नादत्ते कस्यचित्पापं...
श्लोकः
सम्पादयतु- नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
- अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चदशः (१५) श्लोकः ।
पदच्छेदः
सम्पादयतुन आदत्ते कस्यचित् पापं न चैव सुकृतं विभुः अज्ञानेन आवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५ ॥
अन्वयः
सम्पादयतुविभुः कस्यचित् पापं न आदत्ते । सुकृतं च एव न । ज्ञानम् अज्ञानेन आवृतम् । तेन जन्तवः मुह्यन्ति ।
शब्दार्थः
सम्पादयतु- विभुः = परमेश्वरः
- कस्यचित् = कस्यचिदपि जीवस्य
- पापम् = दुरितम्
- न आदत्ते = न स्वीकरोति
- सुकृतं च = पुण्यमपि
- न एव = नैव स्वीकरोति
- ज्ञानम् = ज्ञानम्
- अज्ञानेन = अज्ञानेन
- आवृतम् = आच्छन्नम्
- तेन = तेन
- जन्तवः = जीवाः
- मुह्यन्ति = मोहं प्रप्नुवन्ति ।
अर्थः
सम्पादयतुपरमात्मा कस्यापि जीवस्य पापं पुण्यं वा नैव गृाति । अज्ञानेन ज्ञानम् आवृतं भवति । तेन सर्वेऽपि जन्तवः मोहम् उपगच्छन्ति ।
शाङ्करभाष्यम्
सम्पादयतुपरार्थतस्तु-नादत्ते नच गृह्णति भक्तस्यापि कस्याचित्पापं न चैवादत्ते सुकृतं भक्तैः प्रयुक्तं विभुः। किमर्थं तर्हि भक्तैः पूजादिलक्षणं यागदानहोमादिकं च सुकृतंमप्रयुज्यत इत्याह-अज्ञानेनावृतं ज्ञानं विवेकविज्ञानं तेन विवेकविज्ञानं तेन मुह्यन्ति करोमि कारयामि भोक्ष्ये भोजयामीत्येवं मोहं गच्छन्त्यविवेकिनः संसारिणोजन्तूनां विवेकज्ञानेनात्मविषयेण नाशितमात्मनो भवति तेषामादित्यवद्यथादित्यःसमस्तं रूपजातमवभासयति तद्वज्ज्ञानं ज्ञेयं च वस्तु सर्वं प्रकाशयति तत्परमार्थतत्त्वम् ।।15।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये नादत्ते कस्यचित्पापं... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च