संन्यासः कर्मयोगश्च...
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वितीयः (२) श्लोकः
श्लोकः
सम्पादयतुश्रीभगवानुवाच -
- सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
- तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते ॥ २ ॥
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य द्वितीयः (२) श्लोकः ।
पदच्छेदः
सम्पादयतुसन्न्यासः कर्मयोगः च निःश्रेयसकरौ उभौ तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ॥ २ ॥
अन्वयः
सम्पादयतुसन्न्यासः कर्मयोगः च उभौ निःश्रेयसकरौ । तयोः तु कर्मसन्न्यासात् कर्मयोगः विशिष्यते ।
शब्दार्थः
सम्पादयतु- सन्न्यासः = कर्मपरित्यागः
- कर्मयोगः च = कर्मपरिग्रहः च
- उभौ = द्वौ
- निःश्रेयसकरौ = मोक्षप्रदौ
- तयोः तु = किन्तु द्वयोः
- कर्मसन्न्यासात् = कर्मपरित्यागात्
- कर्मयोगः = कर्मपरिग्रहः
- विशिष्यते = प्रशस्यते ।
अर्थः
सम्पादयतुकर्मसन्न्यासः कर्मयोगः च इति एतौ उभौ अपि मोक्षकारकौ । किन्तु कर्मसन्न्यासात् कर्मपरिग्रहः विशिष्यते ।
शाङ्करभाष्यम्
सम्पादयतुस्वाभिप्रायमाचक्षाणो निर्णयाय क्षीभगवानुवाच। संन्यासः कर्मणां परित्यागः कर्मयोगश्च तेषामनुष्ठानं तावुभावति निःश्रेयसकरौ निःश्रेयसं मोक्षं कुर्वाते ज्ञानोत्पत्तिहेतुत्वेनोभौयद्यपि निःश्रेयसकरौ तथापि तयोस्तु निःश्रेयसहेत्वोः कर्मसंन्यासात्केवलात्कर्मयोगो विशिष्यत इति कर्मयोगं स्तौति ।।2।।
|
सम्बद्धाः लेखाः
सम्पादयतुबाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये संन्यासः कर्मयोगश्च... सम्बन्धिताः सञ्चिकाः सन्ति। |
उद्धरणम्
सम्पादयतुअधिकवाचनाय
सम्पादयतु- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च