युक्तः कर्मफलं त्यक्त्वा...
श्लोकः
सम्पादयतु- युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
- अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ १२ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वादशः (१२) श्लोकः ।
पदच्छेदः
सम्पादयतुयुक्तः कर्मफलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् अयुक्तः कामकारेण फले सक्तः निबध्यते ॥ १२ ॥
अन्वयः
सम्पादयतुयुक्तः कर्मफलं त्यक्वा नैष्ठिकीं शान्तिम् आप्नोति । अयुक्तः कामकारेण फले सक्तः निबध्यते ।
शब्दार्थः
सम्पादयतु- युक्तः = समाहितः
- कर्मफलम् = कर्मणां प्रयोजनम्
- त्यक्त्वा = परित्यज्य
- नैष्ठिकीं शान्तिम् = मोक्षम्, (निष्ठा = स्वाभाविकी स्थितिः, तत्सम्बन्धिनीं शान्तिम्)
- आप्नोति = विन्दते
- अयुक्तः = असमाहितः
- कामकारेण = इच्छावशात् प्रवृत्त्या
- फले = प्रयोजने
- सक्तः = सम्बद्धः
- निबध्यते = बन्धं प्राप्नोति ।
अर्थः
सम्पादयतुईश्वराय कर्माणि करोमि, न फलाय' इति भावयन् समाहितः कर्मफलानि त्यक्त्वा मोक्षं प्राप्नोति । यस्तु फलाकाङ्क्षी कर्मसु प्रवर्तते सः बद्धो भवति ।
शाङ्करभाष्यम्
सम्पादयतुयस्माच्च-युक्त ईश्वराय कर्माणि करोमि न मम फलायेत्येवं समाहितः सन्कर्मफलं त्यक्त्वा परित्यज्य शान्तिं मोक्षाख्यामाप्नोति नैष्ठिकिं निष्ठायां भवा सत्त्वशुद्धुज्ञानप्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेतिवाक्यशेषः। यस्तु पुनरयुक्तेऽसमाहितः कामकारेण करणं कारः कामस्य कारः कामकारस्तेन कामकारेण। कामप्रेरिततयेत्यर्थः। मम फलायेदं करोमि कर्मेत्येवं फले सक्तोनिबध्यतेऽतस्त्वं युक्तो भवेत्यर्थः ।।12।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये युक्तः कर्मफलं त्यक्त्वा... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च