योगयुक्तो विशुद्धात्मा...
श्लोकः
सम्पादयतु- योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
- सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥ ७ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य सप्तमः(७) श्लोकः ।
पदच्छेदः
सम्पादयतुयोगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन् अपि न लिप्यते ॥ ६ ॥
अन्वयः
सम्पादयतुयोगयुक्तः विशुद्धात्मा विजितात्मा जितेन्द्रियः सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ।
शब्दार्थः
सम्पादयतु- योगयुक्तः = कर्माचरणयुक्तः,
- विशुद्धात्मा = विशुद्धचित्तः
- विजितात्मा = स्वच्छशरीरः
- जितेन्द्रियः = इन्द्रियनिग्रहवान्
- सर्वभूतात्मभूतात्मा = सम्यग्दर्शी
- कुर्वन्नपि = आचरन् अपि
- न लिप्यते = न बध्यते ।
अर्थः
सम्पादयतुयोगयुक्तः, विशुद्धचित्तः, स्वच्छशरीरः, जितेन्द्रियः, यथार्थदर्शी च पुरुषः कर्म कुर्वन्नपि तेन लिप्तः न भवति ।
शाङ्करभाष्यम्
सम्पादयतुयोगेति। यदा पुनरयं सम्यग्दर्शनप्राप्त्युपायत्वेन योगेन युक्तो विशुद्धात्मा विशुद्धसत्त्वो विजितात्मा विजितदेहो जितेन्द्रियश्च सर्वभूतात्मभूतात्मा सर्वेषांयब्रह्मादीनां स्तम्बपर्यन्तानां भूतानामात्मभूत आत्मा प्रत्यक्चेतनो यस्य स सर्वभूतात्मभूतात्मा। सम्यगदर्शीत्यर्थः। स तत्रैवं वर्तमानो लोकसंग्रहाय कर्म कुर्वन्नपिन लिप्यते। न कर्मभिर्बध्यत इत्यर्थः ।।7।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये योगयुक्तो विशुद्धात्मा... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च