकर्म, इन्धनतैलोत्पादनम् अस्य खण्डस्य प्रमुखोद्यमाः ।
वैशिष्ट्यानि
सम्पादयतुसहारामरुभूमिः, नैल्-नदी, सरोवराः, विक्टोरियाजलपातः, पिरमिड्भवनानि, जलबन्धाः, जलविद्युच्छक्तिः, उष्ट्रः, खर्जूरवृक्षाः, अबुसिम्बेल्देवालयः, आफ्रिकानाभाषा, नैल्नद्याः संस्कृतिः, त्सेत्से नामकः महामक्षिका, उष्ट्रपक्षी, मेडीटरेनियन्-वातावरणयुक्ताः उत्तरकरावलीप्रदेशाः च अस्य खण्डस्य विशेषाः । अल्पजनसम्मर्दयुक्तेषु उत्तरभागेषु यवनाः, दक्षिणभागेषु नेग्रायिड्कुलीयाश्च वसन्ति । दक्षिणाफ्रिका जिम्बाब्वेप्रदेशेषु श्वेताः दृश्यन्ते ।
बाह्यानुबन्धः
सम्पादयतु- General information
- Meghana N Reddy/प्रयोगपृष्ठम्
- African & Middle Eastern Reading Room from the United States Library of Congress
- Africa South of the Sahara from Stanford University
- The Index on Africa from The Norwegian Council for Africa
- Aluka Digital library of scholarly resources from and about Africa
- Africa Interactive Map from the United States Army Africa
- History
- News media
- allAfrica.com current news, events and statistics
- Focus on Africa magazine from BBC World Service
can't use in sandboxभूखण्डाः]]
आमलकम् | |
---|---|
आमलकि |
आमलकम् | |
---|---|
आमलकि |
can't use in sandboxस्पष्टीकरणपृष्ठानि]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
एतत् आमलकम् अपि भारते वर्धमानः कश्चन वृक्षविशेषः । इदम् आमलकम् अपि सस्यजन्यः आहारपदार्थः । एतत् आमलकम् आङ्ग्लभाषायां Gooseberry इति उच्यते । एतत् आमलकं भारते सर्वत्र उपयुज्यते । आमलकं यथा आहारत्वेन उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अनेन आमलकेन निर्मितः अवलेहः सुप्रसिद्धः एव । अनेन आमलकेन लेह्यम्, उपसेचनं चापि निर्मीयते । तथैव अपि आमलकस्य खादनं शक्यते ।
आयुर्वेदस्य अनुसारम् अस्य आमलकस्य स्वभावः
सम्पादयतुएतत् आमलकम् आम्ल – मधुर – मिश्रित - रसयुक्तम् । एतत् शीतवीर्ययुक्तं, रुचिकरं च ।
- “कषायं कटुतिक्ताम्लं स्वादु चामलकं हिमम् ।
- रसं त्रिदोषहृद् वृष्यं ज्वरघ्निं च रसायनम् ॥
- हन्ति वातं तदाम्लत्वात् पित्तं माधुर्यशैत्यकः ।
- कफं रूक्षकषायत्वात् फलं धात्र्यास्त्रिदोषजित् ॥“
- १. एतत् आमलकं त्रिदोषान् परिहरति ।
- २. आमलकं वीर्यवर्धकं, मलप्रवृत्तिकारकं च ।
- ३. आमलके पञ्चरसाः सन्ति । कषायः, कटुः, तिक्तः, आम्लः, मधुरः च । अस्मिन् आमलके षड्रसेषु लवणरसः केवलं नास्ति ।
- ४. आमलकं ज्वरहरं, शरीरस्य सप्तानाम् अपि धातूनां पोषकं च ।
- ५. आमलकम् ओजसः वर्धनं करोति ।
- ६. आलमकम् आम्लरसयुक्तम् इत्यस्मात् तेन रसेन वातं हरति ।
- ७. आमलकं मधुररसयुक्तं, शीतगुणयुक्तम् इत्यस्मात् पित्तं हरति ।
- ८. आमलकं कषायरसयुक्तं, रूक्षगुणयुक्तम् इत्यस्मात् कफः|कफं]] हरति ।
- ९. स्त्रीषु रजस्रावः वेदनायुक्तः चेत् आमलकस्य बीजं चूर्णीकृत्य मधुना सह सेवनीयम् । अथवा आमलकस्य चूर्णं वा आमलकस्य रसं वा मधुना सह सेवनीयम् ।
- १०. शिशवः दन्तानाम् आगमनसमये काञ्चित् हिंसाम् अनुभवन्ति । तस्याः निवारणार्थम् आमलकं, धातकीपुष्पस्य चूर्णं, मधु च योजयित्वा शिशूनां दन्तपाल्यां लेपनीयम् । एवं करणेन दन्ताः अपि सुन्दराः भविष्यन्ति ।
- ११. बालाः दिने दिने कृशाः, दुर्बलाः च जायमानाः सन्ति चेत् आमलाकं, कचोरं, यष्टीं, तिलतैलं च योजयित्वा तैलपाकं कृत्वा तेन अभ्यञ्जनं कारणीयम् ।
