न कर्तृत्वं न कर्माणि...

श्लोकः संपादित करें

 
गीतोपदेशः
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४ ॥

अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य चतुर्दशः (१४) श्लोकः ।

पदच्छेदः संपादित करें

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः न कर्मफलसंयोगं स्वभावः तु प्रवर्तते ॥ १४ ॥

अन्वयः संपादित करें

प्रभुः लोकस्य कर्तृत्वं न सृजति । कर्माणि न, कर्मफलसंयोगं न । स्वभावः तु प्रवर्तते ।

शब्दार्थः संपादित करें

प्रभुः = परमात्मा
लोकस्य = जनस्य
कर्तृत्वम् = विधातृत्वम्
न सृजति = न करोति
कर्माणि = कर्तव्यानि
न = न करोति
कर्मफलसंयोगम् = कर्मप्रयोजनयोः सम्बन्धम्
न = न कुरुते
स्वभावः तु = अविद्या तु
प्रवर्तते = प्रचरति ।

अर्थः संपादित करें

परमात्मा लोकस्य कर्तृत्वं न उत्पादयति । कर्माणि अपि न सृजति । कर्मफलसंयोगमपि न जनयति । अविद्यालक्षणा प्रकृतिः प्रवर्तते ।

शाङ्करभाष्यम् संपादित करें

न कर्तृत्वमिति। न कर्तृत्वं स्वतः कुर्विति नापि कर्माणि रथघटप्रासादादीनीप्सिततमानि लोकस्य सृजत्युत्पादयति प्रभुरात्मा नापि रथादिकृतवतस्तत्फलेन संयोगं नकर्मफलसंयोगम्। यदि किंचिदपि स्वतो न करोति न कारयति च देही कस्तर्हि कुर्वन्कारयंश्च प्रवर्तत इत्युच्यते। स्वभावस्तु स्वो भावः स्वभावोऽविद्यालक्षणा प्रकृतिर्मायाप्रवर्तते दैवी हीत्यदिना वक्ष्यमाणा ।।14।।


श्रीमद्भगवद्गीतायाः श्लोकाः
  पूर्वतनः
सर्वकर्माणि मनसा...
न कर्तृत्वं न कर्माणि... अग्रिमः
नादत्ते कस्यचित्पापं...
 
न कर्तृत्वं न कर्माणि...

१) संन्यासं कर्मणां कृष्ण... २) संन्यासः कर्मयोगश्च... ३) ज्ञेयः स नित्यसंन्यासी... ४) साङ्ख्ययोगौ पृथग्बालाः... ५) यत्साङ्ख्यैः प्राप्यते स्थानं... ६) संन्यासस्तु महाबाहो... ७) योगयुक्तो विशुद्धात्मा... ८) नैव किञ्चित्करोमीति... ९) प्रलपन्विसृजन्गृह्णन्... १०) ब्रह्मण्याधाय कर्माणि... ११) कायेन मनसा बुद्ध्या... १२) युक्तः कर्मफलं त्यक्त्वा... १३) सर्वकर्माणि मनसा... १४) न कर्तृत्वं न कर्माणि... १५) नादत्ते कस्यचित्पापं... १६) ज्ञानेन तु तदज्ञानं... १७) तद्बुद्धयस्तदात्मानः १८) विद्याविनयसम्पन्ने... १९) इहैव तैर्जितः सर्गो... २०) न प्रहृष्येत्प्रियं प्राप्य... २१) बाह्यस्पर्शेष्वसक्तात्मा... २२) ये हि संस्पर्शजा भोगाः... २३) शक्नोतीहैव यः सोढुं... २४) योऽन्तःसुखोऽन्तरारामः... २५) लभन्ते ब्रह्मनिर्वाणम्... २६) कामक्रोधवियुक्तानां... २७) स्पर्शान्कृत्वा बहिर्बाह्यान्... २८) यतेन्द्रियमनोबुद्धिः... २९) भोक्तारं यज्ञतपसां...


सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तुः संपादित करें

उद्धरणम् संपादित करें

अधिकवाचनाय संपादित करें