गीतोपदेशः
इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवदशः (१९) श्लोकः ।

पदच्छेदः

सम्पादयतु

इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ १९ ॥

येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः ।

शब्दार्थः

सम्पादयतु
येषाम् = ज्ञानिनाम्
साम्ये = गोब्राह्मणशुनकादौ समानतायाम्
मनः = चित्तम्
स्थितम् = स्थितम्
तैः = समदर्शिभिः
सर्गः = संसारः
इह एव = अस्मिन् भूलोके एव
जितः = विजितः
हि = यस्मात्
समम् = सर्वेषु अपि प्राणिषु समत्वेन स्थितम्
ब्रह्म = परवस्तु
निर्दोषम् = दोषरहितम्
तस्मात् = अतः
ते = ज्ञानिनः
ब्रह्मणि = परमात्मनि
स्थिताः = अवस्थिताः ।

अयम् उच्चः अयं नीचः इति बुद्ध्यभावात् ये सर्वेषु अपि प्राणिषु समानाः भवन्ति ते जीवन्तः एव अस्मिन् लोके सर्वथा विनष्टसंसारबन्धाः सन्ति । इदं ब्रह्म निर्विकारं सर्वेषु प्राणिषु समानं च । तस्मात् ते तत्रैव सर्वदा भवितुम् इच्छन्ति ।

शाङ्करदर्शनम्

सम्पादयतु

नन्वभोज्यान्नास्ते दोषवन्तः 'समासमाभ्यां विषमसमे पूजातः' इति स्मृतेर्न ते दोषवन्तः। कथम्-इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर्जितो वशीकृतः सर्गो जन्मयेषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं स्थितं निश्चलीभूतं मनोऽन्तःकरणं निर्देषम। यद्यपि दोषवत्सु श्वपाकादिषु मूढैस्तद्दोषैर्दोषवदिवविभाव्यते तथापि तद्दोषैरसंस्पृष्टमिति निर्दोषं दोषवर्जितं, हि यस्मान्नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य। वक्ष्यतिच भगवानिच्छादीनां क्षेत्रधर्मत्वमनादित्वान्निर्गुणत्वादितिच। नाप्यन्त्या विशेषा आत्मनो भेदकाः सन्ति प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेरतः समं ब्रह्मैकं च। यस्माद्ब्रह्मण्येव ते स्थितास्तस्मान्न दोषगन्धमात्रमपितान्स्पृशति देहादिसंघातात्मदर्शनाभिमानाभावात्।देहादिसेघातात्मदर्शनाभिमानवद्विषयं तु तत्सुत्रं 'समासमाम्यां विषमसमे पूजातः' इति पूजाविषयत्वविशेषणात्। दृश्यते हि ब्रह्मवित्षडङ्गविच्चतुर्वेदविदिति पूजादानादौगुणविशेषसंबन्धः कारणं ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तम्। कर्मिविषयं च समासमाभ्यामित्यादीदं तु सर्वकर्मसंन्यासिविषयंदप्रस्तितं सर्वकर्माणि मनसेत्यारभ्याद्यायपरिसमाप्तेः ।।19।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
विद्याविनयसम्पन्ने...
इहैव तैर्जितः सर्गो... अग्रिमः
न प्रहृष्येत्प्रियं प्राप्य...
 
इहैव तैर्जितः सर्गो...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु

उद्धरणम्

सम्पादयतु

अधिकवाचनाय

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=इहैव_तैर्जितः_सर्गो...&oldid=408237" इत्यस्माद् प्रतिप्राप्तम्