- १२. आमलकं, पिप्पल्याः चूर्णं च संस्थाप्य यवागूं निर्माय घृतेन सह सेवन्ते चेत् मलावरोधः निवारितः भवति ।
- १३. आमलकं दोषान् तेषां मार्गे एव अनुलोमनं कारयति ।
- १४. केशानां विगलने, केशाः श्वेतवर्णीयाः जायन्ते चेत्, शिरसि तुषाराणां निवारणार्थं च आमलकस्य चूर्णं जले योजयित्वा स्नानात् पूर्वं शिरसि लेपनीयम् ।
- १५. आमलकस्य रसेन आमलकरसायनं, च्यवनप्राशादीनि लेह्यानि सज्जीक्रियन्ते । तेषां लेह्यानां विधिपूर्वकम् उपयोगेन शरीरस्य रसादयः धातवः वर्धन्ते । आरोग्यम् अपि वर्धते । वृद्धाप्यस्य बाधाः निवार्यन्ते । इन्द्रियाणां दौर्बल्यम् अपि न जायते ।
- “न केवलं दीर्घमिहायुरश्नते रसायनं यो विधिवत् निषेवते ।
- गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथेति चाक्षयम् ॥“
इति चरकेन उल्लिखितम् अस्ति । तन्नाम आमलकस्य रसायनस्य विधिवत् सेवनेन न केवलं दीर्घायुः प्राप्यते अपि तु देवर्षिसमाना पदवी, क्षयरहितं ब्रह्मज्ञानं चापि प्राप्यते ।
can't use in sandboxफलानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxविषयः वर्धनीयः]]
अयम् आमेतसवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं समान्यगात्रकः वृक्षः । अस्य वृक्षस्य त्वक् अत्यन्तं कृशं तथा कृष्णवर्णीयं च । अस्य फलम् आहारत्वेन अपि उपयुज्यते । अस्य बीजात् तैलम् अपि सज्जीक्रियते । अयम् आमेतसवृक्षः सामान्यभूमौ सर्वत्र वर्धते एव । तत्रापि दक्षिणभारते अधिकतया दृश्यते । अस्य आमेतसफलस्य (वृक्षामलफलम्) रसे शर्करां योजयित्वा आतपे संस्थाप्य बहु दिनानि यावत् रक्षन्ति । तत् लेह्यसदृशम् अत्यन्तं रुचिकरं भवति । तत्र जलं न योजनीयम् । जलं योजितं चेत् बहूनि दिनानि यावत् रक्षणं न शक्यते ।
इतरभाषासु अस्य आमेतसस्य नामानि
सम्पादयतुअयम् आमेतसवृक्षः आङ्ग्लभाषया "Garcinia Indica" इति उच्यते । सस्यकुले अयं Clusiaceae इति कुले अन्तर्भवति । हिन्दीभाषया अयम् आमेतसवृक्षः “कोकम्” इति, तमिळ्भाषायां “मुरुगल्” इति, मलयाळभाषया “पुनंपुलि” इति, तुळुभाषया“पुर्पुळि” इति, कन्नडभाषया “मुरुगलु मर” इति च उच्यते ।
आयुर्वेदस्य अनुसारम् अस्य आमेतसस्य प्रयोजनानि
सम्पादयतुअस्य आमेतसस्य फलं पत्रं चापि आम्लं भवतः । यद्यपि आम्लं तथापि अस्य फलं पित्तनिवारकत्वेन कार्यं करोति ।
- अस्य आमेतसस्य फलरसस्य (वृक्षाम्ल - फलरसः) पानेन दाहः निवारितः भवति । शिरोभ्रमणम् अपि अपगच्छति ।
- अस्य फलस्य त्वक् शुष्कीकृत्य रक्षन्ति । तया त्वचा सारं निर्मान्ति ।
- अस्य कन्दः कण्डूतिं निवारयति ।
- आमशङ्कायां यवागुना सह अस्य आमेतसस्य तैलं सेवनीयम् ।
- पित्तविकारेण, पित्तजन्यैः रोगैः वा पीड्यमानाः अस्य पर्णं चर्वित्वा रसं गिलन्ति चेत् वरम् ।
- दग्धव्रणानाम् उपरि अस्य आमेतसस्य तैलस्य लेपनेन वेदना ज्वलनं च न्यूनं भवतः ।
- शरीरे कुत्रापि रक्तं दृढं जातं चेत् अस्य आमेतसफलस्य रसस्य सेवनं हितकरम् ।
- अयं मलभेदकः , जिर्णकारी, अग्निवर्धकः च ।
- हृद्रोगे, उदावर्ते, कासे, श्वासावरोधे, अजीर्णे च अस्य आमेतसस्य उपयोगः क्रियते ।
can't use in sandboxऔषधीयसस्यानि]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]
can't use in sandboxसारमञ्जूषा योजनीया]]
आमेर | |
---|---|
आमेर |
आमेर | |
---|---|
आमेर |
