प्रलपन्विसृजन्गृह्णन्...

श्लोकः संपादित करें

 
गीतोपदेशः
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवमः (९) श्लोकः ।

पदच्छेदः संपादित करें

प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् ॥ ९ ॥

अन्वयः संपादित करें

युक्तः तत्त्ववित् पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियार्थेषु वर्तन्ते इति धारयन् न एव किञ्चित् करोमि’ इति मन्येत ।

शब्दार्थः संपादित करें

युक्तः = योगी
तत्त्ववित् = सम्यग्दर्शी
पश्यन् = अवलोकयन्
शृण्वन् = आकर्णयन्
स्पृशन् = स्पर्शं कुर्वन्
जिघ्रन् = गन्धं जानन्
अश्नन् = खादन्
गच्छन् = चरन्
स्वपन् = शयानः
श्वसन् = प्राणन्
प्रलपन् = वदन्
विसृजन् = मुञ्चन्
गृह्णन् = स्वीकुर्वन्
उन्मिषन् = उन्मीलन्
निमिषन् अपि = निमीलन् अपि
इन्द्रियाणि = नेत्रादीनि
इन्द्रियार्थेषु = विषयेषु
वर्तन्ते इति = प्रसरन्ति इति
धारयन् = निश्चयं कुर्वन्
न एव किञ्चित् = न ईषत् अपि
करोमि इति = आचरामि इति
मन्येत = चिन्तयेत् ।

अर्थः संपादित करें

तत्त्ववित् ज्ञानी यः अस्ति सः पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् प्रलपन् विसृजन् गृन् उन्मिषन् निमिषन् अपि इन्द्रियाणि इन्द्रियविषयेषु वर्तन्ते इति मनसि भावनां धारयन् अहं न किञ्चित् करोमि’ इति मन्यते ।

शाङ्करभाष्यम् संपादित करें

कदा कथं वा तत्त्वमवधारयन्मन्येतेत्युच्यते-पश्यन्निति। मन्येतेति पूर्वेण संबन्धः। यस्यैवं तत्त्वविदः सर्वकार्यकरणचेष्टासु कर्मस्वकर्मैव पश्यतः सम्यग्दर्शिनसितस्यसर्वकर्मसंन्यास एवाधिकारः कर्मणोऽभावदर्शनात्। नहि मृगतृष्णिकायामुदकबुद्धया पानाय प्रवृत्त उदकाभावज्ञानेऽपि तत्रैव पानप्रयोजनाय प्रवर्तते ।।9।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
नैव किञ्चित्करोमीति...
प्रलपन्विसृजन्गृह्णन्... अग्रिमः
ब्रह्मण्याधाय कर्माणि...
 
प्रलपन्विसृजन्गृह्णन्...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

अधिकवाचनाय संपादित करें