कामक्रोधवियुक्तानां...
श्लोकः संपादित करें
- कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
- अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षड्विंशतितमः (२६) श्लोकः ।
पदच्छेदः संपादित करें
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितः ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ २६ ॥
अन्वयः संपादित करें
कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिवाणम् अभितः वर्तते ।
शब्दार्थः संपादित करें
- कामक्रोधवियुक्तानाम् = रागद्वेषरहितानाम्
- यतचेतसाम् = नियतबुद्धीनाम्
- विदितात्मनाम् = आत्मज्ञानाम्
- यतीनाम् = सन्न्यासिनाम्
- ब्रह्मनिर्वाणम् = मोक्षः
- अभितः = सर्वतः
- वर्तते = विद्यते ।
अर्थः संपादित करें
कामक्रोधाभ्यां वियुक्तानां संयतान्तःकरणानां विदितात्मनां सन्न्यासिनां जीवतां मृतानां चेति उभयतः अपि मोक्षः वर्तते ।
शाङ्करदर्शनम् संपादित करें
किंच कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणंममोक्षो वर्तते, विदितात्मानां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यगदर्शिनामित्यर्थः ।।26।।
|
सम्बद्धाः लेखाः संपादित करें
बाह्यसम्पर्कतन्तुः संपादित करें
विकिमीडिया कॉमन्स् मध्ये कामक्रोधवियुक्तानां... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम् संपादित करें
अधिकवाचनाय संपादित करें
- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च