आम्बेर राजस्थानप्रदेशस्य किञ्चन प्राचीनं नगरम् अस्ति। अस्मिन् नगरे एकं दुर्गम् अपि अस्ति। अत्र कछवाहाराजपूताः शासनम् अकुर्वन्। जयपुरनगरस्य स्थापनानन्तरं जनाः गतवन्तः।
अत्र शिलादेवीमन्दिरं, शीशमहल्, सागर(ताल्) मुख्यदर्शनीयस्थलानि सन्ति।
can't use in sandboxराजस्थानराज्यम्]] can't use in sandboxस्टब्स् भारतसम्बद्धाः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]
आम्रफलस्य रसः एव आम्रफलरसः । एतत् आम्रफलम् आङ्ग्लभाषायां Mango इति उच्यते । अस्य रसः Mango Juice इति उच्यते । आम्रफलरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य फलरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः फलरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य आम्रफलरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि आम्रफलरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं आम्रफलरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । आम्रफलानि बहुविधानि सन्ति । तदनुगुणं फलरसस्य अपि वर्णः रुचिः च परिवर्तते ।
फलरसस्य निर्माणम्
सम्पादयतुअस्य आम्रफलरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् आम्रफलं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । अनन्तरं बीजं पृथक् करणीयम् । तदनन्तरं फलखण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं वा दुग्धं वा योजनीयम् । अपेक्षितं चेत् तत्र एलायाः चूर्णम् अपि योजयितुं शक्यते । आम्रफलम् आम्लरुचियुक्तं चेत् शर्करा अधिकप्रमाणेन योजनीया भवति ।
can't use in sandboxपेयानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxविषयः वर्धनीयः]] can't use in sandboxसारमञ्जूषा योजनीया]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]
परिचयः
सम्पादयतुआम्रः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । आम्रस्य आङ्ग्लभाषया Mango इति पदेन व्यवहारः। आम्रजातिषु नैके विधाः सन्ति । च्यूतम् इत्यपि अस्य अपरं नाम । सर्वभाषानां काव्येषु आम्रवृक्षस्य उल्लेखः कृतः । माम्रवृक्षेण सह कोकिलस्य सम्बन्धः बहुत्र काव्येषु उल्लिखितः ।
आम्रवैविध्यम्
सम्पादयतुcan't use in sandboxवृक्षाः]] can't use in sandboxसस्यानि]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसस्यविज्ञानसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]
- भवन्ताः जानन्ति एव यत् अस्माकम् देश् व्यक्ति जाते धर्मस्य च उच्चपदोपरि विराजमानःअस्ति।
- व्यक्तिगतरूपेन सर्वाः सामजिकसम्स्थाः अस्मभ्यम् एक्ताप्रदानम् कुर्बन्ति।
- भारतदेशे छत्रेषु बालकाः, बालिकाः, जातयः, धर्माः, भाषाः वार्तादुष्ट्या च बहुभिन्नताः सन्ति।
- इस्लामीछात्राः भवेत् तर्हि तयोः शिया-सुन्नि इति भेदोपि भवितुमर्हति।
- इसाई भवेत् तर्हि तयोः केथेलिक, प्रोतेस्टेन्ट् इत्यस्य भेदोपि भवितुमर्हति।
- अनेकता कक्षासु , प्रतिवेशेशु, ग्रामेषु , नगरेषु , राज्येषु , देशेषु च भवन्तः द्रक्ष्यन्ति।
- भारतदेशे गतसहस्त्रद्वये खिष्टाब्दे अनेके जानाःभिन्न् भिन्न् धर्मिकव्यवहारेन सह भरतदेशे स्थथिन अभवन्।
- आर्थेभ्यः नीत्वा हूणाः, तुर्क, यवन , पारसी, डच, फ़्रेन्च एवम् आङ्लसदुशाः विविधाः प्रजातयः भरतदेशम् आगतः।
- जानाः स्वकीयेन सह स्वस्वधर्मम् एवम्विशिष्टाम् सम्स्क्रुथिमपि आनीतवनन्तः।
- राजकीयाधिपत्या सह साम्स्क्रुतिकदायभागमपि स्तापितवन्तः।