कायेन मनसा बुद्ध्या...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
- योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वात्मशुद्धये ॥ ११ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य एकादशः (११) श्लोकः ।
पदच्छेदः
सम्पादयतुकायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि योगिनः कर्म कुर्वन्ति सङ्गं त्यक्वा आत्मशुद्धये ॥ ११ ॥
अन्वयः
सम्पादयतुयोगिनः कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि सङ्गं त्यक्वा आत्मशुद्धये कर्म कुर्वन्ति ।
शब्दार्थः
सम्पादयतु- योगिनः = कर्मयोगिनः
- कायेन = शरीरेण
- मनसा = चित्तेन
- बुद्ध्या = मत्या
- केवलैः = ईश्वरार्पणबुद्ध्या विधानेन ममताशून्यैः
- इन्द्रियैः अपि = नेत्रादिभिः अपि
- सङ्गम् = आसक्तिम्
- त्यक्त्वा = विहाय
- आत्मशुद्धये = चित्तशुद्धये
- कर्म = कर्तव्यम्
- कुर्वन्ति = आचरन्ति ।
अर्थः
सम्पादयतुयोगिनः शरीरेण मनसा बुद्ध्या ईश्वराय एव कर्म करोमि, न मम फलाय' इति ममतां विना इन्द्रियैश्च कर्म आचरन्ति तेन तेषां चित्तं शुद्धं भवति ।
शाङ्करभाष्यम्
सम्पादयतुकेवलं सत्त्वशुद्धिमात्रफलमेव तस्य कर्मणः स्यात्, यस्मात्-कायेन देहेन मनसा बुद्धया च केवलैर्ममत्ववर्दितैरपीश्वरायैव कर्म करोमि न मम फलायेति ममत्वबुद्धिशून्यैरीन्द्रियैरपि।केवलशब्दः कायादिभिरपि प्रत्येकं संबध्यते सर्वव्यापारेषु ममतावर्जनाय, योगिनः कर्मिणः कर्म कुर्वन्ति संङ्ग त्यक्त्वा फलविषयमात्मशुद्धये। सत्त्वशुद्धय इत्यर्थः।तस्मात्तत्रैव तवाधिकार इति कुरु कर्मैव ।।11।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये कायेन मनसा बुद्ध्या... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च