ज्ञेयः स नित्यसंन्यासी...
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य तृतीयः (३) श्लोकः
श्लोकः
सम्पादयतु- ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
- निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ३ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य तृतीयः (३) श्लोकः ।
पदच्छेदः
सम्पादयतुज्ञेयः सः नित्यसन्न्यासी यः न द्वेष्टि न काङ्क्षति निर्द्वन्द्वः हि महाबाहो सुखं बन्धात् प्रमुच्यते ॥ ३ ॥'
अन्वयः
सम्पादयतुमहाबाहो ! यः न द्वेष्टि न काङ्क्षति सः नित्यसन्न्यासी ज्ञेयः । निर्द्वन्द्वः बन्धात् सुखं प्रमुच्यते ।
शब्दार्थः
सम्पादयतु- महाबाहो = हे अर्जुन
- यः = यः पुरुषः
- न द्वेष्टि = न वैरं कुरुते
- न काङ्क्षति = न इच्छति
- सः = सः पुरुषः
- नित्यसन्न्यासी = सततसन्न्यासी
- ज्ञेयः = ज्ञातव्यः
- निर्द्वन्द्वः = रागद्वेषशून्यः
- बन्धात् = बन्धनात्
- सुखम् = अनायासेन
- प्रमुच्यते = मुक्तो भवति ।
अर्थः
सम्पादयतुहे अर्जुन ! यः अन्यान् न द्वेष्टि, किञ्चिदपि न काङ्क्षति सः कर्मयोगी नित्यसन्न्यासी इति ज्ञातव्यम् । रागद्वेषशून्यः सः सुखेन कर्मबन्धात् मुक्तो भवति ।
शाङ्करभाष्यम्
सम्पादयतुकस्मादित्याह-ज्ञेय इति। ज्ञेयो ज्ञातव्यः स कर्मयोगी नित्यसंन्यासीति यो न द्वेष्टि किंचिन्न काङ्क्षति दुःखसुखे तत्साधने यः कर्मणि वर्तमानोऽपि स नित्यसमन्यासीतिज्ञातव्य इत्यर्थः। निर्द्वन्द्वो द्वन्द्ववर्जितो हि यस्मान्महाबाहो सुखं बन्धादनायासेन प्रमुच्यते ।।3।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये ज्ञेयः स नित्यसंन्यासी... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च